SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/१३ योजनरूपे प्रक्षिप्ते यथोक्तं मानं भवति, आह-दक्षिणभरतार्द्धवदस्यापि विष्कम्भ एव शरोऽस्तु, मैवं, खण्डमण्डलक्षेत्रे आरोपितज्यधनुराकृति प्रादुर्भवति, तत्र चायामपरिज्ञानाय जीवा परिक्षेपप्रकर्षपरिज्ञानाय धनुःपृष्ठं व्यासप्रकर्षपरिज्ञानाय शरः, सच धनुःपृष्ठमध्यमत एवास्य भवति, प्रस्तुतगिरश्च केवलस्य धनुराकृतेरभावेन धनुःपृष्ठस्याप्यभावात् शरोऽपिन सम्भवति, तन दक्षिणधनुःपृष्ठेन सहैवास्यधनुःपृष्ठवत्वमितिप्राच्यशरमिश्रितएवास्य विष्कम्भःशरोभवति, अन्यथा शरव्यतिरिक्तस्थाने न्यूनाधिकत्वेन प्रकृष्टव्यासप्ताप्तेरेवानुपपत्तेरित्यलं प्रसङ्गेन, इदमेव शरणं दक्षिणविदेहार्द्ध यावद् बोध्यम्, एवमुत्तरतोऽपि ऐरावतवैताट्यतः प्रारभ्योत्तरविदेर्द्ध यावदिति। अथास्य बाहे आह-'तस्स वाह'त्ति तस्य-वैताव्यस्य बाहा-दक्षिणोत्तरायता वक्रा आकाशप्रदेशपंक्ति 'पुरस्थिमपञ्चस्थिमेणं'तिसमाहारात्पूर्वपश्चिमयोरेकैका अष्टाशीत्यधिकानि चत्वारि योजनशतानि षोडश चैकोनविंशतिभागान् योजनस्य एकस्यैकोनविंशतिभागस्य चार्धं अर्धकला, योजनस्याष्टत्रिंशत्तमं भागमित्यर्थः, आयामेन-दैर्येण प्रज्ञप्ता, ऋजुबाहायास्तु पर्वतमध्यवर्त्तिन्याः पूर्वापरायताया मानं क्षेत्रविचारादिभ्योऽवसेयं, अत्र करणं-यथा गुरुधनुःपृष्ठाल्लघुधनुःपृष्ठं विशोध्य शेषस्यार्धे कृते बाहा, यथा गुरुधनुःपृष्ठंवैताढ्यसत्कं कलारूपं २४१३२, अस्माल्लघुधनुःपृष्ठं कलारूपं १८५५५५ शोध्यते जातं १८५७७, अर्द्ध कृते कलाः ९२८८, तासामेकोनविंशत्या भागेयोजनानि४८८ कलाः १६ कलार्द्धचेति, एवंयावद्दक्षिणविदेहार्द्धबाहा, एवमुत्तरत एरावतवैताट्यवाहा यावदुत्तरविदेहार्द्धबाहा तावदिदं करणं भावनीयं, अथास्य जीवामाह-तस्य-वैतादयस्य जीवा 'उत्तरेणे' त्यादि प्राग्वत्, नवरं दश योजनसहस्राणिसप्तच विंशानि-विंशत्यधिकानियोजनशतानि द्वादशचैकोनविंशतिभागान्योजनस्यायामेनेति, पूर्वोक्तकरणक्रमेणजम्बूद्वीपव्यासःकलारूपः १९शून्यः ५, अस्माद्वैताट्यशरकलानां ५४७५ शोधनो जातं १८९४५५२५, अस्मिन् वैताढ्यशर ५४७५ गुणे जातं १०३७२५२४३७५, तस्मिन् पुनश्चतुर्गुणे जातं ४१४९००९७५००, एष वैताढ्य- जीवावर्ग, अस्य मूले जातं छेदराशि ४०७३८२, लब्धं कलाः २०३६२१, शेष कलांशाः ७४०१९, लब्धकलानामेकोनविंशत्या भागे लब्धानियोजनानि १०७२० कलाः, सेषकलांशानां अर्धाभ्यधिकत्वात्, अर्धाभ्यधिके रूपं देयमिति एककलाक्षेपेजाताः कलाःद्वादशेति, अथास्य धनुःपृष्ठमाह तीसे धनुपुढे दाहिणेणमिति, गतार्थमेतत्, नवरं दशयोजनसहस्राणि सप्त च त्रिचत्वारिंशानि-त्रिचत्वारिंशदधिकानि योजनशतानि पञ्चदश चैकोनविंशतिभागान् योजनस्येति, अत्र करणं यथावैताब्येषुः कलारूपः ५४७५, अस्य वर्ग २९९७५६२५, अयंषड्गुणः १७९८५३७५०, वैताढ्यजीवावर्गश्च ४१४९००९७५०० उभयोर्मीलने जातं ४१६६९९५१२५० एष वैताढ्यधनुःपृष्ठवर्ग, अस्य मूलेछेदराशि४०८२६४ लब्धकलाः २०४१३२ शेषकलांशाः ७७८२६ लब्धकलानामेकोनविंशत्या भागे लब्धं यथोक्तंमानां १०७४३, अथ किंविशिष्टोऽसौ वैतान्य ___ 'रुअगे'त्यादि, रुचकं-ग्रीवाभरणभेदः तत्संस्थानसंस्थितः सर्वात्मना रजतमयः 'अच्छे' त्यादिपदकदम्बकंप्राग्वत्, उभयोः पार्श्वयोदक्षिणतः उत्तरतश्चद्वाभ्यांपद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सर्वतः समन्तात् संपरिक्षिप्तः अत्र यत्पद्मवरवेदिकाद्वयं तत्पूर्वापरतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy