SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ५४१ क्रमादासीदस्मिन् परमगुरुरानन्दविमलः॥ ॥८॥ अन्तर्बाह्यमिति द्विधापि कुमतं श्रद्धावतां स्वागतं, निश्रद्धस्तु यथाशयं प्रकटितं विच्छिन्दतोऽस्य प्रभोः । बाह्यध्वान्तविभेदिनो दिनमणेः साम्यं न रम्यं न वा, ध्वान्तद्वैतभिदोऽपि मन्दिरमणेः संरक्षतोऽधस्तमः॥ ॥९॥ स्वगच्छे स्वस्मिंश्च प्रथयति तरां स्म प्रथम तस्तथा साधोश्चर्यां ध्रुवसमय एव प्रभुरसी। यथा सैतत्पट्टाधिपतिपुरुषे संयतगणे, क्रमादुर्वी गुर्वी प्रजनियशस्काऽनुववृते॥ ॥१०॥ तत्पट्टभूषणमणि सुगुरूप्तधर्मबीजप्रवर्द्धनपटुर्भरतक्षमायाम्। सूरीश्वरो विजयदानगुरूर्बभूव, के वादिनो विजयदा न बभूवुरस्य ।। ॥११॥ नालीकनीरनिधिनिर्जरसिन्धुसेवा, चक्रुश्चतुर्मुखचतुर्भुजचयचन्द्रचूडाः । यस्य प्रतापपरितापभूतो न भीता, एते जडाश्रयिण इत्यपवादतोऽपि । ॥१२॥ · तत्पढें गुरुहीरहीरविजयो बिभ्राजयामासिवान्, जाग्रभाग्यनिधि प्रियागमविधिश्चारित्रिणां चावधि। यं सम्प्राप्य जगत्रयैकसुभगं मुक्तो मियो मत्सरः, श्रीवागम्यामिव दीर्घकालजनितो ज्ञानक्रियाभ्यामपि॥ ॥१३॥ सौभाग्यं यस्य नाम्नो नृपसदसि गुणिष्वादितायां प्रसिद्धः, सौभाग्यं देशनाया अकबरनृपति पादयोः पादुकारच्चा । सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरोऽसौ, सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपातः ।। ॥१४॥ इदानीं तत्पट्टे गुरुविजयसेनो विजयते, कलौ काले मूतः सुविहितजनाचारनिचयः । विरेजे राजन्वान् शशधरगणो येन विभुना, गुणग्रामो यस्माद् भवति विनयेनैव सुभगः ॥ खलास्तेजोराशिं चरणगुणराशिं सुविहिता, विनेयाश्चिदराशिं प्रतिवचनराशिं कुमतिनः । कवि कीर्ते राशि वरविनयराशिं च गुरवो, विदुः स्थाने जाने शुचिसुकृतराशिं पुनरमुम् ।। गुरोरस्य श्रुत्वा श्रवणमधुरं चारु चरितं, स्वगन्धर्वोदगीतं शुचिगुणगणोपार्जनभवम् । चमतकारोत्कर्षात् ससलिलसहस्रनिमिषद्दक, पटक्लेदक्लेशं सुबहु सहते गिर्यसहनः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy