________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/
इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानेऐदंयुगीननराधिपतिचक्रवर्तिसमान श्री अकब्बरसुरत्राणप्रदततषाण्मासिकसर्वजन्तुजा ताभयदानशत्रुंजयादिकरमोचनस्फुरन्मान प्रदानप्रभृतिबहुमानयुग प्रधानोपमानसाम्प्रतविजयमा श्रीमत्तपागच्छाधिराज श्रीहीरविजय सूरिश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती रत्नमञ्जूषानाभ्यां ज्योतिष्काधिकारवर्णनो नाम सप्तमो वक्षस्कारः समाप्तः, तत्समाप्तौ च समाप्तयेयं श्री जम्बूद्वीप प्रज्ञप्ति उपाङ्ग वृत्ति ॥
मुनि दीपरत्न सागरेण संशोधिता सम्पादिता जम्बूदीपप्रज्ञसिउपाङ्गसूत्रे शान्तिचन्द्रवाचकेन विरचिता वृत्ति परि समाप्ता । प्रशस्तिः ।
५४०
श्रेयः श्रीप्रतिभूप्रभूततपसा यो मोहराजं रिपुं, दध्वंसे सहसा श्रितो गतमलं ज्ञानं च यः केवलम् । यो जुष्टश्च सदा त्रिविष्टपसदां वृन्दैस्तथा तथ्यवागू, यस्तीर्थाधिपति श्रियं स ददतां श्रीवीरदेवः सताम् ॥ अर्हत्स्विवात्र निखिलेषु गणाधिपेषु, वामेयदेव इव यो विदितो जगत्याम् । आदेयतामदधदभ्दुतलब्धिधाम श्री गौतमोऽस्तु सम (मम) पूरितसिद्धिकामः ॥
॥ ४ ॥
॥ ३ ॥ यं पञ्चमं प्रथमतोऽपि रतोपयेमे, श्रीवीरपट्टपटुलक्ष्मिसरोरुहाक्षी । रुद्रातेिषु गणभृत्सु सुधर्म्मनामा, भूयादयं सुभगतानिधिरिष्टसिद्धयै ॥ तस्य प्रभोःस्थविर वृन्दपरम्परायां, तत्तल्लसत्कुलगणावलिसम्भवायाम् । जातः क्रमाद् वटगणेन्द्रतपस्विसूरेः, श्रीमांस्तपागण इति प्रथितः पृथिव्याम् ॥ पद्मावतीवचनतोऽभ्युदयं विभाव्य, यत्सूरये स्तवनसप्तशतीं स्वकीयाम् । सूरिर्जिनप्रभ उपप्रददे प्रथायै,
सोऽयं सत तपगणो न कथं प्रशस्यः ॥ तत्रानेके बभूवुः सुविहितगुरवः श्रीजगच्चन्द्रमुख्याः, दोषायां वा दिवा वा सदसि रहसि वा स्वक्रियास्वेकभावाः । आदिक्रोडैरिवौर्वी चिकिलभरगता दुष्प्रमादावमग्ना, यैरुद्द वितन्द्रैः स्वपरहितकृते सक्रिया सक्रियाह ॥ अदुष्यं वैदुष्यं चरणगुणवैदुष्यसहितं, प्रमादाद्वैमुख्यं प्रवचनविधेः सत्कथकता गुणो यस्येत्थं न खलदुर्वाक्यविषयः,
For Private & Personal Use Only
॥१॥
॥२॥
॥५॥
॥ ६ ॥
॥७॥
Jain Education International
www.jainelibrary.org