________________
५३८
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७ / ३६४
बोध्यं, अन्यथैषां प्रावृट्कालभाविपुष्पफलोदयवत्वेन प्रत्यत्रबाधात्, एतेन च जम्बूवृक्षबहुलो द्वीपो जम्बूद्वीप इत्यावेदितं भवति, अथवा जम्ब्वां सुदर्शनाभिधानायामनाध्तनामा - पूर्वं जम्बूवृक्षाधिकारे व्याख्यातनामा देवो महर्द्धिको यावत्करणात् 'महज्जुईए' इत्यादि ग्राह्यं, पल्योपमस्थितिकः परिवसति, अथ तेनार्थेन भदन्त ! एवमुच्यते - स्वाधिपत्यनाध्तनामदेवाश्रयभूतया जम्ब्वोपलक्षितो द्वीपो जम्बूद्वीप इति सूत्रैकदेशो ह्यपरं सूत्रैकदेशं स्मारयतीति 'अदुत्तरं च णं जंबुद्दीवस्स सासए नामधे पन्नत्ते जंन कयाइ न आसी न कयाइ नत्थि न कयाइ न भविस्सइ जाव निच्चे' इति ज्ञेयम्, जीवाभिगमादर्शे तथादर्शनात्, एतेन किमाकारभावप्रत्यवतारो जंबूद्वीप इति चतुर्थ प्रश्नो निर्व्यूढ इति ।
मू. (३६५) तए णं समणे भगवं महावीरे मिहिलाए नयरीए माणिभद्दे चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए एवमाइक्खइ एवं भासइ एवं पन्नवेइ एवं परूवेइ जंबूदीवपन्नत्ती नामत्ति अज्जो ! अज्झयणे अटुं च हेउं च पसिणं च कारणं च वागरणं च भुजो २ उवदंसेइत्तिबेमि ॥
वृ. अथ प्रस्तुततीर्थद्वादशाङ्गीसूत्रसंसूत्रणाविश्वकर्मा श्रीसुधर्मस्वामी स्वस्मिन्गुरुत्वाभिमानं परिजिहीर्षु प्रस्तुतग्रन्थनामोपदर्शनपूर्वकं निगमनवाक्यमाह - 'तए ण' मित्यादि, शाश्वतत्वाच्छाश्वतनामकत्वाच्च सद्रूपोऽयं जम्बूद्वीपरूपो भावः, सन्तं हि भावं नापलपन्ति वीतरागास्ततः श्रमणो भगवान् महावीरो मिथिलायां नगर्यां माणिभद्रे चैत्ये बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां बहूनां देवानां बहूनां देवीनां मध्यगतो न पुनरेकान्ते एकतरस्य कस्य चित् पुरतः एवं यथोक्तमुक्तानुसारेणेत्यर्थ आख्याति - प्रथमतो वाच्यमात्रकथनेन एवं भाषते --विशेषवचनकथनतः एवं प्रज्ञापयति-व्यक्तपर्यायवचनतः एवं प्ररूपयत्युपपत्तितः, आख्येयस्याभिधानमाह - जम्बूद्वीपप्रज्ञप्तिरिति नाम षष्ठोपाङ्गमिति शेषः, एतच्च ग्रन्थाग्रेण साधिकैकचत्वारिंशच्छतश्लोकमानं, यत्तु श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिटीकायां द्वितीयप्राभृतप्राभृते 'एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चउद्दस सलिलासयसहस्साइं छप्पन्नं च सलिलासहस्साई भवतीतिम- क्खाय' मित्यंतं श्लोकसहस्रचतुष्टयमानमुक्तं, ज्योतिष्काधिकारसूत्रमीलनेन च सप्तचत्वारिंशच्छ- ताधिकमपि तत्तु यावत्पदसंग्रहेण जन्माधिकारबृहद्वाचनाप्रक्षेपेण च तावत्परिमाणं सम्भाव्यत इति बोध्यं ।
1
अत्र गुणान् विभावयन्नाह - 'अज्जो अज्झयणे अहं च हेउं च पसिणं च' इत्यादि, आरात्- सर्वपापाद् दूरं यातः आर्य-श्रीवर्द्धमानस्वामी अत एव सर्वसावद्यवर्जकत्वेन 'सावयं निरर्थकं तुच्छार्थकं च ब्रूयादिति वक्तृप्रामाण्येन वचनप्रामाण्यमावेदितं भवति, अथवा श्री सुधर्म्मस्वामिसम्बोधनं श्रीजम्बूस्वामिनं प्रति हे आर्य ! इति, अध्ययने - प्रस्तुतजम्बूद्वीपप्रज्ञप्तिनामके स्वतन्त्राद्ययने न तु शस्त्रपरिज्ञादिवत् श्रुतस्कन्धाद्यन्तर्गते अर्थं च चाः परस्परं समुच्चयार्था हेतु च प्रश्नं च कारणंच व्याकरणं च भूयो भूयो - विस्मरणशील श्रोत्रनुग्रहार्थं वारंवारं प्रकाशनेन अथवा प्रतिवस्तु नामार्थादिप्रकाशनेनोपदर्शयतीति सम्बन्धः, अनेन गुरुपारतन्त्रयमभिहितं, तत्रार्थो जम्बूद्वीपादिपदानामन्वर्थः, स यथा 'से केणट्टेणं भंते! एवं बुच्चइ-जंबुद्दीवे दीवे गो० ! जम्बु० तत्थ २ देसे तहिं २ बहवे जम्बूरुक्खा जम्बूवणा जम्बूवणसंडा जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org