________________
वक्षस्कारः -७
५३७
तत्परिणामे द्वीपस्यापि चलत्वापत्तिरिति तयोः स्वत एव सन्देहाविषयत्वेन न प्रश्नसूत्रे उपन्यासः, भगवानाह - गौतम ! पृथिवीपरिणामोऽपि पर्वतादिमत्वात् अप्परिणामोऽपि नदीहदादिमत्वात् जीव परिणामोऽपि मुखवनादिषु वनस्पत्यादिमत्वात्, यद्यपि स्वसमये पृथिव्यपकायपरिणामत्वग्रहणेनैव जीवपरिणामत्वं सिद्धं तथापि लोके तयोर्जीवत्वस्याव्यवहारात् पृथग्ग्रहणं, वनस्पत्यादीनां तु जीवत्वव्यवहारः स्वपरसम्मत इति, पुद्गलपरिणामोऽपि मूर्त्तत्वस्य प्रत्यक्षसिद्धत्वात्, कोऽर्थः ? – जम्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरे भवति, समुदायरूपत्वात् समुदायिन इति ।
अथ यदि चायं जीवपरिणामस्तर्हि सर्वे जीवा अत्रोत्पन्नपूर्वा उत नेत्याशङ्कयाह- 'जंबुद्दीवे भंते!' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे सर्वे प्राणाः - द्वित्रिचतुरिन्द्रियाः सर्वे जीवाः- पञ्चेन्द्रियाः सर्वेभूताः -तरवः सर्वे सत्वाः - पृथिव्यपतेजोवायुकायिकाः, अनेन च सांव्यवहारिकराशिविषयक एवायं प्रश्नः, अनादिनिगोदनिर्गतानामेव प्राणजीवादिरूपविशेषपर्यायप्रतिपत्तेः, पृथिवीकायिकतया अपकायिकतया तेजस्कायिकतया वायुकायिकतया वनस्पतिकायिकतया उपपन्नपूर्वाउत्पन्नपूर्वा ?, भगवानाह - 'हंता गोअमा ! ' एवं गौतम ! यथैव प्रश्नसूत्रं तथैव प्रत्युच्चारणीयं पृथिवीकायिकतया यावद्वनस्पतिकायिकतया उपपन्नपूर्वा कालक्रमेण संसारस्यानदित्वात्, न पुनः सर्वे प्राणादयो जीवविशेषा युगपदुत्पन्नाः सकलजीवनामेककालं जम्बूद्वीपे पृथिव्यादिभावेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चतदस्ति, तथा जगत्स्वभावादिति, कियन्तो वारानुत्पन्ना इत्याह- असकृद्- अनेकशः अथवा अनन्तकृत्वः - अनन्तवारान् संसारस्यानादित्वादिति । अथ जम्बूद्वीपेतिनाम्नो व्युत्पत्तिनिमित्तं जिज्ञासिषुः पृच्छति
मू. (३६४) से केणट्टेणं भंते ! एवं दुबइ जंबुद्दीवे २ ?, गो० ! जंबुद्दीवे णं दीवे तत्थ २ देसे तहिं २ बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा निच्चं कुसुमिआ जाव पिंडिममंजरिवडेंसगधरा सिरीए अईव उवसोभेमाणा चिट्ठति, जंबूए सुदंसणाए अनाढिएंणामं देवे महिद्धीए जाव पलि ओवमट्ठिए परिवसइ, से तेणद्वेणं गोअमा ! एवं बुच्चइ जंबुद्दीवे दीवे इति ।
वृ. 'सेकेणट्टेणं भंते! एवं बुच्चइ - जंबुद्दीवे दीवे' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते जम्बूद्वीपो द्वीपः ?, भगवानाह - गौतम ! जम्बूद्वीपे २ तत्र तत्र देशे तस्य देशस्य २ तत्र तत्र प्रदेशे बहवो जम्बूवृक्षाः एकैकरूपाः विरलस्थितत्वात् तथा बहूनि जम्बूवनानि - जम्बूवृक्षा एव समूहभावेन स्थिताः अविरलस्थितत्वात् ‘एकजातीयतरुसमूहो वन' मिति वचनात्, तथा बहवो जम्बूवनखण्डाःजम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः, 'अनेकजातीयतरुसमूहो वनखण्ड' इति वचनात्, तत्रापि जम्बूवनखण्डाः - जम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः, 'एनेकजातीयतरुसमूहो वनखण्ड' इति वचनात्, तत्रापि जम्बूवृक्षाणामेव प्राधान्यमिति प्रस्तुते वर्णकसाफल्यं, अन्यथा अपरवृक्षाणां वनखण्डेर्निमित्तभूतैर्जम्बूद्वीपपदप्रवृत्तिनिमित्तत्वेऽसाङ्गत्यात्, ते च कथंभूता इत्याहनित्यं सर्वकालं कुसुमिताः यावत्पदात् 'निच्चं माइया निच्चं लवइआ निच्चं थवइआ जाव निचं कुसुमिअमाइअलवइअथवइअगुलइ अगोच्छइ अजमलि अजुवलि अविणमिअसुविभत्त' इति ग्राह्यम् एतदव्याख्यानं प्राग्वनखण्डवर्णके कृतमिति ततो ज्ञेयं, उक्तवर्णकोपेताश्च वृक्षाः श्रिया अतीव उपशोभमानास्तिष्ठन्ति इदं च नित्यकुसुमित्वादिकं जम्बूवृक्षाणामुत्तरकुरुक्षेत्रापेक्षया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org