________________
५१०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३१ नक्षत्राणि युञ्जन्ति ?-यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठी अमावास्यां परिसमापयन्ति ? -, भगवानाह-गौतम! वे नक्षत्रे युक्तः, तद्यथा-अश्लेषा मघा, इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्याक्तिने पञ्चदशे चतुईशे वा नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्यपरतः पञ्चदशे चतुर्दशे वा नक्षत्रेपौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायांचोक्ताततोऽमावास्यायामप्यस्यां अश्लेषामघा चोक्ता, लोकेच तिथिगणितानुसारतोगतायामप्यमावास्यायां वर्तमानायामपि प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽमा. वास्याऽभूत्ततः सकलोऽन्यहोरात्रोऽमावास्येतिव्यवहियते, ततोमघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां प्राप्यते इति न कश्चिद्विरोध, परमार्थतः पुनरिमाममावास्यां इमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-पुनर्वसूपुष्योऽश्लेषाच,अस्यांपञ्चानामपि युगभाविनीनांनक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, करणं चात्र प्रागुक्तं ।
तथा प्रौष्ठपदी भदन्त ! अमावास्यां कति नक्षत्राणि युञ्जन्ति?, गौतम! वे नक्षत्रे युक्तः, तद्यथा-पूर्वफल्गुनी उत्तरफल्गुनी चशब्दान्मघा ग्राह्या, अस्यास्तुभाद्रपदपूर्णिमावर्तिशतभिषक्तो व्यवहारतोऽपिकरणरीत्या निश्चयतश्चाग्गिणने पंचदशत्वात्, आसांपंचानामपियुगभाविनीनां नक्षत्रत्रयाणांमध्येऽन्यतरेण समापनाच, करणंच पूर्ववत्।
___ तथा आश्वयुजीममावास्यांकतिनक्षत्राणियुञ्जन्ति?,गौतम!वनक्षत्रेयुक्तः, तद्यथा-ह स्तश्चित्राच, इदमपि व्यवहारतः निश्चयतस्तु आश्वयुजीममावास्यां त्रीणि नक्षत्राणि समापयन्ति, तद्यथा-उत्तरफल्गुनी हस्तश्चित्राच, यच्च पूर्वमाश्वयुज्यां पूर्णिमायामुत्तरभद्रपदा प्रागुक्तहेतोर्न विवक्षिता परं निश्चयतः सा आयातीति तस्याः पंचदशत्वादुत्तरफल्गुन्यत्र गृहीता, आसां च पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात् भावना प्राग्वत, तथा कार्तिकी अमावास्यां द्वे नक्षत्रे युक्तः, तद्यथा-स्वातिर्विशाखाच, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि स्वातिर्विशाखा चित्रा च, अस्यामपि पूर्णिमायां अश्विन्यनुरोधेन चित्रोक्ता, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनादिति।
तथा मार्गशीर्षी त्रीणिनक्षत्राणियुअन्ति, तद्यथा-अनुराधा ज्येष्ठामूलश्च,एदपिव्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि अमावास्या परिसमापयन्ति, तद्यथा-विशाखा अनुराधा ज्येष्ठाच आसांपंचानांयुगभाविनीनांनक्षत्रत्रयाणां मध्येऽन्यतरेणसमापनात्, तथापौषीममावास्यां द्वे नक्षत्रे युक्तः-पूर्वाषाढा उत्तराषाढाच, एतदपि व्यवहारत उक्तं निश्चयतः पुनस्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-मूलंपूर्वाषाढाउत्तराषाढाच,आसांयुगमध्येऽधिकमासम्भवेन षण्णामपीत्यादि पूर्ववत्, तथा माघीममावास्यांत्रीणि-अभिजित् श्रवणोधनिष्ठा, एतत्पूर्णिमावर्तिभ्यामश्लेषामधाभ्यामभिजितः षोडशत्वेन व्यवहारातीतत्वेऽपि श्रवणसम्बद्धत्वात्पंचदशत्वंसमाधेयम्, एतदपिव्यवहारतः निश्चयतःपुनस्त्रणिउत्तराषाढा अभिजित् श्रवणश्च,आसांपंचानामपीत्यादिपूर्ववत् ।
तथा फल्गुनीं त्रीणि तद्यथा-शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा, एतदपि व्यवहारतः निश्चयतस्त्रीणि तद्यथा-धनिष्ठा शतभिषक्पूर्वभद्रपदाच, आसांपंचानामपीत्यादि तथैव, तथा चैत्री द्वे नक्षत्रे-रेवती आश्विनी च, एतदपि व्यवहातः निश्चयतस्तु त्रीणि तद्यथा-पूर्वभद्रपदा उत्तरभद्रपदा रेवती च, आसामपीत्यादि तथैव, तथा (वैशाखी वे नक्षत्रे-भरणी कृत्तिका च,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org