SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ५०९ सम्प्रति कुलद्वारप्रतिपादनेन स्वतः सिद्धामपि कुलादियोजनां मन्दमतिशिष्यबोधनाय प्रश्नयन्नाह--"साविट्ठिण्ण मित्यादि, श्राविष्ठी भदन्त! किं कुलंयुनक्ति उपकुलंयुनक्ति कुलोपकुलं युनक्ति?, भगवानाह-गौतम! कुलं वायुनक्ति वाशब्दः समुच्चये ततः कुलमपि युनक्तीत्यर्थः, एवमुपकुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जत् दनिष्ठानक्षत्रं युनक्ति, तस्यैव कुल (तया) प्रसिद्धस्य सतः श्राविष्ठयां पौर्णमास्यां भावात्, उपकुलं युञ्जत् श्रवणनक्षत्रंयुनक्ति, कुलोपकुलं युअत्अभिजिनक्षत्रंयुनक्ति, तद्धितृतीयायां श्राविष्ठयांपूर्णिमास्यांद्वादशमुहूर्तेषुकिञ्चितसमधिकेषु शेषेषु सह योगमुपैति, ततः श्रवणसहचरत्वात् स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपितां परिसमापयति इति विवक्षितत्वाधुनक्तीत्युक्तं । सम्प्रत्युपसंहारमाह-यत एवं त्रिभिरपि कुलादिभि श्राविष्ठयाः पौर्णमास्यां योजनाऽस्ति ततः श्राविष्ठी पौर्णमासी कुलं वायुनक्ति उपकुलं वायुनक्ति कुलोपकुलं वायुनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा युक्ता सती श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् । तथा 'पोट्टवदिण्णं भंते ! इत्यादि, प्रौष्ठपदी पौर्णमासी भदन्त ! किं कुलं वायुनक्तीत्यादि पृच्छा, गौतम! कुलं वा उपकुलं वा कुलोपकुलं वायुनक्ति, तत्र कुलं युञ्जत् उत्तरभद्रपदानक्षत्रंयुनक्ति, उपकुलंयुनत् पूर्वभद्रपदानक्षत्रं युनक्ति, कुलोपकुलं युअत् शतभिषक् नक्षत्रं युनक्ति, उपसंहारमाह यतएवंत्रिभिरपिकुलादिभिःप्रौष्ठपद्याः पौर्णमास्याः योजनाऽस्तिततः प्रौष्ठपदी पौर्णमासी कुलं वायुनक्ति उपकुलं वायुनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात् इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवाकुलेन वा युक्ता सतीप्रौष्ठपदीपौर्णमासीउपकुलेनवायुक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् इति । तथा 'अस्सोइण्ण मिति आश्वयुजी भदन्तेति पृच्छा, गौतम! कुलं वायुनक्ति उपकुलं वायुनक्ति नो लभतेकुलोपकुलं, तत्र कुलंयुञ्जत् अश्विनीनक्षत्रं युनक्ति, उपकुलं युञ्जत् रेवतीनक्षत्रं युनक्ति, उपसंहारमाह-यत एवं द्वाभ्यां कुलादिभ्या आश्वयुज्याः पौर्णमास्या योजनास्ति तत आश्वयुजी पौर्णमासी कुलं वा युनक्ति उपकुलं वा युनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा उपकुलेन वा युक्ता सती आश्वयुजी पौर्णमासी युक्तेति वक्तव्यं स्यात् इति।। तथा कार्तिकी भदन्त ! पौर्णमाप्ती किं कुलमित्यादि पृच्छा, गौतम! कुलं वा युनक्ति न , कुलोपकुलं युनक्ति न कुलोपकुलं युनक्ति, तत्र कुलं युञ्जत् कृत्तिकानक्षत्रं युनक्ति उपकुलं युअत् भरणीनक्षत्रं युनक्ति कार्तिकीमित्याधुपसंहारवाक्यं प्राग्वत् इति, मार्गशीर्षी भदन्त ! पौर्णमासी किं कुलं तदेवेति द्वेयुक्तः, कोऽर्थः?-कुलमुपकुलं वायुनक्तिन भवति कुलोपकुलं, तत्र कुलं युनत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी, मार्गशीर्षी पौर्णमासीमित्याधुपसंहारवाक्यं प्राग्वत्, अथ लाघवार्थमतिदेशमाह-एवं सेसिआओ'इत्यादि, एवं शेषिका अपि-पौष्याधास्तावद्वक्तव्याःयावदानाढीपूर्णिमा इत्यर्थः,पौषी ज्येष्ठामूलीं च पूरणिमं कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वायुनक्ति, शेषिकायां-माध्यादीनां कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलोपकुलं न मण्यते, तदभावादिति।। अथामावास्याः-'साविट्ठिणं इत्यादि, श्राविष्ठीं-श्रावणमासभावीनी अमावास्यां कति Jain Education International För Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy