SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -७ तिथयः प्रज्ञप्ताः ?, गौतम ! पञ्चदश तिथयः प्रज्ञप्ताः, तद्यथा-नन्दो भद्रो जयस्तुच्छो ऽन्यत्र रिक्तः पूर्णः, अत्र तिथिशब्दस्य पुंसि निर्द्दिष्टतया नन्दादिशब्दानामपि पुंसि निर्देशः, ज्योतिष्करण्डकसूर्यप्रज्ञप्तिवृत्यादी तु नन्दा भद्रा जया इत्यादिस्त्रीलिङ्गनिर्देशेन संस्कारो ध्श्यते, स च पूर्णः पञ्चदश तिध्यात्मकस्य पक्षस्य पञ्चमी इति रूढः, एतेन पञ्चमीतः परेषां षष्ट्यादितिथीना नन्दादिक्रमेणैव पुनरावृत्तिर्दर्शिता, तथैव सूत्रे आह-पुनरपि नन्दः भद्रः जयः तुच्छः पूर्णः, स च पक्षस्य दशमी, अनेन द्वितीया आवृत्तिः पर्यवसिता, पुनरपि नन्दः भद्रः जयः तुच्छः पूर्ण, सच पक्षस्य पञ्चदशी, उक्तमर्थं निगमयति- एवमुक्तरीत्या आवृत्तित्रयरूपया एते अनन्तरोक्ता नन्दाद्याः पंच त्रिगुणाः पञ्चदशसंख्याकास्तिथयः सर्वेषां पञ्चदशानामपि दिवसानां भवन्ति, एताश्च दिवस तिथय उच्यन्ते, आह-दिवसतिथ्योः कः प्रतिविशेषो येन तिथिप्रश्नसूत्रस्य पृथग्विधानं ? उच्यते, सूर्यचारकृतो दिवसः स च प्रत्यक्षसिद्ध एव, चन्द्रचारकृता तिथि, कथमिति चेत् ? उच्यते, पूर्वपूर्णिमापर्यवसानं प्रारभ्य द्वाषष्टिभागीकृतस्य चन्द्रमण्डलस्य सदानावरणीयी द्वी भागौ वर्जयित्वा शेषस्य षष्टिभागात्मकस्य चतुर्भागात्मकः पंचदशी भागो यावता कालेन ध्रुवराहुविमानेन आवृतो भवति अमावास्यान्ते च स एव प्रकटितो भवति तावान् कालविशेषस्तिथि अथ रात्रि वक्तव्यप्रश्नमाह - एगमेगस्स' इतियादि, एकैकस्य भदन्त ! पक्षस्य कति रात्रयोऽनन्तरोक्तदिवसानामेव चरमांशरूपाः प्रज्ञप्ताः ?, गौतम ! पञ्चदश रात्रय प्रज्ञप्ताः, तद्यथा- प्रतिपद्रात्रि यावत्करणाद् द्वितीयादिरात्रिपरिग्रहः, एवं पंचदशीरात्रिरिति । 'एआसि णमित्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे गौतम! पञ्चदश नामधेयानि प्रज्ञप्तानि तद्यथा मू. (२९३) ४८९ उत्तमाय सुनक्खत्ता, एलावत्ता जसोहरा । सोमनसा चैव तहा, सिरिसंभूआ य बोद्धव्या ।। मू. (२९४) विजया य वेजयंति जयंति अपराजिआ य इच्छा य । समाहारा चैव तहा तेआ य तहा अईतेआ ।। वृ. उत्तमा प्रतिपद्रात्रिः सुनक्षत्रा द्वितीयारात्रिः एलापत्या तृतीया यशोधरा चतुर्थी सौमनसा पञ्चमी श्री सम्भूता षष्ठी विजया सप्तमी वैजयन्ती अष्टमी जयन्ती नवमी अपराजिता दशमी इच्छा एकादशी समाहारा द्वादशी तेजास्त्रयोदशी अतितेजाश्चतुर्दशी देवानन्दा पंचदशी निरत्यपि पंचदश्या नामान्तरं, इमानि रजनीनां नामधेयानि । यथा अहोरात्राणां दिवसरात्रिविभागेन संज्ञान्तराणि कथितानि तथा दिवसतिथिसंज्ञान्तराणि प्रागुक्तानि । मू. (२९५) देवानंदा निरई रयणीणं नामधिज्जाइं। एयासि णं भंते! पन्नरसण्हं राईणं कइ तिही पं० ?, गो० ! पन्नरस तिही पं० तं०-उग्गवई भोगवई जसवई सव्वसिद्धा सुहनामा, पुनरवि जाव सुहनामा, पुनरवि जाव सुहनामा, एवं तिगुणा एते तिहीओ सव्वेसिं राईणं, एगमेगस्स णं भंते! अहोरत्तस्स कइ मुहुत्ता प०गो० तीसं मुहुत्ता पं० तं० कृ- अथ रात्रितिथिसंज्ञान्तराणि प्रश्नयन्नाह - 'एतासिणं' इत्यादि, एतासां भदन्त ! पञ्चदशानां रात्रीणां कति तिथयः प्रज्ञप्ताः ? गौतम ! पञ्च तिथयः प्रज्ञप्ताः, तद्यथा- प्रथमा उग्रवती नन्दातिथिरात्रिः, द्वितीया भोगवती भद्रातिथिरात्रिः, तृतीया यशोमती जयातिथिरात्रिः, चतुर्थी सर्वसिद्धा तुच्छातिथिरात्रिः, पञ्चमी शुभनामा पूर्णतिथिरात्रिः, पुनरपि षष्ठी उग्रवती नन्दातिथिरात्रिः भोगवती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy