SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४६ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/६ विव अच्चीसहरसमालणीया रूवगसहस्सकलिया भिसमाणा भिब्मिसमाणा चक्खुल्लो अणलेसा सुहफासा सस्सिरीयरूवा पासाईया ४" इति, अत्र व्याख्या- 'तेसि ण' मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं २ तोरणानि प्रज्ञप्तानि तेषां तोरणानामयमेतद्रूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - 'ते णं तोरणा' इत्यादि, तानि तोरणानि नानामणिमयानि मणयः-चन्द्रकान्तादयः विविध- मणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि - सामीप्येन स्थितानि तानि च कदाचिच्चलानि अथवाऽपदपतितानि शङ्कयेरन्, तत आह-सम्यग् निश्चलतयाऽ पदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, विविधा - नानाविधविच्छित्तिकलिता मुक्ता - मुक्ताफलानि अन्तराशब्दोऽ-गृहीतवीप्सोऽपि वीप्सां गमयति, अन्तरा अन्तरा 'ओविया' इति आरोपिता यत्र तानि तथा, विविधैस्तारारूपैः - तारिका रूपैरुपचितानि, तोरणेषु हि शोभार्थ तारकानि वध्यन्ते इति प्रतीतं लोकेऽपि, ईहामृगा - वृकाः ऋषभा - वृषभाः व्याला - भुजंगा: रुरवो - मृगविशेषाः शरभा - अष्टापदाः चमरा - आटव्यो गावः, वनलता-असोकलताद्याः पद्मलताः – पद्मिन्यः, शेषाः प्रतीताः, एतासां भक्त्या - विच्छित्या चित्रं-आलेखो येषु तानि तथा, स्तम्भोद्गतया - स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतानि - परिकरितानि सन्ति यानि अतिरमणीयानि तानि तथा, विद्याधरयो :- विशिष्टशक्तिमत्पुरुषविशेषयोर्यमलं- समश्रेणीकं युगलं- द्वन्द्वं तेनैव यन्त्रेण संचरिष्णुपुरषप्रति माद्वयरूपेण युक्तानि, आर्थत्वाश्चैवंविधः समासः, तथा अर्चिषां - मणिरत्नप्रभाणां सहस्रर्माल- नीयानि - परिवारणीयानि रूपकसहस्रकलितानि स्पष्टं 'भिसमाणा' इति दीप्यमानानि 'भिब्मिसमाणा' इति अत्यर्थं दीप्यमानानि । तथा चक्षुः कर्तृ लोचने अवलोकने लिसतीव-दर्शनीयतातिशयतः श्लिष्यतीव यत्र तानि तथा, 'सुहफासा' इति शुभस्पर्शानि सश्रीकानि -सशोभाकानि रूपकाणि यत्र तानि सश्रीकरूपाणि, 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत्, "तेसि णं तोरणाणं उष्पिं अट्ठट्ठमंगलगा पन्नत्ता, सोत्थिय १ सिरिवच्छ २ नंदियावत्त ३ वद्धमाणग ४ भद्दासण ५ कलस ६ मच्छ ७ दप्पणा ८ सव्वरयणामया अच्छा जाव पडिरूवा” अत्र व्याख्या - तेषां तोरणानामुपरि इत्यादि सुगमं, नवरं 'जाव पडिरूवा' इति यावत्करणात् घट्टा मट्ठा नीरया इत्यादिग्रहः, 'तेसि णं तोरणाणं उवरिं किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वइरदंडा जलयामलगंधिया सुरम्मा पासाईया ४” इति तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ताः ध्वजाः कृष्णचामरध्वजाः एवं बहवो नीललोहितहारिद्रशुक्लचामरयुक्ताः ध्वजा वाच्याः, कथम्भूता एते सर्वेऽपीत्याह- 'अच्छा सण्हा' इति स्पष्टं रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रो-वज्रमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते तथा, जलजानामिव-पदमानामिवामलो न तु कुद्रव्यगन्धसम्मिश्रोयोगन्धः सविद्यते येषांते जलजामलगन्धिकाः, 'अतोऽनेकस्वरा' दितीकप्रत्ययः अत एळ सुरम्याः 'पासादीया' इत्यादि प्राग्वत् । "तेसि णं तोरणाणं उष्पिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुअला चामरजुअला उप्पलहत्यगा पउमहत्थगा जाव सहस्सपत्तहत्थगा सव्वरयणामया अच्छा जाव पडिरूवा" तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि - छत्राल्लोकप्रसिद्धादेकसंख्याकाद् अतिशायीनि द्विसंख्यानि त्रिसंख्यानि वा छत्राणि छत्रातिच्छत्राणि बह्वयः पताकाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तरेण च Jain Education International For Private & Personal Use Only www.jainelibrary.org 7
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy