________________
४८०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७७ स्यात्तदा कथंपूर्वेणापरेणचरात्रिस्यादिति वक्तुंयुज्येत?,अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्यगृहीतत्वात, इतश्च दक्षिणा दिशब्देन दक्षिणादिभागमात्रमवसेयं, नवौं, तदा च जंबूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वस्यामपरस्यां च रात्रिर्भवति, तत्रैकस्यापि सूर्यस्याभावात्।
___ इत्येवंकाक्वा प्रश्ने कृते भगवानाह-'हता! गोअमे'त्यादि, यदाजंबूद्वीपे द्वीपे दक्षिणाद्धे दिवसो यवद्रात्रिर्भवतीत्यन्तं प्रत्युच्चारणीयं । श्रेत्रपरावृत्या दिवसरात्रिविभागं पृच्छन्नाह-यदा भदन्त ! जंबूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वेण दिवसो भवति तदा पश्चिमायामपि दिवसो भवति, प्रागुक्तयुक्तरेव, यदा च पश्चिमायां दिवसस्तदा मेरोदक्षिणोत्तरयो रात्रि, प्रश्नसूत्रं चैतत्, 'हंता ! गोअमे' त्यादि उत्तरसूत्रं तथैव, उक्तः सामान्यतो दिवसरात्रिविभागः, सम्प्रति तमेव विशेषत आह-यदाभदन्त!जबूद्वीपे द्वीपे दक्षिणार्द्ध उत्कर्षतोऽष्टादशमुहूत्तों दिवसो भवतीत्यादिकं सूत्रप्रायो निगदसिद्ध, तथापि किञ्चिदेतदवृत्यादिगतं लिख्यते-इह किल सूर्यस्य चतुरशीत्यधिक मण्डलशतं भवति, तत्र किल जंबूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति, एकोनविंशत्यधिकं च शतं तेषां लवणसमुद्रमध्ये भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा सूर्यो भवति तदाऽष्टादशमुहूर्तो दिवसो भवति, यदा सर्वबाह्ये मण्डले सूर्यो भवति तदा सर्वजघन्यो द्वादशमुहूर्तो दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां दिनस्य वृद्धी त्र्यशीत्यधिकशततममण्डले षट् मुहूर्ता वर्द्धन्त इत्येवमष्टादशमुहूर्तो दिवसो भवति ।
अत एव द्वादशमुहूर्ता सत्रिभवति, त्रिंशन्मुहूर्तत्वादहोरात्रस्य, अट्ठारसमुहुताणंतरे'त्ति यदा सर्वाभ्यन्तर-मण्डलानन्तरेमण्डले सूर्यो भवति तदा मुहूर्तेकषष्टिभागाद्वयहीनोऽष्टादशमुहूर्तो दिवसो भवति, स चाष्टादशमुहूद्दिवसादनन्तरोऽष्टादशमुहूर्तानन्तर इतिव्यपदिष्टः,तदाद्वाभ्यां मुहूर्तेक- षष्टिभागाभ्यामधिका द्वादशमुहूर्ता रात्रिर्भवति, यावता भागेन दिनं हीयते तावता रात्रिर्वद्धते, त्रिंशन्मुहूर्तत्वादहोरात्रस्येति, ‘एवं एएणं कमेणं'ति एवमित्युपसंहारे एतेनानन्तरोक्तेनोपायेन 'जयाणंभंते! जंबुद्दीवे दीवेदाहिणद्धे' इत्येतेनेत्यर्थः, ऊसारेअब्द'ति दिनमानंहस्वीकार्य, तदेव दर्शयति-तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादार-म्यैकत्रिंशत्तममण्डला? यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ताच रात्रिरिति, “सत्तर- समुहत्ताणंतरे'त्ति मुहूर्तेकषष्टिभागद्वयहीनसप्तदशमुहूर्तप्रमाणो दिवसोऽयं चद्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध भवति,एवमनन्तरत्वमन्यत्राप्यूह्यं, मुहूर्तेकषष्टिभागद्वयेन सातिरेकत्वं, एवंसर्वत्र, “सोलसमुहुत्ते दिवसे'त्ति, द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूर्तो दिवसोभवति, पन्नरसमुहुत्तेदिवसे'त्ति द्विनवतितमण्डलार्द्ध वर्तमाने सूर्ये 'चोद्दसमुहुत्तेदिवसे'त्ति द्वाविंशत्युत्तरशततमेमण्डले 'तेरसमुहुत्ते दिवसेत्तिसार्द्धद्विपञ्चशदुत्तरशततमेमण्डले 'बारसमुहुत्ते दिवसे'त्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्ये इत्यर्थः !।
कालाधिकारादिदमाह-'जयाणंभंते! जंबुद्दीवे २ दाहिणद्धेवासाण'मित्यादि, 'वासाण'मिति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथमः-आद्यःसमयःक्षणः प्रतिपद्यते, सम्पद्यतेभवतीत्यर्थः, तदोत्तरार्द्धऽपि वर्षाणां प्रथमः समयो भवति, समकालनयत्येन दक्षिणा॰ उत्तरार्द्ध च सूर्ययोश्चारभावात्, यदा चोत्तरार्द्ध वर्षाकालस्य प्रथमः समयः तदाजंबूद्वीपे द्वीपेमंदरस्य पर्तस्य पूर्वापरयोर्दिशोरनन्तरपुरस्कृते समये अनन्तरो-निर्व्यवधानो दक्षिणार्द्धवर्षाप्रथमतापेक्षया स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org