SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७५ अथ तृतीयं 'जया ण'मित्यादि, यदा भदन्त ! चन्द्रः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत् क्षेत्रं गच्छति ?, गौतम ! पञ्च योजनसहस्राणि अशीतिं च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशदधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहसैरित्यादि पूर्ववत्, अत्रोपपत्तिर्यथा - अत्र मण्डले परिरयः ३१५५४९ एतद् द्वाभ्यामेकविंशत्यधिकाभयां शताभ्यां गुण्यते जातं ६९७३६३२९, एषां त्रयोदशभिः सहस्र सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हते लब्धानि पञ्च सहस्राण्यशीत्यधिकानि ५०८०, शेषं त्रयोदश सहस्राणि त्रीणि शताण्येकोनत्रिंशदधिकानि भागानां १३३२९/ ४७० १३७२५ १३७३५ अथ चतुर्थादिमण्डलेष्वतिदेशमाह - 'एवं खलु एएण' मित्यादि, पूर्ववत्, निष्क्रामन् चन्द्रस्तदनन्तरात् यावतशब्दात् मण्डलात्तदनन्तरं मण्डलं संक्रामन् २ त्रीणि २ योजनानि षन्नवतिं च पञ्चपञ्चाशदधिकानि भागशतान्येकैकस्मिन् मण्डले मुहूर्त्तगतिभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, कथमेतदवसीयत इति चेत्, उच्यते, प्रतिचन्द्रमण्डलं परिरयवृद्धिर्बे शते त्रिंशदधिके, अस्य च त्रयोदशसहस्रदिकेन राशिना भागे ह्वते लब्धानि त्रीणि योजनानि शेषं षन्नवति पञ्चपञ्चाशदधिकानि भागशतानि ३ ९६५५/- अथ पश्चानुपूर्व्या पृच्छति 'जया ण'मित्यादि, यदा भदन्त ! चन्द्रः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत क्षेत्रं गच्छति ?, गौतम! पञ्च योजनसहस्राणि एकंच पञ्चविंशत्यधिकंयोजनशतमेकोनसप्ततिं चनवत्धिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहस्रैः सप्तभिश्च यावच्छब्दात् पञ्चविंशत्यधिकैः शतैर्विभझअयष अत्रोपपत्ति - अत्र मण्डले परिरयपरिमाणं ३१८३१५ एतद् द्वाभ्यामेकविंसत्यधिकाभ्यां शताभ्यां गुण्यते जातं ७०३४७६१५ एषां त्रोयदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हते लब्धानि ५१२५ शेषं भागा ६९९० १३७२५ अधात्र मण्डले दृष्टिपथप्राप्ततामाह - ' तया ण' मिति, तदा - सर्वबाह्यमण्डलचरणकाले इहगतानां मनुष्याणामेकत्रिंशता योजनसहस्रैः अष्टभिश्चैकत्रिंशदधिकैः योजनशतैश्चन्द्रश्चक्षु स्पर्शं शीघ्रमागच्छति, अत्र सूर्याधिकारोक्तं 'तीसाए सट्टिभाए' इत्यधिकं मन्तव्यं, उपपत्तिस्तु प्राग्वत्, अथ द्वितीयं मण्डलं- 'जया णमित्यादि, यदा भदन्त ! सर्वबाह्यानन्तरं द्वितीयमित्यादि प्रश्नः प्राग्वत्, गौतम! पञ्च योजनसहस्राणि एकं चैकविंशत्यधिकं योजनशतं एकादश च षष्ट्यधिकानि भागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावतपदात् सहस्र सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्वा, अत्रोपपत्ति-अत्र मण्डले परिरयः ३१८०८५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ७०२९६७८५ एषां १३७२५ एभिर्भागे हृते लब्धं ५१२१ शेषं ११०६०/ १३७२५ अथ तृतीयं - 'जया ण' मित्यादि, प्रश्नः प्राग्वत्, गौतम ! पञ्च योजनसहस्राण्येकं चाष्टादशाधिकं योजनशतं चतुर्दश च पञ्चाधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहस्रै सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्वा, अत्रोपपत्ति-अत्र मण्डले परिरयप्रमाणं ३१७८५५ एतद्द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ७०२४५९५५ एषां १३७२५ एभिर्भागे हृते लब्धं ५११८ शेषं भागा १४०५/ . अथ चतुर्थादिमण्डलेष्वतिदेशमाह- 'एवं खलु' इत्यादि, एतेनोपायेन यावच्छब्दात् 'पविसमाणे चंदे तयानंतराओ मंडलाओ तयनंतरं मंडल 'मिति ग्राह्यं, १३७२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy