________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/२६८
४६२
सवगाढाभि - परस्परं संश्लिष्टाभिर्लेश्याभिः, तथाहि
चन्द्रमसां सूर्याणां च प्रत्येकं लेश्या यजनशतसहस्रप्रमाणविस्ताराश्चन्द्रसूर्याणां च सूचीपंक्त्या व्यवस्थितानां परस्परमन्तरं पञ्चाशद्योजनसहस्राणि ततश्चन्द्रप्रभामिश्राः सूर्यप्रभाः सूर्यप्रभामिश्राश्चन्द्रप्रभाः, इत्थं चन्द्रसूर्यप्रभाणां मिश्रीभावः एषां स्थिरत्व ध्टान्तेन द्योतयति-कूटानीव - पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिताः सदैवैकत्र स्थाने स्थिताः सर्वतः समन्तात्, तान् प्रदेशान्-स्वस्वप्रत्यासन्नान् अवभासयन्ति उद्योतयन्ति तापयन्ति प्रभासयन्तीत्यादि प्राग्वत् । एषामपीन्द्राभावे व्यवस्थां प्रश्नयन्नाह - 'तेसि णं भंते ! देवाण' मित्यादि प्राग्वत् ।
इति कृता पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा, अथ चन्द्रवक्तव्याह-तत्र सप्तानुयोगद्वाराणि, मण्डलसङ्ख्याप्ररूपमा १ मण्डल क्षेत्रप्ररूपणा २ प्रतिमण्डलमन्तरप्ररूपणा ३ मण्डलायामादिमानं ४ मंदरमधिकृत्य प्रथमादिमण्डलाबाधा ५ सर्वाभ्यन्तरादिमण्डलायामादि ६ मुहूर्त्तगतिः ७ । तत्रादौ मण्डलसङ्ख्याप्ररूपणां पृच्छति
मू. (२६९) कइ णं भंते! चंदमंडला पं० ?, गो० ! पन्नरस चंदमंडला पन्नत्ता ! जंबुद्दीवे णं भंते! दीवे केवइअं ओगाहित्ता केवइआ चंदमंडला पं० ?, गो० ! जंबुद्दीवे २ असीयं जोअणसयं ओगाहित्ता पंच चंदमंडला पन्नत्ता । लवणे णं भंते! पुच्छा, गो० ! लवणे णं समुहे तिन्नितीसे जो अणसए ओगाहित्ता एत्थ णं दस चंदमंडला पन्नत्ता, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे लवणे य समुहे पन्नरस चंदमंडला भवंतीतिमक्खायं ।
वृ. कति भदन्त ! चन्द्रमण्डलानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! पञ्चदश चन्द्रमण्डलानि प्रज्ञप्तानि । अथैषां मध्ये कति द्वीपे कति लवणे इति व्यक्त्यर्थः पृच्छति - जंबूद्वीपे भदन्त ! द्वीपे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! जंबूद्वीपे २ अशीत्यधिकं योजनशतमवगाह्य पञ्च चन्द्रमण्डलानि प्रज्ञप्तानि । अथ लवणसमुद्रे भदन्त ! प्रश्नः, गौ० लवणसमुद्रे त्रिंशदधिकानि त्रीणि योजशतानि अवगाह्य अत्रान्तरे दश चन्द्रमण्डलानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जंबूद्वीपे द्वीपे लणसमुद्रे पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातमिति ।
मू. (२७०) सव्वब्यंतराओ मं भंते! चंदमंडलाओ णं केवइआए अबाहाए सव्वबाहिरए चंदमंडले पं० ?, गोअमा ! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले पन्नत्ते । वृ. अथ मण्डलक्षेत्रप्ररूपणां प्रश्नयत्राह - 'सव्वमंतराओ ण' मित्यादि, सर्वाभ्यन्तराद्भदन्त ! चन्द्रमण्डलात् कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं ? किमुक्तं भवति ? - चन्द्रमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्तैर्यव्याप्तमाकाशं तन्मण्डल क्षेत्रं तत्र च चक्रवालताय विष्कम्भः पञ्च योजनशतानि दशोत्तराणि अष्टचत्वारिंशच्चैकषष्टिभागा योजनस्य इदं च व्याख्यातोऽधिकं बोध्यं तथाहि--चन्द्रस्य मण्डलानि पञ्चदश चन्द्रबिम्बस्य च विष्कम्भः एकषष्टिभागात्मकयोजनस्य षट्पञ्चाशदभागाः तेन ते पञ्चदशभिर्गुण्यन्ते जातं ८४० तत एतेषां योजनानयनार्थं एकषष्ट्या भागे हृते लब्धानि त्रयोदश योजनानि शेषाः सप्तचत्वारिंशत्, तथा पञ्चदशानां मण्डलानामन्तराणि चतुर्दश, एकैकस्यान्तरस्य प्रमाणं पञ्चत्रिंशद्योजनानि त्रिंशच्च एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सप्तधाच्छिन्नस्य सत्काश्चत्वारो भागाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org