________________
वक्षस्कारः-७
४४९
अत्रोपपत्तिर्यथा-अष्टादशमुहूर्ते दिवसे द्वादश ध्रुवमुहूर्ताः षट् चरमुहूर्ताः, ते च मण्डलानां त्र्यशीत्यधिकशतेन वर्द्धन्ते चापवर्द्धन्ते, ततोऽत्र त्रैराशिकावतारः-यदि मण्डलानां यशीत्यधिकशतेन षट् मुहूर्ताः वर्द्धन्ते चापवर्द्धन्ते तदा एकेन मण्डलेन किं वर्द्धते चापवर्द्धते अत्रान्त्यराशिना एककलक्षणेन मध्यराशिषट्कलक्षणो गुण्यते, गुणितेच एकेन गुणितं तदेव० षडेव स्थितास्ते चादिराशिना भज्यन्ते अल्पत्वाद् भागंन प्रयच्छन्तीति भाज्यभाजकराश्योस्त्रिंकेणापवर्तना कार्या,जात उपरितनोराशिद्विकरूपःअधस्तन एकषष्टिरूपः आगतंद्वावेकषष्टिभागी मुहूर्तस्य अतो दिवसेऽपवढे ते रात्रौ च वर्द्धते इति, एवमग्रेऽपि करणभावना कार्या।
अथाग्रेतनमण्डलगते दिनरात्रिवृद्धिहानी पृच्छन्नाह--‘से निक्खममाणे' इत्यादि, अथ निष्कामन्सूर्योदक्षिणायनसत्के द्वितीये अहोरात्रे अत्र यावच्छब्दाद् ‘अब्अंतरतचं मंडलं उवसंकमित्ता' इति ज्ञेयं, सर्वाभ्यन्तरमण्डलापेक्षया तृतीयं मण्डलमुपसंक्रम्य चारंचरतितदा किंप्रमाणो दिवसः किंप्रमाणा रात्रिर्भवति?, गौतम! तदा अष्टादशमुहूर्तप्रमामो द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुर्भिर्मुहूर्त्तकषष्टिभागैनो दिवसो भवति द्वादशमुहूर्ता उक्तप्रकारेणैव चतुर्भिर्मुहूर्तकषष्टिभागेरधिकारात्रिर्भवति, उक्तातिरिक्तमण्डलेष्वतिदेशमाह___एवंखलुएएण' मित्यादि,एवंमण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेन अनन्तरोक्तेनोपायेन-प्रतिण्डलं दिवसरात्रिसत्कमुहूर्तेकषष्टिभागद्वयवृद्धिहानिरूपेण निष्क्रामन्-दक्षिणाभिमुखं गच्छन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन् द्वौ द्वौ मुहूर्तकषष्टिभागावेककस्मिन् मण्डले दिवसक्षेत्रस्य निवर्द्धयन् २-हापयन् २ रजनिक्षेत्रस्य तावेवाभिवर्द्धयन् २, कोऽर्थः मुहूर्तेकषष्टिभागद्वयगम्यं क्षेत्रं दिवसक्षेत्रे हापयन् तावदेव रजनिक्षेत्रे अभिवर्द्धयन्निति सर्वबाह्यमण्डलमुपसंक्रम्य चारंचरति,प्रतिमण्डलं भागद्वयहानिवृद्धी उक्ते,असर्वमण्डलेषु भागानां हानिवृद्धिसर्वाग्रं वक्तुमाह
"जया णमित्यादि, यदा सूर्य सर्वाभ्यन्तरान्मण्डलादित्यत्र यबलोपे पञ्चमी वक्तव्या, तेन सर्वाभ्यन्तरं मण्डलमारभ्य सर्वबाह्यमण्डलमुपसङ्कम्य चार चरति तदा सर्वाभ्यन्तरं मण्डलं प्रणिधाय-मर्यादीकृत्य ततः परस्माद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेनत्र्यशीतेनत्र्यशीत्यधिकेन रात्रिन्दिवानां-अहोरात्राणांशतेन त्रीणि षट्षष्टानि-षट्षष्ट्यधिकानिमुहूर्तकषष्टिभागशतानि दिवसक्षेत्रस्याभिवद्धर्य कोऽर्थः ?-षट्षष्ट्यधिकत्रिशतमुहूर्त्तकषष्टिभागैर्यावन्मात्रं क्षेत्रं गम्यतेतावन्मात्रं क्षेत्रहापयित्वा इत्यर्थः, तावदेव क्षेत्रं रजनिक्षेत्रस्याभिवद्धर्यचारंचरति, अयमर्थदक्षिणायनसत्कव्यशीत्यधिकमण्डलेषुप्रत्येकंहीयमान भागद्वयस्य त्र्यशीत्यधिकशतगुणनेन षटषष्ट्यधिकत्रिशतराशिरुपपद्यत इति तावदेव रजनिक्षेत्रे वर्द्धते इत्यर्थः, एतदेव पश्चानुपूर्व्या पृच्छति
___ 'जयाण मित्यादि, प्रश्नसूत्रप्राग्वत्, उत्तरसूत्रे गौतम! तदा उत्तमकाष्ठाप्राप्ता-प्रकृष्टावस्था प्राप्ता अत एवोत्कर्षिका उत्कृष्टा, यतो नान्या प्रकर्षवती रात्रिरित्यर्थः, अष्टादशमुहूर्तप्रमाणा रात्रिभवति तदा त्रिंशन्मुहूर्तसङ्ख्यापूरणाय जघन्यको द्वादशमुहूर्तप्रमाणो दिवसो भवति. त्रिंशन्मुहूर्तत्वादहोरात्रस्य, एष चाहोरात्रो दक्षिणायनस्य चरम इत्यादि प्रज्ञापनार्थमाह-“एस [131291
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org