SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ૪૪૮ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५९ दिवसखेत्तरस अमिवुद्धेमाणे २ सब्वभंतरं मंडलं उवसंकमित्ता चारं चरइत्ति, जया णं भंते ! सूरिए सब्बाबाहिराओ मंडलाओ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरईतयाणं सब्वबाहिरं मंडलं पहिहायएगेणं तेसीएणराइंदिअसएणं तिन्निछावढे एगसहिभागमुहत्तसए रयणिखेत्तस्स णिबुद्धत्ता दिवसखेतस्स अमिवद्धता चारं चाइ, एसणं दोचे छम्मासे एसणंदुच्चस्स छम्मासस्स पञ्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चस्स संवच्छरस्स पजवसाणे पन्नते ८। वृ. 'जयाण मित्यादि, यदा भगवन् ! सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरति तदा कोमहान् आलयो-व्याप्यक्षेत्ररूपःआश्रयो यस्यासौ किंमहालयः कियानित्यर्थः दिवसो भवति, किंहालया-कियती रात्रिर्भवति?-- भगवानाह-गौतम! तदा उत्तमकाष्ठां प्राप्तः-उत्तमावस्था प्राप्तः आदित्यसंवत्सरसत्कषटषष्ट्यधिकत्रिशतदिवसमध्ये यतो नापरः कश्चिदधिक इत्यर्यः अत एवोत्कर्षकः उत्कृष्ट इत्यर्थः अष्टादशमुहूर्तप्रमाणो दिवसो भवति, यत्र मंडले यावत्रमाणो दिवसस्तत्र तदपेक्षयाअ (शेषा) होरात्रप्रमाणा रात्रिरितिजधन्यिका द्वादशमुहूर्ता रात्रिः, सर्वस्मिन् क्षेत्रे काले वाऽहोरात्रस्य त्रिशन्मुहूर्तसङ्ग्याकत्वस्य नैयत्यात्। ननु यदा भरतेऽष्टादशमुहूर्तप्रमाणो दिवसस्तदा विदेहेषु जघन्या द्वादशमुहूर्तप्रमाणा रात्रिस्तर्हि द्वादशमुहूर्तेभ्यः परं रात्रेरतिक्रान्तत्वेन षट् मुहूर्तान् यावत्केन कालेन भाव्यं?, एवं भरतेऽपि वाच्यम्, उच्यते, अन षड्मुहूर्तगम्यक्षेत्रेऽवशिष्टे सतितत्रसूर्यस्योदयमानत्वेन दिवसेनेति, तच्च सूर्योदयास्तान्तरविचारणेन तन्मण्डलगतष्टिपथप्राप्तताविचारणेन च सूपपन्नं, आह-एवं सति सूर्योदयास्तमयने अनियसे आपने, भवतु नाम, न चैतदनार्षम्, यदुक्तम्॥१॥ "जह जह समए समए पुरओ संचरइ भक्खरो गयणे। तह तह इओवि नियमा जायइ रयणीइ भावत्यो । ॥२॥ एवं च सइ नराणं उदयस्थणणाई होतऽनिययाइं। सइ देसकालभेए कस्सइ किंची य दिस्सए नियमा॥ ॥३॥ सइ चेव य निद्दिडो रुद्दमुहुत्तो कमेण सव्वेसिं। केसिंचीदाणिंपिअविसयपमामो रवी जेसिं॥ति। यत्तुसूर्यप्रज्ञप्तिवृत्तौ सूर्यमण्डलसंस्थित्यधिकारे समचतुरनसंस्थितिवर्णनायांयुगादीएकः सूर्यो दक्षिणस्यां एकश्चन्द्रो दक्षिणापरस्यां द्वितीयः सूर्य पश्चिमोत्तरस्यां द्वितीयः चन्द्रः उत्तरपूर्वस्यामित्युक्तं यत्तु दक्षिणादिभागेषु मूलोदयापेक्षया इति बोध्यं, अयं च सर्वोत्कृष्टो दिवसः पूर्वसंवत्सरस्य चरमो दिवस इति वक्तुमाह- से निक्खममाणे' इत्यादि, अथ निष्कामन् सूर्य नवं संवत्सरमयमानः- प्राप्नुवाददान इत्यर्थः, प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं द्वितीयमण्डलमुपसंक्रम्य चारं चरति इति, अथ दिनरात्रिवृद्धयपवृद्धयर्थमाह 'जया ण मित्यादि, यदा भगवन् ! सूर्य अभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा भगवन् ! किंमहालयः-किंप्रमाणदिवसः किंमहालया-किंप्रमाणारात्रि?,भगवानाहगौतम ! तदा अष्टादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्तकषष्टिभागाभ्यामूनो दिवसो भवति, अत्र सूत्रे प्राकृतत्वात् पदव्यत्ययः, द्वादशमुहूर्तप्रमाणा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिका रात्रिर्भवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy