SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -७ ४३५ अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्याबाधया सर्वाभ्यन्तरानन्तरं सूर्यमण्डलं प्रज्ञप्तं, पूर्वस्माद्यदत्राधिकं तद्विम्बविष्कम्भादन्त- रमानाच्च समाधेयं, अथ तृतीयमण्डलं 'जंबुद्दीवेण 'मित्यादि व्यक्तं, नवरं 'अब्यंतरं तच्च' मिति अभ्यन्तरतृतीयं, अनेन बाह्यतृतीयमण्डलस्य व्यवच्छेदः, उत्तरसूत्रे चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट शतानि पञ्चविंशत्यधिकानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्याबाधया अभ्यन्तरतृतीयं सूर्यमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु द्वितीयमण्डलाबाधापरिमाणे ४४८२२ योजन ४८ / इत्येवंरूपे प्रस्तुतमण्डलसत्के सान्तरबिम्बविष्कम्भे प्रक्षिप्ते जातं यथोक्तं मानम्, एवं प्रतिण्डलमबाधावृद्धावानीयमानायां मा भूद् ग्रन्थगौरवं तेन तज्जिज्ञासूनां बोधकमतिदेशमाह - एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः एतेनोपायेन - प्रत्यहोरात्रमेकैक-मण्डलमोचनरूपेण निष्क्रामन् - लवणाभिमुखं मण्डलानि कुर्वन् सूर्यस्तदनन्तरात्- विवक्षितात् पूर्वस्मात् मण्डलात् तदनन्तरं विवक्षिमुत्तरमण्डलं संक्रमन् २ द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अबाधाया वृद्धिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपक्रम्य चारं चरति, यच्चात्रातिदेशरुचिरपि सूत्रकृन्मण्डलत्रयाभिव्यक्तिमदर्शयत् तत्प्रथमं ध्रुवाङ्कदर्शनार्थं द्वितीयं मण्डलाभिवृद्धिदर्शनार्थं तृतीयं पुनस्तदभ्यासार्थमिति । अथ पश्चानुपूर्व्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलादारभ्य मेरुमण्डलयोरबाधां पृच्छन्नाह 'जंबुद्दीवे' ति जंबूद्वीपे भदन्त ! द्वीपे मंदरस्य पर्वतस्यकियत्या अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम! पञ्चचत्वारिंशद्योजन सहस्राणि त्रीणि च योजनशतानि त्रिंशदधिकानि अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तं, तत्र मंदरात् पञ्चचत्वारिंशद्योजनसहस्राणि जगती ततो लवणे त्रीणि शतानि त्रिंशदधिकानि, द्वितीयमण्डल ० जंबुद्दीवेत्ति प्रश्नसूत्रे बाह्यानन्तरं - पश्चानुपूर्व्या द्वितीयमित्यर्थः, उत्तरसूत्रे पञ्चचत्वारिंशद्योजन सहस्राणि तथैव जगती ततस्त्रिंशदधिकत्रिशतयोजनातिक्रमे यत्सूरमण्डलमुक्तं तस्मान्तरमाने बिम्बविष्कम्भमाने च शोधिते जातं यथोक्तं मानमिति, अथ तृतीयं -- 'जंबुद्दीवे' त्ति व्यक्तं, नवरं उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च शतानि चतुर्विंशत्यधिकानि षड्विंशतिं च एकषष्टिभागान् योजनस्येति, अत्र पूर्वमण्डलाङ्कात् सान्तरमण्डलविष्कम्भयोजने, शोधिते जातं यथोक्तं मानं, पूर्वमण्डलाङ्को ध्रुवाङ्कस्तत्र सबिम्बविष्कम्भोऽन्तरविष्कम्भः शोध्यस्तत उपपद्यते यथोक्तं मानं, उक्तावशिष्टेषु मण्डलेष्वतिदेशमाह - 'एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण प्रविशन् जंबूद्वीपमिति गम्यं, सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन् २ द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस् एकैकस्मिन् मण्डले अबाधावृद्धिं निवर्द्धयन् २ इदं समवायाङ्गवृत्यनुसारेणोक्तं यथा वृद्धेरभावो निवृद्धि निशब्दस्याभावार्थत्वात् निवरा कन्येत्यादिवत् तां कुर्वन्, निवृद्धयन् २ इदं स्थानाङ्गवृत्यनुसारिण, सूर्यप्रज्ञप्तिवृत्यादौ तु निवेष्टयन् २ इत्युक्तमस्ति, अत्र सर्वत्रापि हापयन् २ इत्यर्थः, सर्वाभ्यन्तरमण्डलमुपसंक्रय चारं चरतीति गतमबाधाद्वारम् । अथ मण्डलायामदिवृद्धिहानिद्वारम् मू. (२५७) जंबुद्दीवे दीवे सव्वब्धंतरे णं भंते ! सूरमंडले केवइअं आयामविक्खंभेणं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy