________________
वक्षस्कारः-६
४२३
संस्पर्शसम्भावनायाअभावात् लवणसमुद्रं स्पृष्टाः-स्पृष्टवंतः, कतरिक्तप्रत्ययः, अत्रकाकुपाठात् प्रश्नसूत्रावगति, भगवानाह-हंता ! इति प्रत्यवधारणे । अथ सम्प्रदायादिना द्वीपानंतरीयाः समुद्राःसमुद्रानंतरीयाद्वीपाः तेनये यदनंतरीयास्तेतत्संस्पर्शिनइति सुज्ञानेऽप्यस्मिन्प्रष्टव्येऽर्थे यत् प्रश्नविधानं तदुत्तरसूत्रे प्रश्नबीजाधानायेति तदाह- ते जंबूद्वीपचरमप्रदेशा भदंत ! किं जंबूद्वीपो द्वीपः उत इति गम्यस्तेन लवणसमुद्रो वा इत्यर्थः, पृच्छतोऽयमाशयः-यद्येन स्पृष्टं तत्किञ्चिदव्यपदेश लभते किञ्चित् पुनर्न तथा, यथा तर्जया संस्पृथा ज्येष्ठालिज्येषठैवेति, तेन जंबूद्वीपचरमप्रदेशाः लवणसमुद्रं स्पृष्टाः कथं व्यपदेश्याः?, अत्रोत्तरं-- ___गौतम ! निपातस्यावधारणार्थत्वात् ते चरमप्रदेशाः जंबूद्वीप एव द्वीपः जंबूद्वीपसीमावर्तित्वात्न खलु ते लवणसमुद्रो, जंबूद्वीपसीमानमतिक्रम्य लवणसमुद्सीमानमप्राप्तत्वात् किंतु स्वसीमागता एव लवणसमुद्रं स्पृष्टास्तेन तटस्थतया संस्पर्शभवनात् तर्जया संस्पृष्टा ज्येष्ठाङ्गुलिरिव स्वव्यपदेशं लभते, एवमुक्तरीत्या लवणसमुद्रस्यापि चरमप्रदेशा जंबूद्वीपं स्पृष्टा न जंबूद्वीपः किंतुलवणसमुद्रो लवणसमुद्रसीमावर्तित्वादित्यादि भणितव्यम्।अनंतरसूत्रे जंबूद्वीपलवणोदयः परस्परमव्यपदेश्यता उक्ता, सम्प्रति तयोरेव जीवानां परस्परमुत्पत्याधारता पृच्छयते इत्याह
'जंबुद्दीवे' इत्यादि, जंबूद्वीपे भदंत! द्वीपे जीवा अवद्राय २-मृत्वा २ लवणसमुद्रे प्रत्यायाति-आगच्छंति, अत्रापि काकुपाठात्प्रश्नावगतीः, भगवानाह-गौतम! अस्तीतिनिपातोऽत्र बह्वर्थः, संत्येकका जीवायेऽवद्राय २ लवणसमुद्रे प्रत्यायातिसंत्येककायेन प्रत्यायाति, जीवानां तथा ताथ स्वकर्मशतया गतिवैचित्र्यसम्भवात्, एवं लवणसमुद्रसूत्रमपि भावनीयम् ।
सम्प्रति प्रागुक्तानां जंबूद्वीपमध्यवर्तिपदार्थानां सङ्गङ्ग्रहगाथामाहमू. (२४६)खंडा १ जोअण र वासा ३ पब्वय ४ कूडा ५य तित्थ ६ सेढीओ७।
विजय ८६ह ९ सलिलाओ १० पिंडए होइ संगहणी ॥ वृ. खंडाजोअण' इत्यादिसङ्ग्रहवाक्यस्य सङ्क्षिप्तत्वेन दुर्बोधत्वात्सूत्रकृदेवप्रश्नोत्तरीत्या विवृणोति, तत्र सूत्रम्
मू(२४७) जंबुद्दीवेणंभंते! दीवे भरहप्पमाणमेत्तेहिं खंडेहिं केवईअंखंडगणिएणं पं०, गो० ! नउअंखंडसयं खंडगणिएणं पन्नते। जंबुद्दीवे णं भंते ! दीवे केवइअंजोअणगणिएणं पन्नते?, गोअमा! -
वृ. 'जंबुद्दीवे इत्यादि, जंबूद्वीपो भदन्त ! द्वीपो भरतप्रमाणं-षट्कलाधिकषड्विंशतियोजनाधिकपञ्चशतयोजनानि तदेवमात्रापरिमाणंयेषांतानितथाएवंविधैः खण्डैः-शकलैः इत्येवंरूपेण खण्डगणितेन-खण्डसङ्ख्यया कियान् प्रज्ञप्तः?, भगवानाह-गौतम ! नवत्यधिक खण्डशतं खण्डगणितेन प्रज्ञप्तः, कोऽर्थः ? -भरतप्रमाणैः खण्डैर्नवत्यधिकशतसङ्ख्याकै मिलितैर्जम्बूद्वीपः सम्पूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना प्राक् भरताधिकारवृत्तो चिन्तितेति न पुनरुच्यते, पूर्वपश्चिमतस्तु यद्यपि खण्डगणितविचारणासूत्रेनं कृता वनमुखादिभिरेव लक्षपूर्तेरभिधानात्तथापि खण्डगणितविचारे क्रियमाणे भरतप्रमाणानितावन्त्येवखण्डानि भवन्ति, अथ ‘योजने'तिद्वारसूत्रम्- “जंबुद्दीवे णं०' जंबूद्वीपो भदन्त ! द्वीपः कियान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org