SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४२२ जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ५/२४४ धानादिवेदिनः शब्दयति २ त्वाचैवमवादीत्, शेषमनुवादसूत्रत्वात् सुबोधम्, अथास्मासु स्वस्थानं प्राप्तेषु निसौंदर्याः सौंदर्याधिके भगवति मा दुष्टा दुष्टष्टिं निक्षिपत्विति तदुपायार्थमाह 'तए णमित्यादि, ततो-वैश्रमणेनाज्ञाप्रत्यर्पणानंतरं स शक्रः ३ अभियोगान् देवान् शब्दयति शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया ! भगवतस्तीर्थकरस्य जमनगरे शृङ्गाटकयावंमहापथपथेषु महता२ शब्देन उदघोषयंतः २ एवं वदत-हंत! इतिप्राग्वत्शृण्वंतु भवंतो बहवो भवनपतिव्यंतरज्योतिष्कवैमानिका देवाश्च देव्यश्च योऽनिर्दिष्टनामा देवानांप्रिया! इति सम्बोधनं भवतां मध्ये तीर्थकरस्य मातुर्वोपर्यशुभं मनःप्रधारयति-दुष्टं सङ्कल्पयति तस्य 'आर्यकमञ्जरिकेव' आर्यको-वनस्पतिविशेषोयो लोके आजओइतिप्रसिद्धस्तस्य मञ्जरिका इव मूर्द्धा शतधास्फुटवितिकृत्वा-इत्युक्त्वा घोषणंघोषयत, घोषयित्वाचैतामाज्ञप्तिकांप्रत्यर्पयत इति, अथ ते यचक्रुस्तदाह-'तएण'मित्यादि व्यक्तं अनुवादसूत्रत्वात्, अथ निगम-नसूत्रमाह'तएणं, ततस्ते बहवो भवनपत्यादयो देवा भगवतस्तीर्थकरस्य जममहिमानं कुर्वति, कृत्वा च सिद्धसमीहितकार्या मङ्गलार्थं यत्रैव नंदीश्वरवरद्वीपस्तत्रैवोपागच्छंति उपागत्याष्टाहिकामहामहिमाः-अष्टदिननिर्वर्तनीयोत्सवविशेषान् कुर्वति, बहुवचनं चात्र सौधर्मेद्रादिभिः प्रत्येकं क्रियमाणत्वात्, अत्र यस्येंद्रस्य यस्मिन् अञ्जनगिरी येषुच दधिमुखगिरिषुतल्लोकपालानां अष्टाह्निकाधिकारः स प्राक् ऋषभदेवनिर्वाणाधिकारे उक्त इति नात्र लिख्यते॥ वक्षस्कारः-५ समाप्तम् इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानएदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजगजंतुजाताभयप्रदानशत्रुअयादिकरमोचनस्फुरंमानप्रदाप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतिविजयमानश्रीमत्तपागच्छाधिराजश्री हीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचंद्रगणिशिष्योपाध्यायश्रीशातिचंद्रगणिविरचितायां जंबूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्यां तीर्थकृजंमाभिषेकाधिकावर्णनो नाम पञ्चमो वक्षस्कारः ।। मुनि दीपरलसागरेण संशोधिता सम्पादिता जंबूद्वीपप्रज्ञप्तिउपासूत्रे पञ्चमवक्षस्कारस्य शातिचन्द्र वाचकेन विरचिता टीका परिसमाता। (वक्षस्कारः-६) वृ. पृष्टं जंबूद्वीपान्तर्ति स्वरूपं, सम्प्रति तस्यैव चरमप्रदेशस्वरूपप्रश्नायाह मू. (२४५) जंबुद्दीवस्सणं भंते ! दीवस्स पदेसालवणसमुदं पुट्टा?, हंता पुट्ठा, ते णं भंते किंजंबुद्दीवेदी लवणसमुढे?, गोअमा? जंबुद्दीवेणंदीवेनोखलु लवणसमुहे, एवं लवणसमुहस्सवि पएसाजंबुद्दीवे पुट्ठा भाणिअव्या इति । जंबुद्दीवेणं भंते ! जीवा उद्दाइत्ता र लवणसमुहे पञ्चायंति अत्थेगइआ पच्चयंति अत्येगइआ नो पञ्चायंति, एवं लवणस्सवि जंबुद्दीवे दीवे नेअव्वमिति। वृ. 'जंबुद्दीवस्स णमित्यादि, जंबूद्वीपस्य णमिति पूर्ववत् द्वीपस्य प्रदेशा लवणसमुद्रशब्दसहचाराच्चरमप्रदेशा इति व्याख्येयं अंयथा जंबूद्वीपमध्यवर्तिप्रदेशानां लवणसमुद्रस्य Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy