SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -१ परिमाणोपचारात्, कोष्टपुटादीनीत्युच्यन्तेतेषांकुट्टयमानानां उदूषलादिषुकुट्टयमानानारुंचिजमाणाण वा इति-लक्ष्णखण्डीक्रियमाणानां, एतन्त्र विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषां प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तुयूथिकादीनां, तथा उत्कीर्यमाणानां-क्षुरिकादिभि कोठादिपुटानां कोष्ठादिद्रव्याणां वा उल्लिख्यमानानां, तथा विकीर्यमाणानां इतस्ततो विप्रकीर्यमाणानां परिभुज्यमानानां-परिभोगायोपयुज्यमानानांकचित् परिभाएजमाणाणवा' इतिपाठ-, तत्र परिभाज्यमानानां पार्श्ववर्तिभ्योमनाक्मनाक्दीयमानानां, तथभाण्डात्-स्थानादेकस्मादन्यद्भाण्डं-भाजनान्तरं संहियमाणानां, उदाराः-स्फारास्ते चामनोज्ञा अपि भवन्त्यत आहमनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहरा-मनोहरन्ति-आत्मवशतानवन्तीति मनोहराः यतस्ततोमनोज्ञाः, तदपि मनोहरत्वंकुत इत्याह-ध्राणमनोनिवृतिकराः-नासासचिवचेतः सुखोतपादकाः, एवम्भूताः सर्वतः-दिक्षुसमन्ततः-सामस्त्येनगन्धा अभिनिश्रवन्ति-जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-भवेदेतद्रूपः ?, भगवानाह-गौतम ! नायमर्थ समर्थः, तेषां मणीनां तृणानां च इत इष्टतरकश्चैव यावन्मनआपतरकश्चैव गन्धः प्रज्ञप्त इति । ___'तेसिणंभंते! मणीणं तणाण य केरिसए फासेपन्नत्ते, से जहानामए आइणगेइ वारूएइ वा बूरेइ वा नवनीएइ वा हंसगब्मतूलीइ वा सिरीसकुसुमनिचएइ वा बालकुमुदपत्तरासीइ वा, भवे एयाखवे?, गोअमा! नो इणढे समझे, तेसि णं मणीणं तणाण य इत्तो इट्टतरए चेव जाव फासेणं पन्नत्ते" तेषां भदन्त ! मणीनां तृणानां च कीशः स्पर्श प्रज्ञप्तः?, भगवानाह-गौतम! ' से जहानामए'इत्यादि, तद्यथा-अजिनक-चर्ममयं वस्त्र रूतं-कप्पासपक्ष्म बूरोवनस्पतिविशेषः, नवनीतं-म्रक्षम, हंसग तूली शिरीषकुसुमनिचयश्च प्रकटः, बालानिअचिरकालजातानि यानि कुमदपत्राणि तेषां राशि, कचिद्वालकुसुमपत्रराशिरिति पाठः। भवे एयारूवे' इत्यादि पूर्ववत्। 'तेसिणंभंते ! मणीणंतणाण यपुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभिआणं उदीरियाणं केरिसए सद्दे पन्नत्ते गो०! से जहानामए, सिबिआए वा संदमाणिआए वा रहस्स वा सच्छतस्स सन्झयस्स सघंटायस्स सपडायस्स सतोरणवरस्ससनंदिघोसस्स सखिखिणीअहेमजालपेरंतपरिक्खित्तस्सहेमव-यचित्ततिणिसकणगणिज्जुत्तदारुआगस्ससुपिणदधारगमंडलधुरागस्स कालायससुकयणेमिजंत-कम्मस्सआइण्णवरतुरगसुसंपउत्तस्सकुसलतरछेअसारहिसुसंपगहियस्स सरसयबत्तीसतोणपरि-मंडियस्स सकंकड़वयंसगस्स सचावसरपहरणावरणभरिअजोहजुज्झसजस्स रायंगणंसिवा अंतेउरंसिवा रम्मंसिवामणिकुट्टममतलंसि अभिघट्टिजमाणस्सजे उसला मणुण्णा कण्णम-णनिब्बुईकरा सद्दा सबओ समंता अभिनिस्सरंति, भवे एयारूवे सिआ?, नो इणढे समढे' अत्र व्याख्या तेषां मणीनांतृणानांच भदन्त! पूर्वापरदक्षिणोत्तरागतैतिर्मन्दमन्दमेजितानां-कम्पितानां तथा व्यंजिताना-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानामिति, तथा चालितानां-इतस्ततो विक्षिप्तानां, एतदेव पर्यायेणाह-स्पन्दितानामिति तथा घट्टितानां-परस्परं घर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभितानां स्वस्थानाचालितानां, स्वस्थानाच्चालनमपि कुत इत्याह-उदीरितानां-उत्-प्राबल्येनेरिताना-प्रेरितानां, कीशः शब्दः प्रज्ञप्तः?, भगवानाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy