SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२३६ बोध्यः-'चमरचञ्चारायहाणीवत्थव्वेहिं बहूहिं असुरकुमारेहिंदेवेहिअ देवीहिअत्ति, यथा शकस्तथाऽयमप्यवगम्यः, नवरमिदनानात्वं-भेदः, द्रुम-पदात्यनीकाधिपतिओघस्वराघंटा यानविमानं पञ्चाशयोजनसहस्राणि विस्तारायामं महेंद्रध्वजः पञ्चयोजनशतायुचः विमानकृदाभियोगिको देवोन पुनर्वैमानिकेंद्राणां पालकादिरिव नियतनामकः अवशिष्टं तदेव-शक्राधिकारोक्तं वाच्यं नवरं दक्षिणपश्चिमो रतिकरपर्वतः, कियङ्करमित्याह-यावंमंदरे समवसरति पर्युपास्त इति । ____ अथ बलीद्रः-“तेणं कालेण'मित्यादि, तस्मिन् काले तस्मिन् समये बलिरसुरेंद्रोऽसुरराजा एवमेवेति-चमर इव नवरं षष्टि सामानिकसहस्रणि चतुर्गुणा आत्मरक्षाः, सामानिकसंख्यातश्चतुर्गुणसंख्याकाःआत्मरकक्षकाइत्यर्थः,महाद्रुमः पदात्यनीकाधिपतिमहौधस्वराघंटा'व्यारव्यातोऽधिकं प्रतिपद्यत' इति चमरचञ्चास्थाने बलिचचा दाक्षिणात्यो निर्याणमार्ग उत्तरपश्चिमो रतिक-रपर्वत इति, शेष-यानविमानविस्तारादिकंतदेव-चमरचञ्चाधिकारोक्तमेव, पर्षदो यथा जीवाभिगमे, इदं च सूत्रं देहलीप्रदीपंयायेन सम्बंधनीयं, यथा देहलीस्थो दीपोऽतःस्थदेहलीस्थबाह्यस्थवस्तुप्रकाशनोपयोगीतथेदमप्युक्तेचमराधिकारे उच्यमानेबलीद्राधिकारे वक्ष्यमाणेष्वष्टसु भवनपतिषूपयोगी भवति, त्रिष्वप्यधिकारेषु पर्षदो वाच्या इत्यर्थः, तथाहि चमरस्याभ्यंतरिकायांपर्षदि २४ सहस्राणि देवानांमध्यमायां२८ सहस्राणि बाह्यायांच ३२ सहस्राणि, तथा बलीद्रस्याभ्यंतरिकायांपर्षदि २४ सहस्राणि देवानांमध्यमायां२८ सहस्राणि बाह्यायां च ३२ सहस्राणि, तथा बलींद्रस्याभ्यंतरिकायां पर्षदि २० सहस्राणि मध्यमायां २४ सहस्राणि बाह्यायां २८ सहस्राणि, तथा धरमेंद्रस्याभ्यंतरिकायांपर्षदि ६० सहस्राणि मध्यमायां ७० सहस्राणि, अवशिष्टानां भवनवासिषोडशेंद्राणांमध्येये वेणुदेवादयो दक्षिणश्रेणिपतयस्तेषां पर्षत्रयं धरणेंद्रस्येव उत्तरश्रेण्यधिपानां वेणुदालिप्रमुखाणां भूतानंदस्येव ज्ञेयम्। अथ धरणः तेणं कालेण मित्यादि, तस्मिन् काले तस्मिन् समये धरणस्तथैव-चमरवत् नवरमिदं नानात्वं-भेदः षट् सामानिकसहस्राणां षडग्रमहिष्यः चतुर्गुणा आत्मरक्षकः मेघस्वरा घंटा भद्रसेनः पदात्यनीकाधिपति विमानं पञ्चविंशतियोजनसहमणि महेंद्रध्वजोऽर्द्धतृतीयानि योजनशतानि, अथावशिष्टभवनवासींद्रवक्तव्यतामस्यातिदेशेनाह-'एवमसुरिंद'इत्यादि, एवं-धरणेद्रयायेनासुरेंद्रौ-चमरबलींद्रौ ताभ्यांवर्जितानां भवनवासींद्राणां भूतानंदादीनांवक्तव्यं बोध्यं, नवरं असुराणां-असुरकुमाराणां ओघस्वराघंटा नागानां नागकुमाराणां मेघस्वरा घंटा सुपर्णानां-गरुडकुरामाणां हंसस्वरा विद्युत्कुमाराणां क्रौञ्चस्वरा अग्निकुमाराणां मंजुस्वरा दिक्कुमाराणांमंजुघोषाउदधिकुमाराणां सुस्वरा द्वीपकुमाराणांमधुरस्वरा वायुकुमाराणां नदिस्वरा स्तनितकुमाराणां नंदिघोषा। मू. (२३७) चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवाणं । सामानिआ उ एए चउग्गुणा आयरक्खा उ॥ वृ.एषामेवोक्तानुक्ससामानिकसंग्रहार्थंगाथामाह-चतुष्पष्टिश्चमरेंद्रस्य षष्टिर्बलींद्रस्य खलुर्निश्चये षट् च सहस्राणि असुरवर्जानां धरणेद्रादीनामष्टादशभवनवासीद्राणां सामानिकाः चः समुच्चये तथा पुनरर्थे भिन्नक्रमे तेनैते सामानिकाः चतुर्गुणाः पुनरात्मरक्षका भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy