________________
३९८
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५/२२८
अट्ठण्हं अग्गमहिसीणं एवं दाहिणपुरत्थिमेणं अब्यंतरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमाए चउदसण्हं देवसाहस्सीणं दाहिणपञ्च्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पञ्चत्थिमेणं सत्तण्हं अनिआहिवईणंति ।
तए णं तस्स सीहासनस्स चउद्दिसिं चउन्हं चउरासीणं आयारक्खदेवसाहस्सीणं एवमाई विभासि अव्वं सूरिआभगमेणं जाव पञ्चप्पिणन्तित्ति ।
डू. 'तए णं से पालए देवे सक्कण' मित्यादि, ततः स पालको देवः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन्तुष्ट यावद् वैक्रियसमुदघातेन समवहत्य तथैव करोति, पालकविमानं रचयतीत्यर्थः अथ विमानस्वरूपवर्णनायाह- 'तस्स ण' मित्यादि इति सूत्रद्वयी व्यक्ता, अथ तद्विभागं वर्णयनाह-- 'तस्स णं' इत्यादि, इदं प्राग्वद् ज्ञेयम्, नवरं मणीनां वर्णो गंध: स्पर्शश्च भणितव्यो यथा राजप्रश्नीये द्वितीयोपाङ्गे, अत्रापि जगतीपद्मवरवेदिकावर्णने मणिवर्णादयो व्याख्यातास्ततोऽपि वा बोद्धव्याः अत्र प्रेक्षागृहमण्डवर्णनायाह
'तस्स ण' मित्यादि, यावच्छब्दग्राह्यं व्याख्या च यमकराजधानीगतसुधर्मासभाधिकारतो ज्ञेये, उपरिभागवर्णनायाह- 'तस्स उल्लोए' इत्यादि, तस्योल्लोकः उपरिभागः पद्मवलताभक्तिचित्रः यावत्सर्वात्मना तपनीयमयः प्रथमयावच्छब्देन अशोकलताभक्तिचित्र इत्यादिपरिग्रहः द्वितीययावच्छब्दाद् अच्छे सण्हे इत्यादिविशेषणग्रहः, अत्र च राजप्रश्नीये सूर्याभयानविमानवर्णकेऽक्षपाटकसूत्रं दृश्यते परं बहुष्वेतत्सूत्रादर्शेषु अध्टत्वान्न लिखितं, अथात्र मणिपीठिकावर्णनायाह'तस्स ण' मित्यादि, व्यक्तं, 'ती उवरिं' इत्यादि, एतदव्याख्या विजयद्वारस्थप्रकण्ठकप्रासादगतसिंहासनसूत्रवदवसेया ।
'ते ण' मित्यादि, इदं सूत्रं प्राक् पद्मवरवेदिकाजालवर्णके व्याख्यातमिति ततो बोध्यं, अत्रप्रथमयावत्पदात् 'वेइज्जमाणा २ पलम्बमाणा २ पझंझमाणा २ ओरालेणं मणुण्णेणं मनहरेणं कण्णमण' इति संग्रहः, द्वितीययावत्पदात् 'ससिरीए' इति ग्राह्यं सम्प्रति अत्रास्थाननिवेशनप्रक्रियामाह-- ' तस्स ण 'मित्यादि, 'तस्य' सिंहासनस्य पालकविमानमध्यभागवर्त्तिनोऽपरोत्तरायां- वायव्यामुत्तरस्यां उत्तरपूर्वायां- एशान्यां अत्रान्तरे शक्रस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीतिभद्रासनसहस्राणि उक्तदिक्त्रये चतुरशीतिभद्रासनसहस्राणीत्यर्थः, पूर्वस्यां दिश्यष्टानामग्रमहिषीणामष्ट चतुरशीति भद्रासनानि, एवं दक्षिणपूर्वायां- अग्निकोणेऽभ्यन्तरपर्षदः सम्बन्धिनां द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि दक्षिणस्यां मध्यमायाः पर्षदश्चतुईशानां देवसहस्राणां चतुर्दश भद्रासनसहस्राणि दक्षिणपश्चिमायां नैऋतकोणे बाह्यपर्षदः षोडशानां देवसहस्राणां षोडश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानीति । 'तएण 'मित्यादि, 'ततः' प्रथमवलयस्थापनान्तरं द्वितीये वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतानां चतुर्गुणीकृतचतुरशीतिसंख्याकानां आत्मरक्षकदेवसहस्राणां षट्त्रिंशत्सहस्रधिकलक्षत्रयमितानामात्मरक्षकदेवानामित्यर्थः, तावन्ति भद्रासनानि विकुर्वितानीत्यर्थः, एवमादि विभाषितव्यं इत्यादि वक्तव्यं सूर्याभगमेन यावठात्यर्पयन्ति, यावत्पदसंग्रहश्चायम्-'तरसणं दिव्वस्स जाणविमाणस्स इमे एआरूवे वण्णावासे पन्नत्ते, से जहा णामए अइरुग्गयस्स हेमंत अबालसूरि अस्स खाइलिंगालाण वा रतिं पञ्जलिआणं जासुमणवणस्स वा केसुअवणस्स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International