________________
वक्षस्कारः-४
३७१ बाहल्येन--पिण्डेन सर्वात्मना कनकमयी प्रस्तावादर्जुन-सुवर्णमयी अच्छा वेदिकावनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्ता, वक्रता च चूलिकासन्ना सरलतातु स्वस्वदिकक्षेत्राभिमुखा, वर्णकश्च वेदिकावनखण्डयोर्वक्तव्यः, चतुर्योजनोच्छ्रिता च शिला दुरारोहा आरोहकाणामित्याह____ 'तीसे ण'मित्यादि, तस्यां शिलायां चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकाणिप्रज्ञप्तानि, तेषांचवर्णकोवाच्यो यावत्तोरणानि।अथास्या भूमिसौभाग्यभावेदयन्नाह-तस्याः-पाण्डुशिलायाः उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावद्देवा आसते शेरते इत्यादि, अथात्राभिषेकासनवर्णनायाह- तस्य बहुसमरमणीयस्य भूमिभागस् बहुमध्यदेशभागे उत्तरतो दक्षिणतश्च अत्रान्तरे द्वे अभिषेकसिंहासने-जिनजन्माभिषेकायपीठेप्रज्ञप्तेपंचधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनुःशतानि बाहल्येन उन्नत्वेनेत्यर्थः, अत्रच सिंहासनवर्णको भणितव्यः, सच विजयदुष्यवर्ज-उपरिभागे विजयनामकचन्द्रोदयवर्णनारहित इत्यर्थः, शिलासिंहासनानामनाच्छादितदेशे स्थितत्वात्, अत्रच सिंहासनानामायामविष्कम्भयोस्तुल्यत्वेन समचतुरसतोक्ता, नन्वत्रैकेनैव सिंहासनेनाभिषेके सिद्धे किमर्थं सिंहासनद्वयमित्याह
तत्थणमित्यादि, तत्र-तयोः सिंहासनयोर्मध्ये से' इतिभाषालङ्कारे यदौत्तराहं सिंहासनं तत्र बहुभिर्भवनपतिव्यन्तरज्योतिष्कवैमानिकैर्देवैर्देवीभिश्च कच्छादिविजयाष्टकजातास्तीर्थकराः अभिषिच्यन्ते-जन्मोत्सवार्थ सप्यन्ते, यत्तुदाक्षिणात्यंसिंहासनंतत्र वच्छादिका इति, अत्रायमर्थःएषाहि शिला पूर्वदिग्मुखा एतद्दिगभिमुखं च क्षेत्र पूर्महाविदेहाख्यं तत्र य युगपजगदगुरुयुगं जन्मभाग्भवति तत्र शीतोत्तरदिग्वतिविजयजातो जगदगुरुरुत्तरदिग्वर्तिनि सिंहासनेऽभिषिच्यते, तस्या एव दक्षिणदिग्वतिविजयजातो जगदगुरुदक्षिणदिग्वर्तिनीति ।
इदानींद्वितीयशिलाप्रश्नावतारः कहिण'मित्यादि, प्रश्नःप्रतीतः,उत्तरसूत्रे मेरुचूलिकाया दक्षिणतः पण्डकवनदाक्षिणात्यपर्यन्ते पाण्डुकम्बला नाम्नी शिला प्रज्ञप्ता, प्राक्पश्चिमायता उत्तरदक्षिणविस्तीर्णा, आधातु प्राकपश्चिमविस्तीर्णा उत्तरदक्षिमातेत्येतद्विशेषणद्वयं विहायान्यत् प्रागुक्तमतिदिशति-एवमेवोक्ताभिलापेन तदेव प्रमाणं शिलायाः पञ्चयोजनशतायामादिकं वक्तव्यता चार्जुनस्वर्णवर्णादिकाभणितव्या यावतस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महदेकं सिंहासनं प्रज्ञप्तं तदेवपञ्चधनुःशतादिकं सिंहासनप्रमाणमुच्चत्वादौ ज्ञेयं, तत्र बहुभिर्भवनपत्यादिभिर्देवैर्भारतका-भरतक्षेत्रोत्पन्नास्तीर्थकृतोऽभिषिच्यन्ते, ननु पूर्वशिलायां सिंहासनद्वयं अत्र तु एक सिंहासनं किमति?, एषा हि शिला दक्षिणदिगभिमुखा तद्दिगभिमुखं चक्षेत्रभारताख्यंतत्र चैककालमेक एव तीर्थकृदुत्पद्यते इतितदभिषेकानुरोधेनैकत्वं सिंहासनस्येति
अथ तृतीयशिला-'कहि ण'मित्यादि, इदं च सूत्रं पूर्वशिलागमेन बोध्यं, केवलं वर्णतः सर्वात्मनातपनीयमती रक्तवर्णत्वात्, सिंहासनद्वित्वभावना त्वेवं-एषा पश्चिमाभिमुखातद्दिगभिमुखं च क्षेत्रं पश्चिममहाविदेहाख्यं शीतोदादक्षिणोत्तररूपभागद्वयात्मकं, तत्र च प्रतिविभागमेकैकजिनजन्मसम्भवायुगपजिनद्वयमुत्पद्यते, तत्र दाक्षिणात्ये सिंहासने दक्षिणभागगतपक्ष्मादिविजयाटकजाता जिनाः सप्यन्ते औत्तराहे च उत्तरभागगतवप्रादिविजयाष्टकजाता।
सम्प्रति चतुर्थीशिला-'कहिणमित्यादि, प्रश्नःप्राग्वत्, उत्तरसूत्रेसर्वंद्वितीयशिलानुसारेण वाच्यं, वर्णतश्च सर्वतपनीयमयी, श्रीपूज्यैस्तु सर्वा अर्जुनस्वर्णवर्णा उक्ता इति, ‘ऐरावतका'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org