________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/५ नचैतदुपचारमात्रंकिन्तुप्रतिभासोऽपि।तत उक्तं-स्निग्धावभासस्तीव्रावभास इति, इह चावभासो भ्रान्तोऽपि स्याद्यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वस्तुस्वरूपमुपवर्णितं भवति किन्तुतथास्वरूपप्रतिपादनेनततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरंविशेषणान्तरमाह-कृष्णो वनखण्डः, कुत इत्याह-कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थयस्मात् कृष्णा छाया-आकारः सर्वाविसंवादितया तस्यास्ति तस्मात कृष्णः, एतदुक्तं भवति
सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससम्पादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्यास कृष्णो न भ्रान्तावभासमात्रव्यवस्थापित इति, एवं नीलो नीलच्छा इत्याद्यपि भावनीयं, नवरं शीतः शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घण'त्तिइह शरीरस्य मध्यभागेकटिस्ततोऽन्यस्यापिमध्यभागःकटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटं घना अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निबिडा कटितटे-मध्यभागे छाया यस्य(स)घनकटितटच्छायः, मध्यभागे निबिडतरच्छाय इत्यर्थः, वाचनान्तरे 'घणकडिअकडच्छाए'त्ति पाठे तु कटः सञ्जातोऽस्येति कटितः कटान्तरेणोपर्यावृत इत्यर्थः कटितश्चासौ कटश्च कटितकटः, घना निबिडा कटितकटस्येवाधोभूमौ छाया यस्य स घनकटितकटच्छायः, अत एळ रम्यो रमणीयः, तथा महान्-जलभारावनतः प्रावृटकालभावी यो मेघनिकुरम्बोमेघसमूहस्तं भूतो-गुणैः प्राप्तो महामेघवृन्दोपम इत्यर्थः ।
___ 'तेणं पायव'त्ति यत्सम्बन्धी वनखण्डस्ते पादपाः 'मूलमन्त' इत्यादीनि दश पदानि, तत्र मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः, यानि कन्दस्याधः तानि मूलानि तेषामुपरिवर्तिनः कन्दाः स्कन्धः-स्थुडं यतो मूलशाखा प्रभवन्ति त्वक्-छल्ली शाला–शाखा प्रवालः-पल्लवाङ्कुरः, पत्रपुष्पफलबीजानि प्रसिद्धानि, सर्वत्रातिशायने क्वचिद् भूम्नि वा मतुप् प्रत्ययः, 'आनुपुब्दि'त्ति आनुपूर्व्या मूलादिपरिपाट्या सुष्टु जाता आनुपूर्वीसुजाताः रुचिराःस्निग्धतयादीप्यमानच्छविमन्तः तथा वृत्तभावेन परिणतावृत्तभावपरिणताः,किमुक्तंभवति?-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखादिभि प्रसृता यथा वर्तुलाकृतयो जाता इति, ततः पदत्रयस्य कर्मधारयः, तथाते पादपाः प्रत्येकमेकस्कन्धाः,प्राकृतेचास्यस्त्रत्वमिति एगक्खंधीइतिसूत्रपाठः, अनेकाभि शाखाभि प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां ते तथा, तथा तिर्यग्बाहुद्वयप्रसारणप्रमाणो व्यामः अनेकैः नरव्यामैः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः-अमेयो घनो-निबिडो विपुलो-विस्तीर्ण स्कन्धो येषां ते तथा --
अच्छिद्राणि पत्राणि येषां तेऽच्छिद्रपत्राः, किमुक्तं भवति? न तेषां पत्रेषु वातदोषतः कालदोषतो वा गडरिकादिरीतिरुपजायते येन तेषु छिद्राण्यभविष्यनित्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यंशाखाप्रशाखानुप्रवेशात् पत्राणिपत्राणामुपरिजातानियेन मनागप्यन्तरालरूपं छिद्रं नोपलक्ष्यत इति, अच्छिद्रप्राः कुत इत्याह-'अविरलपत्ता इथि, अत्र हेतौ प्रथमा, ततोऽ. यमर्थः-यतोऽविरलपत्रा अतः अच्छिद्रपत्राः, अविरलपत्रा अपि कुत इत्याह-'अवाईण'त्ति वाती- नानि-वातोपहतानि वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति? -न तत्र प्रबलो वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ पतन्ति, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org