________________
वक्षस्कारः-१
३१
समूहोवनखण्डः, यदुक्तम्-“एगजाइएहिं रुक्खेहिं वणं, अनेगजाइहिं उत्तमेहिं रुक्खेहिं वनसंडे''इति, स च वनखण्डो देशोने किञ्चिदूने द्वे योजने विष्कम्भतो-विस्तारतः, देशश्चात्र सार्द्धधनुः शतद्वयरूपोऽवगन्त्यः, तथाहि-चतुर्योजनविस्तृतशिरस्काया जगत्या बहुमध्यभागे पञ्चधनुः शतव्यासा पद्मवरवेदिका, तस्याश्च बहिर्भागएको वनखण्डोऽपरश्चान्तर्भागे, अतो जगतीमस्तकविस्तारो वेदिकासविस्तारधनुःशतपञ्चकोनोऽर्थीक्रियते, ततो यथोक्तंमानं लभ्यत इति, तथा जगतीसम एव जगतीसमकः-जगतीतुल्यः परिक्षेपेण-परिरयेण, वनखण्डवर्णकः सर्वोऽप्यत्र प्रथमोपाङ्गगतो नेतव्यः स्मृतिपथं प्रापणीयः ।
स चायं “किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासेतिब्वेतिव्वोभासे किण्हे किण्हच्छाएनीले नीलच्छाए हरिएहरियच्छाए सीएसीअच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडियच्छाए रम्मे महामेहणिकुरंबभूए, ते णं पायवा मूलमंतो कंदमंतोखंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुप्फमंतोफलमंतो बीअमंतो अणुपुब्बिसुजायरुइलवभावपरिणया एगखंधी अनेगसाहप्पसाहविडिमा अनेगनरवामसुप्पसारियागेज्झघणविउलवट्टखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ताअणईईपत्ता निद्भूयजरढपंडुरपत्ता नवहरिअभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवविणिग्गयनवतरुणपत्तपल्लवकोमलुज्जलचलंतकिसलयसुकुमालपवालसोभियवरंकुरग्गसिहरा निच्चं कुसुमियाजाव निचं पणमिया निचं कुसुमिअमउलिअलवइअथवइअगुलइअगोच्छिअजमलिअजुअलिअविणमियपणमियसुविभत्तपडिमंजरिवडिंसयधरा सुअबरहिणमयणसलागकोइलकोरगभिंगारग कोंडलकजीवंजीवगणंदीमुहकविलपिंगलक्खगकारंडवचक्कवायकलहंससारसअणे गउणगणविरइअसहुन्नइअमहुरसरणाइआ सुरम्मा संपिंडिअदरियभमरमहुअरिपहकरपरिलितमत्तछप्पयकुसुमासवलोलमहुरगुमगुमेंतगुंजतदेसभागाअमितरपुप्फफला बाहिरपत्तछन्ना पुप्फेहिं फलेहि य उच्छन्नपलिच्छन्ना नीरोअया अकंटया साउफला नानावि-हगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउभूया वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमनहरंच महया गंधद्धणिं मुअंतासुहसेउकेउबहुलाअनेगरहजाणजुग्गसिबिअसंदमाणिआपविमोअणा पासादीया जाव पडिरूवा"इति
अत्र व्याख्या इह प्रायोमध्यमेवयसि वर्तमानानिपत्राणि कृष्णानि भवन्ति, ततस्तद्योगाद्वनखण्डोऽपि कृष्णः, न चोपचारमात्रतः कृष्ण इति व्यपदिश्यते, किन्तु तथाप्रतिभासनात्, तथा चाह-कृष्णावभासः,यावति भागे कृष्णानि पत्राणि सन्ति तावति भागेस वनखण्डोऽतीव कृष्णोऽवभासते-प्रतिभातिद्रष्टजनलोचनपथइति कृष्णोऽवभासो यस्यस कृष्णावभासः, तथा प्रदेशान्तरे नीलपत्रयोगाद्वनखण्डोऽपि नीलः, एवं नीलावभासः, तथा प्रदेशान्तरे हरितो हरितावभासश्च, तत्र नीलो मयूरकण्ठवत् हरित्तु शुकपिच्छवत् हरितालाभ इति वृद्धाः, तथा प्रायो दिनकरकराणामप्रवेशावृक्षाणां पत्राणि शीतानि भवन्ति तद्योगात्वनखण्डोऽपिशीतः, न चासावुपचारमात्रत इत्यत आह-शीतावभास इति, अधोवर्त्तिव्यन्तरदेवदेवीनां तद्योगशीतवातस्पर्शतः शीतो वनखण्डोऽवभासते, तथा एते कृष्णनीलहरितवर्णा यथास्वं स्वस्मिन् २ स्वरूपेऽत्यर्थमुत्कटाः स्निग्धा भण्यन्ते तीव्राश्च ततस्तद्योगाद्वनखण्डोऽपि स्निग्धस्तीव्रश्चोक्तः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org