________________
३४०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१६७ पृथुत्वमीलने चत्वारियोजनसहस्राणि, अन्तरनद्यश्चषट्एकैकस्याश्चान्तरनद्या विष्कम्भःपंचविंशं योजनशतंततः सर्वान्तरनदीपृथुत्वमीलनेजातानि सप्त शतानि पंचाशदधिकानि, द्वेच वनमुखे एकैकस्य वनमुखस्यपृथुत्वमेकोनत्रिंशच्छतानिद्वाविंशत्यधिकानि,उभयपृथुत्वमीलनेजातानि अष्टापञ्चाशच्छतानिचतुश्चत्वारिंशदधिकानि, मेरुपृथुत्वंदशसहस्राणि, पूर्वापरभद्रशालवनयोरायामश्चतुश्चत्वारिंशत्सहस्राणि, सर्वमीलनेजातानिचतुःषष्टिसहस्राणिपंचशतानि चतुर्नवत्यधिकानि, एतज्जम्बूद्वीपविस्तारात् शोध्यते, शोधिते च सति जातं शेषं पंचत्रिंशत्सहस्राणि चत्वारि शतानि षडुत्तराणि, एकैकस्मिंश्चदक्षिणे उत्तरे वा भागे विजयाः षोडश, ततः षोडशभिर्भागेहृते लब्धानि द्वाविंशतिशतानिकिंचिदूनत्रयोदशाधिकानि, त्रयोदशस्ययोजनस्यषोडशचतुर्दशभागा-सकत्वात्, एतावानेवैकैकस्य विजयस्य विष्कम्भः ।
___अयंच भरतवद्वैताढयेन द्विधाकृत इतितत्रतं विवक्षुराह–'कच्छस्सण मित्यादि, कच्छस्य विजयस्य बहुमध्यदेशभागे वैताढयः पर्वतः प्रज्ञप्तः, यः कच्छं विजयं द्विधा विभजरस्तिष्ठति, तद्यथा-दक्षिणार्द्धकच्छंचोत्तरार्द्धकच्छंच, चशब्दौ उभयोस्तुल्यकक्षताधोतनार्थी।
दक्षिणार्द्धकच्छंस्थानतः पृच्छन्नाह-'कहिण'मित्यादि,क्व भदन्त!जम्बूद्वीपेद्वीपे महाविदेहनाम्नि वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! वैताढयपर्वतस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां चित्रकूटस्य वक्षस्कारपर्वतस्यपश्चिमायांमाल्यवतो वक्षस्कारपर्वतस्य पूर्वस्यांअत्रान्तरेजम्बूद्वीपेद्वीपेयावद्दक्षिणार्द्धकच्छोनाम विजयः प्रज्ञप्तः,उत्तरेत्यादिविशेषणद्वयं प्राग्वद् बोध्यं, अष्टौ योजनसहनाणि द्वे च एकसप्तयुत्तरे योजनशते एकं चैकोनविंशतिभागं योजनस्यायामेन, एतदकोत्पत्तिश्चषोडशसहनपञ्चशतद्विनवतियोजनकलाद्वयरूपात्कच्छविजयमानात् पचाशदयोजनप्रमाणे वैताढयव्यासे (ऽपनीते ततोऽ)र्टीकृते भवति, शेषं प्राग्वद् अयं च कर्मभूमिरूपोऽकर्मभूमिरूपो वेति निर्णेतुमाह-'दाहिणद्ध'इत्यादि, दक्षिणार्द्धभरतप्रकरण इवेदं निर्विशेषं व्याख्येयं, अत्र मनुजस्वरूपं पृच्छति-'दाहिण'इत्यादि, कण्ठयं, अथास्य सीमाकारिणं वैताढय इति नाम्ना प्रतीतं गिरि स्थानतः पृच्छति
__'कहिण मित्यादि, स्पष्ट, नवरं द्विधा वक्षस्कारपर्वतौ-माल्यवच्चित्रकूटवक्षस्कारौ स्पृष्टः, इदमेवसमर्थयति-पूर्वया कोट्या यावत्करणात् 'पुरस्थिमिलं वक्खारपब्वयंपञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिलं वक्खारपव्वयं इति बोध्यं, तेन पौरस्त्यं वक्षस्कारं-चित्रकूटं नामानं पाश्चात्यया कोट्या पाश्चात्यं वक्षस्कारं-माल्यवन्तं, अत एव द्वाभ्यां कोटिभ्यां स्पृष्टः, भरतवैताढयसशकः रजतमयत्वात् रुचकसंस्थानसंस्थितत्वाच्च, नवरं द्वे बाहे जीवा धनुःपृष्ठं च न कर्तव्यमवनक्षेत्रवर्तित्वात्, लम्बभागश्च न भरतवैताढयसश इत्याह-विजयस्य कच्छादेर्यो विष्कम्भः-किंचिदूनतरयोदशाधिकद्वाविंशतिशतयोजनरूपस्तेन सद्दश आयामेन, कोऽर्थः?
विजयस्य यो विष्कम्भभागः सोऽस्यायामविभाग इति, विष्कम्भः-पंचाशदयोजनरूपः, उच्चत्वं-पंचविंशतियोजनरूपं उद्वेधः-पंचविंशतिक्रोशात्मकस्तथैव-भरतवैताढयवदेवेत्यर्थः, उच्चत्वस्य प्रथमदशयोजनातिक्रमे विद्यधरश्रेण्यौ तथैव, नवरमितिविशेषःपंचपंचाशत र विद्याधरनगरावासाः प्रज्ञप्ताः, एकैकस्यां श्रेणी-दक्षिणश्रेणौ उत्तरश्रेणौ वा, भरतवैताढये तुदक्षिणतः पञ्चाशदुत्तरतस्तु षष्टिर्नगराणीति भेदः, आभियोग्यश्रेणी तथैवेति गम्यं, कोऽर्थः? -विद्याधर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org