SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१६४ विजयाधिपकूटसागरकूटरजतकूट, इदंचान्यत्र रुचकमितिप्रसिद्धं, शीताकूट-शीतासितूसुरीकूट, पदैकदेशेपदसमुदायोपचारइति सिद्धि, चः समुच्चये, पूर्णभद्रनाम्नोव्यन्तरेशस्य कूटं पूर्णभद्रकूटम्, हरिस्सहनाम्न उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूटं हरिस्सहकूट, चैवशब्द पूर्ववत्, सम्प्रत्यमीषां स्थानप्ररूपणायाह मू. (१६५) कहिणं भंते ! मालवंते वखारपब्चए सिद्धाययनकूडे नामं कूडे प० गो० मन्दरस्सपव्वयस्स उत्तरपुरस्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चस्थिमेण एस्थ णं सिद्धाययने कूडे ५० पंच जोअणसयाइं उद्धं उच्चत्तेणं अवसिद्धं तं चेव जाव रायहाणी, एवं मालवंतस्स कूडस्स उत्तकुरूकूडस्स कच्छकूडस्स, एएचत्तारि कूडा दिसाहिं पमाणेहिं नेअब्बा, कूडसरिसनामया देवा । कहिणंभंते! मालवंते सागरकूडे नामंकडे प० गो० कच्छकूडस्स उत्तरपुरस्थिमेणंस्ययकूडस्स दक्खिणेणं एत्थणं सागरकूडे नामंकूडे पन्नत्ते, पंचजोअणसयाइंउद्धं उच्चत्तेणं अवसिटुंतं चेव सुभोगा देवी रायहाणी उत्तरपुरथिमेणं रययकूडे भोगमालिनी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं नेअव्वा एक्केणं पमाणेणं। पृ. 'कहिण मित्यादि,प्रश्नःप्रतीतः, उत्तरसूत्रेमन्दरस्यपर्वतस्यउत्तरपूर्वस्यां-ईशानकोणे प्रत्यासन्नमाल्यवतकूटस्य दक्षिणपश्चिमायां नैऋतकोणे, अत्र सिद्धायतनकूट प्रज्ञप्तमिति गम्यं, पञ्चयोजनशतान्यर्वोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं वक्तव्यं तदेव गन्धमादनसिद्धायतनकूटवदेव वाच्यं, याचद्राजधानी भणितव्या स्यात्, अयमर्थः-सिद्धायतनकूटवर्णके सामान्यतः कूटवर्णकसूत्रं विशेषतः सिद्धायतनादिवर्णकसूत्रंच द्वयमपि वाच्यं, तत्र सिद्धायतनकूटेराजधनीसूत्रं न सङ्गच्छते इति राजधानीसूत्रं विहाय तदधस्तनसूत्रं वाच्यमिति, अत्र यावच्छब्दो न संग्राहकः किन्त्ववधिमात्रसूचकः, यथा 'आसमुद्रक्षितीशाना'मित्यत्र समुद्रं विहाय क्षितीशत्वं वर्णितमिति, लाघवार्थमत्रातिदेशमाह- ‘एवं मालवंतस्स इत्यादि, एवं सिद्धायतनकूटरीत्या माल्यकूटस्य उत्तरकुरुकूटस्य कच्छकूटस्य वक्तव्यं, ज्ञेयमिति गम्यं, अथैतानि कि परस्परं स्थानादिना तुल्यानि उतातुल्यानीत्याह-- एतानि सिद्धायतनकूटसहितानि चत्वारि परस्परं दिग्भिरीशानविदिरूपाभिप्रमाणैश्च नेतव्यानि, तुल्यानीति शेषः, अयमर्थः-प्रथमंसिद्धायतनकूटं मेरोरुत्तरपूर्वस्यादिशि ततस्तस्यदिशिद्वितीयं माल्यवत्कूटंततस्तस्यामेव दिशितृतीयमुत्तरकुरुकूट ततोऽप्यस्यां दिशि कच्छकूट, एतानि चत्वार्यपि कूटानि विदिग्भावीनि मानतो हिमवत्कूटप्रमाणानीति, कूटसग्नामकाश्चात्रदेवाः, अत्र यावत्सम्भवं विधिप्राप्तिरिति न्यायात् सिद्धकूटवर्जेषु त्रिषुकूटेषु कूटनामकादेवा इति बोध्यं, सिद्धायतनकूटेतु सिद्धायतनं, अन्यथा-- ॥१॥ “छसयरि कूडेसुतहा चूलाचउ वणतरूसु जिनभवणा। भणिआ जंबुद्दीवे सदेवया सेस ठाणेसु॥" इति स्वोपज्ञक्षेत्रविचारे रलशेखरसूरिवचो विरोधमापद्यतेति, अथावशिष्टकूटस्वरूपमाह- 'कहिण'मित्यादि, प्रश्नसूत्रं सुगमम्, उत्तरसूत्रेकच्छकूटस्यचतुर्थस्योत्तरपूर्वस्यां रजतकूटस्य दक्षिणस्यामत्रान्तरे सागरकूट नाम कूटं प्रज्ञप्तं, पञ्चयोजनशतान्यूर्वोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकंतदेव, अत्रसुभोगानाम्री दिक्कुमारी देवी अस्या राजधानी मेरोरुत्तरपूर्वस्या, रजतकूटं षष्टं पूर्वस्मादुत्तरस्यां अत्र भोगमालिनी दिक्कुमारी सुरी राजधानी उत्तरपूर्वस्यां, अवशिष्टानि www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy