SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३१८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४३ निरवशेषं विजयदेवप्रासादसिंहासनादिव्यवस्थितसूत्रवद्वक्तव्यं, नवरं यमकदेवाभिलापेनेति, 'सेकेणटेणं० प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे यमकपर्वतयोस्तत्र तत्र देशेतत्रतत्रप्रदेश क्षुद्रक्षुद्रिकासु यावद्विलपङ्क्तिषु बहून्युत्पलानि अत्र यावत्पदात् कुमुदादीनि च्यानि, तथा यमकप्रभाणीति परिग्रहः, तत्र यमको यमकपर्वतस्तत्रभाणि तदाकाराणीत्यर्थः, तथा यमकवर्णाभानि - यमकवर्णसहशवर्णानीत्यर्थः, यदिवा यमकाभिधानी द्वौ देवी महर्द्धिको अत्र परिवसतस्तेन यमकाविति शेषं प्राग्वत्, अथानयो राजधानीप्रश्नावसरः-'कहि णमित्यादि, क्व भद्त ! यमक-योर्देवयोर्यमिके नाम राजधान्यौ प्रज्ञप्ते?, गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्त-रेणान्यस्मिन् जम्बूद्वीपेद्वीपेद्वादशयोजनसहनाण्यवगाह्यात्रान्तरे यमकयोर्दैवयोर्यमिके नाम राजधान्यौ प्रज्ञप्ते, द्वादशयोजनसहसण्यायामविष्कम्भाभ्यां सप्तत्रिंशद्योजनसहमणि नव च योजनशतानि अष्टचत्वारिंशदधिकानि किंचिद्विशेषाधिकानि परिक्षेपेण, प्रत्येकं २ द्वे अपि प्राकारपरिक्षिप्ते, कीशौ तौ प्राकाराविति तत्स्वरूपमाह- 'ते णं पागारा' इत्यादि, तो प्राकारौ सप्तत्रिंशद्योजनानियोजनार्द्धसहितानिऊर्बोच्चत्वेनमूलेअर्द्ध त्रयोदशंयोनं येषु तान्यर्द्धत्रयोदशानि योजनानि विष्कम्मेन मध्ये षट्सक्रोशानियोजनानि विष्कमेभेन, मूलविष्कम्मतो मध्यविष्कम्भस्यार्द्धमानत्वात्, उपरि त्रीणि सार्द्धकोशानि योनानि विष्कम्भेनास्यापि मध्यविष्कम्भतोऽर्द्धमानत्वात्, अत एवमूले विस्तीर्णावित्यादिपदत्रयं विवृतप्राय, बहिवृत्तौ अनुपलक्ष्यमाणकोणत्वात् अन्तश्चतुरस्रोउपलक्ष्यमाणकोणत्वात् शेषं प्राग्वत्, अथानयोः कपिशीर्षकवर्णकमाह तेणंपागारनानामणि'इत्यादि, तोप्राकारीनानामणीनापद्मरागस्फटिकमरकताञ्चनादीनां पंचप्रकारावर्णा येषुतानि तथा तैः कपशीर्षकैः-प्राकारग्रैरुपशोभिती, एतदेव विवृणोति तद्यथाकृष्णैर्यावच्छुक्लैरिति, अर्थतेषांकपि शीर्षकाणा मुन्चत्वादिमानमाह-'तेण'मित्यादि, निगदसिद्ध, अथानयोः कियन्ति द्वाराणी त्याह-'जमिगाण'मित्यादि, यमिकयो राजधान्योरेकैकस्यांबाहायां पार्श्वेपंचविंसत्यधिकं २ द्वारशतंप्रज्ञप्तं, तानिद्वाराणिद्वा,षष्टियोजनानिअर्द्धयोजनंच ऊर्बोच्चत्वेन एकत्रिंशद्योजनानि क्रोशं सूर्याभनामकं तस्य वक्तव्यतायां यो द्वारवर्णकः स इहापि ग्राह्यः, कियत्पर्यन्तमित्याह-यावदष्टाष्टमङ्गलकानि, अत्रातिदिष्टमपिसूत्रंन लिखितं, विजयद्वारप्रकरणे सूत्रतोऽर्थतश्च लिखितत्वात् अतिदिष्टत्वस्योभयत्रापि साम्याचेति, अथानयोर्बहिर्भागे वनखण्डवक्तव्यमाह- 'जमियाण'मित्यादि, यमिकयो राजधान्योश्चतुर्दिशि चतसृणां दिशां समाहारश्चतुर्दिक्तस्मिंस्तथा, पूर्वादिष्वित्यर्थः, पंचपंचयोजनशतान्यवाधावांअपान्तराले कृत्वेति गम्यते चत्वारि वनखण्डानि प्राप्तानि, तद्यथा-अशोकवनं सप्तपर्णवनं चम्पकवं आम्रवनमिति, अथैतेषामायामाद्याह___ तेणं वनसण्डा' इत्यादि, ते चवनखण्डाः सातिरेकाणि द्वादशयोजनसहनणि आयामेन पञ्चयोजनशतानि विष्कम्भेन प्रत्येकं २ प्राकारैः परिक्षिप्ताः, कृष्णा इतिपदोपलक्षितोजम्बूद्वीपपद्मवरवेदिकाप्रकरणलिखितः पूर्णोवनखण्डवर्णको भूमयःप्रासादावतंसकाश्च भणितव्याः, भूमयश्चैवम्-'तेसिणं वडसंडाणं अंतो बहुसपरमणिज्जा भूमिभागा पन्नत्ता, से जहानामए आलिंगपुस्खरेइ वा जाव नानाविहपंचवण्णेहिं तणेहिं मणीहि अउवसोभिआ'इति, प्रासादसूत्रमप्येवं 'तेसि णं वनसंडाणं बहुमज्झदेसभाए पत्तेअं२ पासायवडेंसए पन्नत्ते, ते णं पासायवडेंसया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy