SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ वक्षस्कार:- ४ ३१७ - तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिह्नंति, सुहम्माणं उप्पिं अष्ट्ठट्ठमंगलगा, तासि णं उत्तरपुरत्थिमेणं सिद्धाययना स चेव जिनघराणवि गमोत्ति, नवरं इमं नाणत्तं - एतेसि णं बहुमज्झदेसभाए पत्ते २ मणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं, तासि उप्पि पत्तेअं २ देवच्छंदया पन्नत्ता । दो जो अणाई आयामविक्खम्भेणं साइरेगाइं दो जोअणाई उद्धं उच्चत्तेणं सव्वरयनामया जिनपडिमा वण्णओ जाव धूवकडुच्छुगा, एवं अवसेसाणवि समाणं जाव उबवायसभाए सयणिअं हरओ अ, अभिसे असभाए बहुआभिसेक्कं भंडे, अलंकारि असभाए बहु अलंकारिअभंडे चिट्ठइ, ववसायसभासु पुत्यरयणा, नदा पुक्खरिणीओ, बलिपेढा दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं जावत्ति । वृ. 'कहिण' मित्यादि, क्व भदन्त ! उत्तरकुरुषु यमकौ नाम द्वौ पर्वतो प्रज्ञप्ती ?, गौतम ! नीलवतो वर्षधरवर्वतस्य दाक्षिणात्याच्चरमान्तात् इत्यत्र दाक्षिणात्यं परमान्तं आरभ्येति ज्ञेयं, क्यब्लोपे पञ्चमी, दाक्षिणात्याच्चरमान्तादारम्यार्वाक् दक्षिणाभिमुखमित्यर्थः, अष्टौ योजनशतानि चतुस्त्रिंशदधिकानि चतुरश्च सप्तभागाना योजनस्यावाधया अपान्तराले कृत्वेति शेषः शीताया महानद्या उभयोः कूलयोः एकः पुर्वकूले एकः पश्चिमकूले इत्यर्थः, अत्रान्तरे यमकौ नाम द्वौ पर्वती प्रज्ञप्ती, एकं योजनसहनमूर्ध्वोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन उच्छ्रयचतुर्थाशस्य भूम्यवगाहात् मूले योजनसहस्रमायामविष्कम्भाभ्यां वृत्ताकारत्वात् मध्ये भूतलतः पञ्चयोज - नशतातिक्रमेऽर्द्धाष्टमानि योजनशतानि आयामविष्कम्भाभ्यां उपरि-सहस्रयोजनातिक्रमे पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मूले त्रीणि योजनसहस्राणि एकं च योजनशतं द्वाषष्ट्यधिकं किंचिद्विशेषाधिकं कियत्कलमित्यर्थः । परिक्षेपेण, एवं मध्यपरिधिरुपरितनपरिधिश्च स्वयम्भूयह्यौ, मूले विस्तीर्णौ मध्ये संक्षितावुपरि तनुकौ यमकौ - यमलजातौ भ्रातरौ तयोर्यत्संस्थानं तेन संस्थितौ परस्परं सध्शसंस्थानावित्यर्थः, अथवा यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थिती, संस्थानं चानयोर्मूलतः प्रारभ्य संक्षिप्तसंक्षिप्तमाणत्वेन गोपुच्छस्येव बोध्यं, सर्वात्मना कनकमयौ शेषं व्यक्तं, अष्टशताद्योत्पत्तिरेवं-- नीलवद्वर्षधरस्य यमकयोश्च प्रथमं यमकयोः प्रथमहृदस्य च द्वितीयं प्रथमहदस्य द्वितीयहृदस्य च तृतीयं द्वितीयहृदस्य तृतीयहृदस्य च चतुर्थं तृतीयहदस्य चतुर्थहृदस्य च पंचमं चतुर्थहदस्य पंचमह्रदस्य च षष्ठं पंचमहृदस्य वक्षस्कारगिरिपर्यन्तस्य च सप्तमं एतानि च सप्ताप्यन्तराणि मप्रमाणानि, ततश्च कुरुविष्कम्भात् योजन ११८४२ कला २ इत्येवंरूपात् योजनसहस्नायामयोर्यमकयोः योजनसहनमेकं तावत्प्रमाणायामानां पंचानां हृदानां च योजनसहस्रमे (कै) कं उभयमीलने योजनसहस्रषट्कं शोध्यते च जातं योजन ५८४२ कला २ ततः सप्तभिर्भागे हते ८३४, यच्चावशिष्टं कुरुसत्कं कलाद्वयं तदल्पत्वान्न विवक्षितमिति । अत्रैवानन्तरोक्तवेदिकावनखण्डप्रमाणाद्याह-- 'ताओ णमित्यादि, व्यक्तं, सम्प्रत्येतयोर्यदस्ति तदाह-‘तेसिण’मित्यादि, तयोर्यमकपर्वतयोरुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र पूर्वोक्तः सर्वोबूभागवर्णक उन्नेतव्यः कियतपर्यन्त इत्याह-- यावत्तयोर्बहुसमरमणीयस्य भूभागस्य बहुमध्यदेशभागे द्वौ प्रासादावतंसकौ प्रज्ञप्तौ, अथ तयोरुच्चत्वाद्याह- 'ते ण 'मित्यादि, Jain Education International 7 - For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy