________________
वक्षस्कारः-१
२७
भवइ न कयाइं न भविस्सइ भुर्विच भवई य भविस्सइय धुवा नियया सासया अक्खया अब्बया अवडिआ निच्चा" इति, अत्र व्याख्या-अनन्तरोक्तायाः पद्मवरवेदिकायाः वज्रमया-वज्ररलमया नेमाः, नेमा नाम भूमिभागादूर्ध्वनिष्कामन्तः प्रदेशाः, वज्रशब्दस्य दीर्घत्वंप्राकृततत्वात्, एवमन्यत्रापिद्रष्टव्यं, तथा रिष्ठरलमयानि प्रतिष्ठानाना-मूलपादाः,तथा वैडूर्यरत्नमयाः स्तम्भाः,सुवर्णरूप्यमयानि फलकानि-पद्मवरवेदिकाङ्गभूतानि, लोहिताक्षरलमय्यः सूचयः-फलकद्वयस्थिरसम्बन्धकारिपादुकास्थानीयाः, वज्रमया-सन्धिमेलाः फलकानां । किमुक्तं भवति?-वजरलापूरिताः फलकानां सन्धयः, नानामणिमयानि कलेवराणि-- मनुष्यशरीराणि, तथा नानामणिमयाः कलेवरसडाटा:-मनुष्यशरीरयुग्मानि, सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इति, नानामणिमयानि रूपाणि-हस्त्यादीनांरूपकाणि, रूपसङ्घाटा अपितथैव, तानिच कानिचिच्छोभार्थं कानिचिद्विनोदार्थ कानिचिच्च हग्दोषनिवारणार्थं यथा राजद्वारादिषु हस्त्यादिरूपाणि कम्पमानलम्बकूर्चकवृद्धरूणि च क्रियन्ते, तथाऽत्र फलकेषु रलमयानि सन्तीत्यर्थः, अङ्को-रलविशेषस्तन्मयाः पक्षाः-तदेकदेशाः पक्षबाहवोऽपितदेकदेशभूताएवाङ्कमय्यः, ज्योतीरसं नामरलं तन्मयावंशाः-महान्तः, पृष्ठवंशामध्यवलका इत्यर्थः, महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेलुकानि प्रतीतानि, अत्र द्वितीयवंशशब्दा-द्विभक्तिलोपः प्राकृतत्वात् ।
अक्रमप्राप्तनामपि कवेलुकानां पृष्ठवंशैर्वशैश्च सह यदेकत्र विशेषणे योजनं तत्र ज्योतीरसरलमयत्वं हेतुरिति, रजतमय्यः पट्टिकाः-वंशानामपुरि कम्बास्थानीयाः, जातरूपं. -सुवर्णविशेषस्तन्मय्यः अवघाटिन्यः-आच्छादनहेतुकम्बोपरिस्थाप्य मानमहाप्रमाणकिलिञ्चस्थानीयाः, वज्रमय्यः अवघाटिनीनामुपरि पुञ्छन्यो-निविडतराच्छादनहेतु लक्ष्णतरतृणविशेषस्थानीयाः, सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेलुकानामघ आच्छादनं, सा पद्मवरवेदिका एकैकेन किङ्किणीजालेन किङ्किण्यः-क्षुद्रघण्टिकाः एकैकेन घण्टाजालेनकिङ्किण्यपेक्षया किञ्चिन्महत्योघण्टाः एकैकेन मुक्ताजालेन-मुक्ताफलमयेन दामसमूहेन एकैकेन मणिजालेन मणिमयेन द्रामसमूहेनएकैकेन कनकजालेन' कनकं-पीतरूपःसुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रत्नजालेन-रलमयदामसमूहेन, अत्रस्थलजातामणयो जलजातानिरत्नानीति रलमण्योर्भेदः, एकैकेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन, सर्वतः समन्तादिति प्राग्वत्, संपरिक्षिप्ता, एतानि च दामरूपाणि हेमजालादीनि जालानिलम्बमानानि वेदित०, तथा च आह
__ 'तेणं जाला' इति, अत्र पुंस्त्वनिर्देशः प्राकृतत्वात्तेन तानि जालानि तपनीयम्-आरक्तं सुवर्णं तन्मयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानी तथा, पार्श्वतः सामस्त्येन सुवर्णस्य प्रतरकेण--पत्रेपा मण्डितानि, अन्तरा अन्तरा लम्बमानहेमपत्रकालङ्कृतानि, तथा नानारूपाणां-जातिभेदेनानेकप्रकाराणांमणीनारलानांच ये विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा, ईषत्-मनाक् अनोयऽन्यंपरस्परसम्प्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैर्वातैर्मन्दायं मन्दायमिति-मन्दं मन्दं एज्यमानानि-कम्प्यमानानि "मृशाभीक्ष्णयाविच्छेदे द्विप्राक्तमबादे" रित्यविच्छेदे द्विर्वचनं यथा पचति पचतीत्यत्र, एवमत्तरत्रापि, ईषत्कम्पनवशात्प्रकर्षत इतस्ततोमनाक्चलनेन लम्बमानानि २, ततः परसंपरंसम्पर्कवशतः ‘पझंझमाणा पझंझमाणा' इतिशब्दायमानानि २, उदारेण-स्फारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org