________________
२७४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२२ अंगयाइंतुडिआइंकडयाइंदसमुद्दि-आनंतगं कडिसुत्तगंवेअच्छगसुत्तगंमुरविंकंठमुरविंकुण्डलाई चूडामणिचित्तरयणुक्कडं ति, अत्र व्याख्या गन्धकाषायिक्या-सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया इति गम्यं, गात्राणि-भरतशरीरावयवान् रूक्षयन्ति, रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पन्ति, अनुलिप्य च देवदूष्ययुगलं निवासयन्ति-परिधापन्यीति योगः, कथम्भूतमित्याह-नासिकानिश्वासवातेन बाह्यं-दूरापनेयं श्लक्ष्णतरमित्यर्थः,
अयमर्थ-आस्तां महावातःनासावातोऽपिस्वबलेनतद्वस्त्रयुगलं अन्यत्र प्रापयति, चक्षुहरं रूपातिशयत्वात् अथवा चक्षुर्द्धर-चक्षुरधकं घनत्वात्, अतिशायिना वर्णेन स्पर्शेन च युक्तं हयलाला-अश्वमुखजलं तस्मादपि पेलवं-कोमल-मतिरेकेण-अतिशयेन अतिविशिष्टमुदुत्वलघुत्वगुणोपेतमिति भावः धवलं प्रतीतं कनकेन खचितानि-विच्छुरितानि अन्तकर्माणिअञ्चलयोनिलक्षणानि यस्य तत् तथा आकाशस्फटिको नाम-अतिस्वच्छस्फटिकविशेषस्तत्सद्दशप्रभंअहतं दिव्यं निवास्यच हारं पिनह्यन्ति ते देवाश्चक्रिणः कण्ठपीठे बजन्ति।
एव मितिएतेनाभिलापेनार्द्धहारादीनिवाच्यानियावन्मुकुटमिति, तत्रहारार्द्धहारौप्रतीती, एकावली प्राग्वत्, मुक्तावली-मुक्ताफलमयीकनकावली-कनकमणिमयी रलावली-रलमयी प्रालम्बः-तपनीयमयो विचित्रमणिरलभक्तिचित्र आत्मप्रमाण आभरणविशेषः अङ्गदे त्रुटिके चप्राग्वत् कटके प्रसिद्ध दशमुद्रिकानन्तकं-हस्तांगुलिमुद्रादशकं कटिसूत्रकं-पुरुषकट्याभरणं वैकक्ष्यसूत्रकं-उत्तरासङ्गंपरिधानीयं-शृङ्खलकंमुरवी-मृदङ्गाकारमाभरणं कण्ठमुरवी कण्ठासनं तदेव कुण्डले व्यक्ते चूडामणि प्राग्वत् चित्ररत्नोत्कटं-विचित्ररलोपेतं मुकुटं व्यक्त।
'तयनंतरचणंददरमलय'इत्यादि, तदनन्तरंदर्दरमलयसम्बन्धिनोये सुगन्धाः-शोभनवासास्तेषां गन्धः-शुभपरिमलो येषु ते तथा तैर्गन्धैः-काश्मीरकर्पूरकस्तूरीप्रमृतिगन्धवद्रव्यैः प्रकरणाद्रसभावमापादितैरभ्युक्षन्ति-सिञ्चन्ति ते देवा भरतं, कोऽर्थ ?-अनेकसुरभिद्रव्यमिश्रघुसृणरसच्छटकान् कुर्वन्ति, भरतवाससीति भावः, कचित् 'सुगन्धगन्धिएहिं गन्धएहिं भुकुडंति' इति पाठस्तत्र भूकुडंतीति-उद्ध्लयन्ति, गन्धैः सुरभिचूर्ण-सुरभिचूर्णं भरतोपरिक्षिपन्ति दिव्यंचः समुच्चयेसुमनोदाम-कुसुममाला पिनह्यन्ति, किंबहुना? उक्तेनेति गम्यं, "गंढिमवेढिम यावत्पदात् 'पूरिमसंघाइमेणं चउब्विहेणं मल्लेणं कप्परुक्खयंपिव समलंकिय'त्ति ग्राह्यं, अतर व्याख्या-ग्रन्थनं ग्रन्थस्तेन निवृत्तं ग्रन्थिमं,मावादिमप्रत्ययः, यत् सूत्रादिना ग्रथ्यतेतद् ग्रन्थिममिति भावः, अथितंसद्वेष्टयतेयत्तद्वेष्टिमं, यथा पुष्पलंबूसकोगेन्दुक इत्यर्थः,पूरिमंयेनवंशशलादिमयपञ्जरादि पूर्यते संघातिमं यत्परस्परतो नालं संघात्यते, एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवालङ्कृतविभूषितं भरतचक्रिणं कुर्वन्ति ते देवाः । अथ कृताभिषेको यच्चक्रे तदाह
'तएण'मित्यादि, ततः स भरतो राजा महतार अतिशायिना राज्याभिषेकेणाभिषिक्तः सन् कौटुम्बिकपुरुषान् शब्दयदि शब्दयित्वा चैवमवादीत्, तदेवाह-क्षिप्रमेव भो देवानुप्रिया ! यूयं हस्तिस्कन्धवरगताः विनीतायाः राजधान्याः शृङ्गाटकत्रिकचतुष्कचत्वरादिषुप्राग्व्याख्यातेषु आस्पदेषु महता २ शब्देनोदघोषयन्तो-जल्पन्तो जल्पन्तः, अत्र शत्रन्तस्यापि अविवक्षणान्न कर्मनिर्देशः,आभीक्ष्णये द्विवचनं, उच्छुल्कंयावद्वादश संवत्सराः कालोमानं यस्यातीति द्वादशसंवत्सरिकस्तंप्रमोदहेतुत्वात्प्रमोदः उत्सवस्तं घोषयतघोषयित्वाचममैतामाज्ञप्तिकांप्रत्यर्पयत,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org