________________
वक्षस्कारः -३
२७३
ततस्तैः पूर्वोक्तैः स्वाभाविकैरुत्तरवैक्रियैश्च वरकमले आधारभूतै प्रतिष्ठान-स्थितिर्येषां तेतथातैः सुरभिवरवारिप्रतिपूर्ण, अत्र 'चंदणकयवच्चएहिंआविद्धकंठेगुणेहिं पउमुष्पलपिहाणेहिं करयलपरिग्गहिएहिं अट्ठसहस्सेणंसोवण्णिअखलसाणंजाव असहस्सेणंभोमेजाणमित्यादिको ग्रन्थो यावत्पदसंग्राह्य उत्तरत्र जिनजन्माभिषेकप्रकरणे व्याख्यास्यते तत्रास्य साक्षाद्दर्शितत्वात्, वाक्यसङ्गत्यर्थंच करणक्रियाविभागोदय॑ते, उक्तविशेषणविशिष्टः कलशैः सर्वोदकसर्वमृत्सऊषधिप्रभृतिवस्तुभिर्महता२-गरीयसार राज्याभिषेकेणाभिषिञ्चन्ति, अभिषेको यथा विजयस्य जीवाभिगमोपाङ्गे उक्तस्तथाऽत्र बोद्धव्यः, अभिषिच्य च प्रत्येकं २ प्रतिनृपंयावत्पदात् 'करयलपरिग्गहिअंसिरसावत्तं मत्थए' इति ग्राह्यं, अंजलिं कृत्वा ताभिरिष्टाभिः अत्रापि कंताहिं जाव वग्गूहिं अभिनंदता य अभिथुणता य एवं वयासी-जय २ नंदा जय जय भद्दा ! भदं ते अजिअं जिणाहि' इत्यादिको ग्रन्थस्तथा ग्राह्यो यथा विनीतां प्रविशतो भरतस्यार्थिप्रमुखयाचकजनैराशीरित्यर्थाद्गम्यंभणिता, कियत्पर्यन्तमित्याह-यावद्विहरेतिकृत्वाजय२ शब्दं प्रयुञ्जन्ति, नन्वत्रसूत्रेऽभिषेकसूत्रंजीवाभिगमगतविजयदेवाभिषेकसूत्रातिदेशेनोक्तं, साम्प्रतीनतदीयादशेषु च 'अट्ठसएणं सोवण्णिअकलसाण मित्यादि दृश्यते, अत्र च वृत्ती 'अट्ठसहस्सेणं सोवण्णिअकलसाण' मित्यादि दर्शितं तत्कथमनयोर्नविरोधः?, उच्यते, जीवाभिगमवृत्तीतानेव विभागतो दर्शयति, अष्टसहस्रेण सौवर्णिकानां कलशानामष्टसहस्राणरूप्य०अष्टसहस्रेणमणिमयानामित्यादिपाठाशयेनात्र लिखितत्वान्न दोषः, यदिचात्र कलशानामष्टोत्तरशतसङ्ख्यास्यात्तदातत्रैव सर्वसङ्ख्यया अष्टभिः सहप्रेरित्युत्तरग्रन्थोऽपि नोपपघेत, किं च-दृश्यमानतत्सूत्रे विकुर्वणाधिकारे अट्ठसहस्सं सोवण्णिअकलसाणं जाव भोमेजाणमित्यादि, अभिषेकक्षणे तु अट्टसएणं सोवण्णिअकलसाणमित्यादीत्यपि विचार्य । अथ शेषपरिच्छदाभिषेकवक्तव्यतामाह -
'तए णमित्यादि, ततो-द्वात्रिंशद्राजसहसभिषेकानन्तरं भरतं राजानं सेनापतिरलं यावत्पदात् गाहावइरयणे वड्डइरयणे इति ग्राह्यं, गृहपतिवर्द्धकिपुरोहितरत्लानि त्रीणि च षष्टानि-षष्ट्यधिकानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावच्छब्दात्रराजेश्वरादिपरिग्रहः, ततोराजेश्वरतलवरमाडम्बिअकौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहप्रभृतय एवमेवराजान इवाभिषिञ्चन्ति, तैर्वरकमलप्रतिष्ठानैस्तथैव कलशविशेषणादिकं ज्ञेयं, यावदभिनन्दन्ति अभिष्टुवन्ति च, ततः षोडशदेवसहस्राः एवमेव-उक्तन्यायेनाभिषिञ्चन्ति, यत्तुआभियोगिकसुराणां चरमोऽभिषेकः तद्भरतस्य मनुष्येन्द्रत्वेन मनुष्याधिकारान्मनुष्यकृताभिषेकानन्तरभावित्वेनेति बोध्यं, यद्वा देवानां चिन्तितमात्रतदात्वसिद्धिकारकत्वेन पर्यन्ते तथाविधोत्कृष्टाभिषेकविधानार्थमिति, ऋषभचरित्रादौ तु पूर्वमपि देवानामभिषेकोऽभिहित इति, अत्र यो विशेषस्तमाह-'नवर मिति, अयं विशेषः- आभियोगिकसुराणामपरेभ्योऽभिषेचकेभ्यः पक्ष्मलया-पक्ष्मवत्या सुकुमारया च अत्र यावतद्पदग्राह्यमिदं 'गन्धकासाइआए गायाई लूहेंति सरसगोसीसचन्दणेणं गायाई अमुलिंपतिर तानासाणीसासवायवोझंचखुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगंधवलं कणगखइ-अंतकम्मंआगासफलिहसरिसप्प अहयंदिव्वंदेवदूसजुअलं निअंसावेंति २ त्ता हारं पिणद्धेति २ त्ता एवं अद्धहारं एगावलि मुत्तावलिं रयणावलिं पालम्बं [13] 18
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org