________________
वक्षस्कारः-३
२७१
औदारिकास्ते च वैक्रियसमुदघाते कथं ग्रहणार्हा ? उच्यते, इह रत्नादिग्रहणं पुदगलानां सारतामात्रप्रतिपादनार्थ, नतु तदीयपुदग्रहणार्थं, ततो रत्नादीनामिवेति द्रष्टव्यं, अथवा औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात्तथातथापरिणमनभावादतोनकश्चिद्दोष इति, पूर्ववैक्रियसमुदधातस्यजीवप्रयत्नरूपत्वेन क्रमक्रममन्दमन्दतरभावापन्नत्वेनक्षीणशक्तिकत्वात्इष्टकार्यासिद्धेः,अथसमभूमागेतेयच्चकुस्तदाह--'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेअत्रमहान्तमेकमभिषेकमण्डपं विकुर्वन्ति अनेकस्तम्भशतसन्निविष्टं यावत्पदात् राजप्रश्नीयोपाङ्गगतसूर्याभदेवयानविमानवर्णको ग्राह्यः, सच कियत्पर्यन्तमित्याह-यावत् गन्धवर्ततिभूतमिति विशेषणं, अत एव सूत्रकृदेव साक्षादाहप्रेक्षागृहमण्डपवर्णको ग्राह्य इति, एतत्सूत्रव्याख्ये सिद्धायतनादिवर्णके प्राग्दर्शिते इति नेहोच्येते, 'तस्स 'मित्यादि, तस्याभिषेकमण्डपस्य बहुमध्यदेशभागे अत्र-अस्मिन् देशे महान्तमेकमभिषेकपीठं विकुर्वन्ति अच्छं अस्तरजस्कत्वात् श्लक्ष्णं सूक्ष्मपुदगलनिर्मितत्वात् ।
'तस्स णमित्यादि, वापीत्रिसोपानप्रतिरूपकवर्णकवदत्रवर्णव्यासो ज्ञेयःयावत्तोरणवर्णनं अथाभिषेकपीठभूमिवर्णनादि प्रतिपादयत्राह-'तस्सण'मित्यादि, त्याभिषेकपीठस्य बहुसमरमणीयो भूमिभागःप्रज्ञप्तः, तस्यसमभूभागस्य मध्ये एकंमहसिंहासनविकुर्वन्तितस्यवर्णकव्यासो विजयदेवसिंहासनस्येव ज्ञेयः यावद्दाम्नां वर्णको यत्र तद्दाम वर्णकं सम्पूर्णसमस्तं सूत्रं वाच्यमिति शेषः, एनमेवार्थ निगमयत्राह- 'तएण'मित्यादि, ततो-भरताज्ञानन्तरं ते देवा उक्तविशेषणविशिषटमभिषेकमण्डपं विकुर्वन्ति विकुळच यत्रैव भरतो राजायावत्पदात् 'तेणेव उवागच्छन्ति २ एअमाणत्ति इति ग्राह्यं, 'तएणमित्यादि, व्यक्तं, अर्थतत्समयोचितं भरतकृत्यमाह
_ 'तए णमित्यादि, प्राग्वत्, 'तए ण मिति ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरलमारूढस्य सत इमान्यष्टावष्टी मङ्गलकानि पुरतः सम्प्रस्थितानीति शेषः, अथ ग्रन्थलाघवार्थमतिदिशति-य एवगमो विनीतां प्रविशतः स एव तस्य निष्कामतोऽपि भरतस्य, कियदन्तमित्याह-यावदप्रतिबुद्धयन् २ विनीतां राजधानी मध्यंमध्येन निर्गच्छति, शेषं व्यक्तं, ततः किं चक्रेइत्याह- 'पच्चोरुहित्ताइत्थीरयणेण'मित्यादि, ततः स भरतो राजास्त्ररत्नेन सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहस्र द्वात्रिंशता जनपदकल्याणि: कासहनैः द्वात्रिंशता द्वात्रिंशदर्थैर्नाटकसहन सार्द्ध संपरिवृतोऽभिषे. कमण्डपमनुप्रविशति अनुप्रविश्य च यत्रैवाभिषेकपीठं तत्रैवोपागच्छति उपागत्य चाभिषेकपीठ- मनुप्रदक्षिणीकुर्वन् २ “स्वामिष्टे भक्तजनः' प्रमोदतेतरा मितिआभियोगिकसुरमनस्तुष्टयुत्पाद-नहेतोरित्थमेव सृष्टिक्रमाचपौरस्त्येन त्रिसोपानकप्रतिरूपकेण आरोहति, आरुह्य च यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च पूर्वाभिमुखः सन्निषण्णः-सम्यग्यथौचित्येनोपविष्टः,अथानुचराराजादयोयथोपचेरु-स्तथाऽऽह
'तएणमित्यादि, ततस्तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि यत्रैवाभिषेकमण्डपःतत्रैवोपुगच्छतीत्यादिव्यक्तं, नवरमभिषेकपीठंअनुप्रदक्षिणीकुर्वन्तः २उत्तरतआरोहतांप्रदक्षिणाकरणेनैव सृष्टिक्रमस्य जायमानत्वात्, 'तए णमित्यादि पाठसिद्धं, तए णमित्यादि ततः स भरतो राजाआभियोग्यान् देवान्शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानुप्रिया! मम महान् अर्थो-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स तथा तं महान् अर्ध-पूजा यत्र स तथा तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org