________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / १२२
'अभिजिए ण 'मित्यादि, अभिजितं मया निजकबलवीर्यपुरुषकारपराक्रमेण क्षुल्लहिमवद्गिरसा गरमर्यादया केवलकल्पं भरतं वर्ष तच्छ्रेयः खलु ममात्मानं महाराज्याभिषेकेणाभिषेचयितुं - अभिषेकं कारयितुं इति कृत्वा - भरतं जितमिति विचार्य एवं सम्प्रेक्षते - राज्याभिषेकं विचारयति, अथैतद्विचारोत्तरकालीनकार्यमाह - 'संपेहित्ता' इत्यादि, व्यक्तं, सिंहासने निषद्य यच्चक्रे तदाह- 'निसीइत्ता' इत्यादि, कण्ठ्यं, किमवादीदित्याह - 'अभिजिएण' मित्यादि, अभिजितं मया देवानुप्रिया ! निजकबलवीर्यपुरुषकारपराक्रमेण क्षुद्रहिमवदिरिसागरमर्यादया केवलकल्पं भरतं वर्षं तद्यूयं देवानुप्रिया ! मम महाराज्याभिषेकं वितरत दत्त कुरुतेत्यर्थः, आवश्यकचूण्यार्दी तु भक्त्या सुरनरास्तं महाराज्याभिषेकाय विज्ञपयामासुर्भरतश्च तदनुमेने, अस्ति हि अयं विधेयजनव्यवहारो यठप्रभूणां समयसेवाविधी ते स्वयमेवोपतिष्ठन्ते, सत्यप्येवंविधे कल्पे यदरतस्यात्रानुचरसुरदानामभिषेकज्ञापनमुक्तं तद् गम्भीरार्थकत्वादस्माध्शां मन्दमेघसामनाकलनीयमिति ।
२७०
अथ यथा ते अङ्गीचक्रुस्तथाह - 'तएण 'मित्यादि, ततस्ते षोडश देवसहस्र यावतशब्दात् द्वात्रिंशद्राजसहस्रादिपरिग्रहः यावद्राजेश्वरतलवरादिसार्थवाहप्रभृतयः इति, भरतेन राज्ञा इत्युक्ताः सन्तो 'हट्ठट्ठ' त्ति इहैकदेशदर्शनमपि पूर्णतदधिकारसूत्रदर्शकं तेन हट्ठतुट्ठचित्तमाणंदिआ इत्यादिपदानि ज्ञेयानि, करतलपरिगृहीतं दशनखं शिरस्यावत्तं मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञः एतं - अनन्तरोदितमर्थं सम्यग् - विनयेन प्रतिशृण्वन्ति-अङ्गीकुर्वन्ति, अथ 'जलाल्लाब्धात्मलाभा कृषिर्जलेनैव वर्द्धत' इति ज्ञातात्तपसाऽऽप्तं राज्य तपसैवामिनन्दतीति चेतसि चिन्तयन् भरतो यदुपचक्रमे तदाह- 'तएण 'मित्यादि, प्राग्वत्, ततः स भरतोऽष्टमभक्ते परिणमति सति आभियोग्यान् देवान् शब्दयति शब्दयित्वा च एवमवादीत्, – 'खिप्पामेव ' त्ति क्षिप्रमेव भो देवानुप्रिया ! विनीताया राजधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थः तस्यात्यन्तप्रशस्तत्वात्, अभिषेकाय मण्डपः अभिषेकमण्डपस्तं विकुर्वत विकुर्व्य च मम एतामाज्ञप्तिं प्रत्यर्पयत,
'तएण 'मित्यादि, ततस्ते आभियोग्या देवा भरतेन राज्ञा एवमुक्ताः सन्तो हष्टतुष्टादिपदानि प्राग्वत् एवं स्वामिन्! यथैव यूयमादिशत आज्ञया - स्वामिपादानामनुसारेण कुर्म्म इत्येवंरूपेण विनयेन वचनं प्रतिश्रृण्वन्ति - अभ्युपगच्छन्ति, 'पडिसुणित्ता' इत्यादि, प्रतिश्रुत्य च विनीताया राजधान्या उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति - गच्छन्ति, अपक्रम्य च वैक्रियसमुदघातेनउत्तरवैक्रियकरणार्थकप्रयत्नविशेषेण समवघ्नन्ति - आत्मप्रदेशान् दूरतो विक्षिपन्ति, तत्स्वरूपमेव व्यनक्ति सङ्घयेयानि योजनानि दण्ड इव दण्डः - ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशस्तं निसृजन्ति - शरीरादहिर्निष्काशयन्ति निसृज्य च तथाविधान् पुदगलान् आददते इति एतदेव दर्शयति, तद्यथा - रत्नानां - कर्केतनादीनां यावत्पदात्, 'वइराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगन्धिआणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरूवाणं अंकाणं फलिहाण 'मिति संग्रहः, रिट्ठाणमिति साक्षादुपात्तं, एतेषां सम्बन्धिनो यथाबादरान्- असारान् पुद्गलान् परिशातयन्ति-त्यजन्ति यथासूक्ष्मान् - सारान् पुदलान् पर्याददते-गृहन्ति पर्यादाय च चिकीर्षितनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवघ्नन्ति, समवहत्य च बहुसमरमणीयं भूमिभागं विकुर्वन्ति, तद्यथा
'से जहानामए आलिंगपुक्खरेइ वा' इत्यादि, सूत्रतोऽर्थतश्च प्राग्वत्, ननु रत्नादीनां पुदगला
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International