________________
वक्षस्कारः - ३
२३१
बहुषु समरेषु सम्परायेषु, अनेन चातिभयानकत्वं सूचितं, समयरूपेषु संपरायेषु - युद्धेषु लब्धलक्षा- अमोधहस्ताश्चाप्य भवन्, सामान्यतो युद्धेषु च वल्गनादिरूपेषु केचन लब्धलक्षा भवेयुः परं तदव्यवच्छेदाय समरेष्वित्युक्तं, अथ यत्तेषां मंडले जातं तदाह-- 'तए ण' मित्यादि, तत इति-कथान्तरप्रबन्धे तेषामापातकिरातानां अन्यदा कदाचित् - चक्रवत्यार्गमनकालात्पूर्वं, अत्र तेषामित्येतावतैवोक्तेन प्रकरणाद् विशेष्यप्राप्तौ यदापातकिरातानामित्युक्तं तद्विस्मरणशीलानां विनेयानां व्युत्पादनायेति, विषये देशे बहूनि औत्पातिकशतानि - उत्पातसत्कशतानि, अरिष्ठसूचकनिमित्तशतानीत्यर्थः, प्रादुरभूवन् - प्रकटीबभूवुः, तद्यथा-अकाले प्रावृट् कालव्यतिरिक्तकाले गर्जितं अकाले विद्युतः अकाले-स्वस्वपुष्पकालव्यतिरिक्तकाले पादपाः पुष्यन्ति अभीक्ष्णं २- पुनः २ आकाशे देवता भूतविशेषा नृत्यन्ति, अथ ते किं चक्रुरित्याह-
'तए ण' मित्यादि, ततः - उत्पातभवानन्तरं ते आपातकिराता विषये बहूनि औत्पादिकशतानि प्रादुर्भूतानि पश्यन्ति, द्दष्ट्वा चान्योऽन्यं शब्दयन्ति - आकारयन्ति, शब्दयित्वा चैवमवादिषुः, किमवादिषुः की शाश्च तेऽभूवन्नित्याह- 'एवं खलु' इत्यादि, एवं वक्ष्यमाणप्रकारेण खलुर्निश्चये देवानुप्रिया - ऋजुस्वभावा अस्माकं विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि, तद्यथा - अकाले गर्जितं इत्यादि प्राग्वत्, तन्न ज्ञायते देवानुप्रिया ! अस्माकं विषयस्य को मन्ये इति वितर्कार्थे निपातः तेन मन्ये इति सम्भावयामः उपद्रवो भविष्यति इतिकृत्वा अपहतमनःसंकल्पा– विमनस्काः चिन्तया--राज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तं विमनस्काः चिन्तया - राज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तं-निवेशितं मुखं यैस्ते तथा आर्त्तध्यानोपगताः भूमिगत दृष्टिका ध्यायन्ति, आपतिते सङ्कटे किं कर्त्तव्यमिति चिन्तयन्तीति, अथ प्रस्तूयमानं भरतस्य चरितमाह
.
--
'तए ण' मित्यादि, ततस्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररत्नादेशितमार्गो यावत् समुद्ररवभूतामिव गुहां कुर्वन् २ तमिनागुहातः औत्तराहेण द्वारेण निरेति-निर्यादि शशीव मेघान्ध- कारनिवहात् । 'तए णं०' ततो गुहातो निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीकं - सैन्याग्रभागं 'एजमाणंति इयत्, आगच्छत् पश्यति दृष्ट्वा च आसुरुत्ता इत्यादि पदपंचकं प्राग्वत् अन्योऽन्यं शब्दयन्ति शब्दयित्वा चैवमवादिषुरिति, तए णं' एष देवानुप्रियाः ! कश्चिदज्ञातनामकोऽप्रार्थितप्रार्थकादिविशेषणविशिष्टो वर्त्तते योऽस्माकं विषयस्य- देशस्योपरि वीर्येणात्मशक्या 'हव्वं 'ति शीघ्रमागच्छति, तत्तस्मात्तथा णमिति - इमं भरतराजानमित्यर्थ 'धत्तामो' त्ति क्षिपामो दिशो दिशि विकीर्णसैन्यं कुर्म्म इत्यर्थः, यथा एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत्, सूत्रे सप्तम्यर्थे वर्त्तमानानिर्द्देसः एतस्मिन् समये किं जात मित्याह
MA
'इतिकट्टु' इत्यादि, इति - अनन्तरोदितं कृत्वा - विचिन्त्यान्योऽन्यस्यान्तिके एतमर्थं प्रतिश्रृण्वन्ति - ओमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सत्रद्दबद्धेत्यादिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽग्रानीकं तत्रैवोपागच्छन्ति, उपागत्य च भरतस्य राज्ञोऽग्रानीकेन सार्धं संप्रलग्नाश्चाप्यभूवन्, योद्धमिति शेषः, युद्धाय प्रवृत्ता इत्यर्थः, अथ ते किं कुर्वन्तीत्याह- 'ते णं ते आवाडचिलाया' इत्यादि, ततो युद्धप्रवृत्यनन्तरं ते आपातकिराता भरतस्य राज्ञोऽग्रानीकं हताः केचन प्राणत्याजनेन मथिताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org