________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/१ पाङ्गप्रसिद्धः समस्तोऽपि वर्णको द्रष्टव्यः अत्रालिखनं तुग्रन्थगौरवमयादिति ।
__ तस्याः णमितिपूर्ववत्, मिथिलाया नगर्या बहिस्तात् उत्तरपौरस्त्ये-उत्तरापूर्वान्तरालरूपे दिग्भागईशानकोण इत्यर्थः, अत्र एकारो मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा-'कयरे
आगच्छइ दित्तरूवे' इत्यादी, अत्र' अस्मिन्नुत्तरपौरस्त्ये दिग्विभागे माणिभद्रं नाम चैत्यमभवत्, चितेः-लेप्यादिचयनस्य भावः कर्मवाचैत्यं, तच संज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचाराच्चैत्यमुच्यते, तच्चेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामर्हतामायतनं, तस्य च चिरातीतपित्यादिवर्णकस्तत्परिक्षेपिवनखण्डवर्णकसहित औपपातिकतोऽवसेयः, तस्यांमिथिलायां नगर्यां जितशत्रुर्नाम राजा, तस्यसकलस्त्रीगुणधारिणीधारिणी नामा देवी, कृताभिषेका पट्टराझी इत्यर्थः, उभयत्राप्यभवदिति शेषः, 'वण्णओ'त्ति अत्र राज्ञो 'महयाहिमवन्तमहन्ते'त्यादिको राझ्याश्च 'सुकुमालपाणिपाये' त्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः । अथात्र यज्जातंतदाह-'तेणंकालेणं० तिपूर्ववत्, स्वामीति समर्थविशेषणं विशेष्यमाक्षिपतितेनात्र श्रीमन्महावीरः समवसृत इत्यर्थः,आत्यन्तिकं स्वामित्वंतस्यैव त्रिभुवनविभोरिति, अत्र च यथा निष्प्रतिमप्रातिहार्यादिसमृद्धया समन्वितो यथा च श्रमणादिपरिवारेण परिवृतः यथा च समवसरणवर्णकं तथौपपातिकग्रन्थादवसेयं । ____ पनिर्गता-मिथिलायानगर्या वास्तव्योजनः समस्तोऽपिभगवन्तमागतं श्रुत्वाविवन्दिषया स्वस्मात् स्वस्मात् आश्रयाद्विनिर्गत इत्यर्थः, 'तएणं मिहिलाए नयरीए सिंघाडगे'त्यादिकं जाव पंजलिउडा पजुवासंतीति पर्यन्तमौपपातिकगतमवगन्तव्यं ।
तस्याः पर्षदः पुरतो निशेषजनभाषापरिणामिन्याऽर्द्धभागधभाषया धर्म कथितः, स चैवं-“अस्थि लोए अस्थि अलोए अस्थि जीवा अस्थि अजीवा" इत्यादि तथा॥१॥ "जह जीवा बझंती मुखंती जहय संकिलिस्संति ।
जह दुक्खाणं अंतं करेंति केई अपडिबद्धा॥ ॥२॥ अट्टदुहट्टियचित्ता जह जीवा दुक्खसागरमुर्विति ।
जह वेरग्गमुवगया कम्मसमुग्गं विहाडेति ॥ जह रागेण कडाणं कम्माणं पावओ फलविवागो।
जह य परिहीणकमा सिद्धा सिद्धालयमुर्विति ।। तहाआइक्खति"त्तिपर्षत्प्रतिगतास्वस्थानंगता, प्रतिगमनसूत्रमपितएणंसामहइम० परिसा' इत्यादि तामेव दिसंपडिगया' इति पर्यन्तं तत एवोपाडादवगन्तव्यमिति। , अथ पर्षतप्रतिगमनानन्तरं यज्जातं तदाह
मू. (२) तेणं कालेणं तेणं समाएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदमूई नाम अनगारे गौअमगोत्तेणं सत्तुस्सेहे समचररंससंठाणे जाव एवं वयासी
इ. 'तेणं कालेणं'ति तस्मिन् काले-भगवतो धर्मदेशनाव्युपरमकाले तस्मिन् समयेपर्षअतिगमनावसरे श्राम्यति-तपस्यति नानाविधमिति श्रमणस्तस्य भगः-समग्रैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान्तस्य 'शूरवीर विक्रान्तौ वीरयति कषायान् ग्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तस्य ज्येष्ठः-प्रथमः अन्तेवासी-शिष्यः, अनेन पदद्वयेन तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org