________________
वक्षस्कार :- १
तौ विना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥ मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे ।। इति
१७
॥ ४ ॥
तदेवं सर्वं वस्तु नामादिचतुष्टयात्मकमेव, तेनात्र नामस्थापनाद्रव्यभावार्हन्त-श्चत्वारोऽपि नमस्कार्या एवेत्यागतमिति ।
अत्र कश्चिदग्राह्यनामधेयो भक्षितलशुनपिशुनभूतमुद्गिरति - भवतु नाम वाच्यवाचकभावसम्बन्धेन भावसन्निहितत्वान्नाम्नो नमस्कार्यत्वं, स्थापनायास्तु भावविप्रकृष्टत्वेन तत्कथमिति चेत्, उच्यते, तस्या अपि जिनबुद्धयुत्पादकत्वादिभिर्हेतुभिः सुतरां भावासन्नत्वान्नमस्कार्यत्वमुपपन्नमिति मा मुग्ध मुधाऽनन्ततीर्थकृदनुज्ञातस्थापनाऽपलापपापपङ्किलतां कलय, कलयसि न किं स्थापनाद्रोणाचार्यसम्यग्विनयोपनतां जगदतिशायिनीमर्जुनसन्तर्जनीं धनुर्वेदसिद्धिं, तथा चप्रतिक्रमणादौ वन्दनकप्रदाने रजोहरणादिकं गुरुचरणतया व्यपदिशसि स्थापनानिक्षेपं चापलपसि अहो वददव्याघातस्तव, अपिच-चित्रार्पितनिजजनकवदनमुपानद्भ्यां ग्रहरते नराय कुप्यसि चित्रन्यस्तकुम्भस्तनीं निध्यायन् ध्प्यसि मिध्यावादं कुर्वस्तथापि न तृप्यसि.
किमपराद्धं तव पुरुषधुरन्धरस्थापनया ?, तथा वदामि सुहृद्भावेन - भावकारणतया द्रव्यमपि स्वीकुरु नमस्कार्यतया, अन्यथा पद्मनाभादीन् द्रव्यजिनान् नम स्कुर्वतः द्रव्यनृपं च भावी राजेतिबुद्धया उपचरतश्च तवार्द्धनारीश्वरवेषविडम्बना समापतिता, तेन त्यज टिट्टिभमानं भज श्रीजिनाज्ञा सबहुमानं, ततस्तवापि युक्तियुक्तं सर्वेषामर्हनिक्षेपाणां नमस्कार्यत्वमित्यलं प्रसङ्गेन, अथ प्रकृतं प्रस्तुमः, उक्तः सूत्रस्पर्शिकनिर्युक्त्यनुगमः, तदेवं मङ्गलसूत्रमधिकृत्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकनिर्युक्त्यनुगमनया उपदर्शिताः, एवं प्रतिसूत्रं स्वयमनुसरणीयं ।
अथ यस्यां नगर्यां यस्मिन्नुद्याने यथा भगवान् गौतमस्वामी भगवतः श्रीमन्महावीरस्यान्ते पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपोद्घातमुपदिदर्शयिषुरिदमाह - 'तेणं’ति, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो - यदा भगवान् विहरति स्म तस्मिन्निति 'काले' वर्त्तमानावसर्पिणीचतुर्थारकविभागरूपे, उभयत्रापि णमिति वाक्यालङ्कारे, अथवा सप्तम्यर्थे तृतीया आर्षत्वात् यदाहुः श्रीहेमसूरिपादाः, "आर्षे तृतीयापि दृश्यते - तेणं कालेणं तेणं समएणं, तस्मिन् काले तस्मिन् समये इत्यर्थः । ' तेणं समएणं' ति समयोऽवसरवाची, तथा च लोके वक्तारो - नाद्याप्येतस्य समयो वर्त्तते, नास्त्यस्यावसर इत्यर्थः, तस्मिन्निति यस्मिन् समये भगवान् प्रस्तुतां जम्बूद्वीपवक्तव्यतामचकथत् तस्मिन् समये मिथिला नाम नगरी अभवत्, नन्विदानीमपि सागरी वर्तते ततः कथमुक्तमभवदिति उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमेता तदैवाभवत् नतु विवक्षितप्रकरणकर्तु प्रकरणपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक् सम्प्रति अस्या नगर्यां वर्णकमाह
‘रिद्धत्थिमियसमिद्ध’त्तिॠद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधूच् वृद्धा' वितिवचनात्, स्तिमिता-स्वचक्रपरचक्रादिसमुत्थभयकल्लोलमालावर्जिता, समृद्धा - धनधान्यादिविभूति युक्ता, ततः पदत्रयस्य कर्मधारयः, 'वण्णओ'त्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिको
13 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org