________________
१९२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६०
॥१॥ "कुंभार १ पट्टइल्ला २ सुवण्णकारा य ३ सूवकाराय४।
गंधव्वा ५ कासवगा ६ मालाकाराय७कच्छकरा ८॥ ॥२॥ तंबोलिआ ९ य एए नवप्पयारा य नारुआ भमिआ।
अहणं नवप्पयारे कारुअवण्णे पवखामि॥ ॥३॥ चम्मयरु १ जंतपीलग२ गंछिअ ३ छिपाय ४ कंसकारे य।
सीवग ६गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अट्ठदस ॥ चित्रकारादयस्तुएतेष्वेवान्तर्भवन्ति, अथपौरान्प्रति किमवादीदित्याह-खिप्पामेव'त्ति क्षिप्रमेव भो देवानुप्रियाश्चक्ररत्नस्याटानांअह्रांसमाहारोऽष्टाहं तदस्तियस्यांमहिमायांसा अथतिका तां महामहिमां कुरुतेत्यन्वयः, कृत्वा च मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयतेति, अथ क्रमेण विशेषणानि व्याकरोति-कीशी ?-उन्मुक्तं शुल्कं-विक्रेतव्यभाण्डं प्रति राजदेयं द्रव्यं यस्यां सा तथा तां, एवमुत्करां उत्कृष्टां च, करो गवादीन् प्रति प्रतिवर्षं राजदेयं द्रव्यं, कृष्टं तु-कर्षणं लभ्यग्रहणायाकर्षणं, अदेयां-विक्रयनिषेधेन अविद्यमानदातव्यां, न केनापिकस्यापिदेयमित्यर्थः, अमेयां-क्रयविक्रयनिषेधादेव अविद्यमानमातव्यां,अभटप्रवेशां-अविद्यमानो भटानां राजपुरुषानामाज्ञादायिनां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां, दण्डलभ्यं द्रव्यं दण्डः कुदण्डेन निवृत्तं कुदण्डिम-राजद्रव्यं तत्रास्ति यस्यां सा तथा तां
तत्रदण्डो यथापराधं राजग्राह्यद्रव्यं कुदण्डस्तु कारणिकानांप्रज्ञाद्यपराधात्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, अधरिमं न विद्यते धरिमं-ऋणद्रव्यं यस्यांसा तथा तां, उत्तमर्णाधमाभ्यांपरस्परंतदऋणार्थं न विवदनीयं किन्तु अस्मत्पाāद्युम्नंगृहीत्वा ऋणं मुत्कलनीयमित्यर्थः, गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथातां, अनेकेयेताला-चराः प्रेक्षाकारिविशेषास्तैरनुचरितां आसेवितां, 'अनुभृतां आनुरूप्येण यथामार्दङ्गिकविधि उद्धता-वादनार्थमुक्षिप्ता मृदङ्गा यस्यां सा तथा तां, अम्लानानि माल्यदामानि-पुष्पमाला यस्यां सा तथा तां, म्लानाः पुष्पमाला उत्सार्य नवा नवा आरोपणीया इत्यर्थः।
प्रमुदिता-हृष्टाः प्रक्रीडिताः-क्रीडितुमारब्धाः सपुरजना-अयोध्यावासिजनसहिताः जनपदा:-कोशलदेशवासिनो जना यत्र सा तथा तां, विजयवैजयिकी-अतिशयेन विजयो विजयविजयःस प्रयोजनं यस्यांसा तथा तां, इदमायुधरत्नं सम्यगाराधितं मदभिप्रेतं महाविजयं साधयतीत्यर्थः, 'प्रत्यये ङीर्वा' इति प्राकृतसूत्रेण जीविकल्पस्तेन विजयवेजइअमिति पाठः, कचिद्विजयवैजयन्तचक्क रयणस्सत्ति पाठस्तत्र विजयसूचिका वैजयन्तीति विजयवैजयन्ती साऽस्यास्तीति विजयवैजयन्तं विजयग्रहणे किमपि परं न मत्त उत्कृष्टमिति ध्वजबन्धं विधत्ते इत्यर्थः एतादृशं यच्चक्ररत्नंतस्याष्टाहिकामितिप्राग्वदितिअथ श्रेणिप्रश्रेणयो यच्चक्रुस्तदाह-'तए ण'मित्यादि सर्वं पाठसिद्धं । अथाष्टाहिकामहामहिमापरिसमाप्तयनन्तरं किमभूदित्याह
मू. (६१) तए णं से दिव्वे चक्क रयणे अट्टाहिआए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओपडिनिक्खमइ २ ताअंतलिक्खपडिवण्णेजक्खसहस्ससंपरिघुडे दिव्वतुडिअसइसण्णिणाएणं आपूरेते चेव अंबरतलं विनीआए रायहाणीए मज्झंमज्झेणं निग्गच्छइ २ ता गंगाए महानईए दाहिणिल्ले णं कूले णं पुरत्थिमं दिसिं मागहतित्थाभिमुहे पयाते आवि होत्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org