________________
वक्षस्कारः ३
१९१
,
कानि - मङ्गल्यवस्तूनि लिखति विन्यस्यत, अत्र चाद्यष्टेत वीप्सावचनात् प्रत्येकमष्टाविति ज्ञेयं, यद्वा अष्टेति सङ्ख्याशब्दः अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः, अष्टानामपि मङ्गलकानां, अथोक्तानामेव मङ्गलकानां व्यक्तितो नामानि कथयन् पुनर्विध्यन्तरमाह- 'तद्यथा स्वस्तिक' मित्यादि, व्याख्या तु प्राग्वत् अत्र द्वितीयालोपः इमान्यष्टमङ्गलकानि आलिख्य- आकारकरणेन कृत्वा - अन्तर्वर्णकादिभरणेन पूर्णानि कृत्वेत्यर्थः करोति उपचारं - उचितसेवामिति, तमेव व्यनक्ति-किन्ते इति तद्यथेत्यर्थे, तेन विवक्षित उपचारः उपन्यस्त इत्यर्थः, पाटलं - पाटलपुष्पं मल्लिका- विचकिलपुष्पं, यल्लोके वेलि इति प्रसिद्धं, चम्पकाशोकपुन्नागाः प्रतीताः चूतमञ्जरीआम्रमञ्जरी बकुल:- केसरो यः स्त्रमुखसीधुसिक्तो विकसति तत्पुष्पं, तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति तत्पुष्पं, कणवीरं कुन्दं च प्रतीते, कुब्जकं कूबो इति नाम्ना वृक्षविशेषस्ततपुष्पं, कोरण्टकं प्राग्वत्, पत्राणि - मरुबकपत्रादीनि दमनकः - स्पष्टः एतैर्वरसुरभिअत्यन्तसुरभि तथा सुगन्धाः- शोभनचूर्णास्तेषां गन्धो यत्र स तथा तद्धितलक्षण इक्प्रत्ययः, पश्चाद्विशेषणद्वयस्य कर्मधारयस्तस्य, तथा कचग्रहो - मैथुनसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तत्र्यायेन गृहीतस्तथा तदनन्तरं करतलाद्विप्रमुक्तः सन् प्रभ्रष्टः, प्राकृतत्वात्, पदव्यत्ययः, ततः पूर्वपदेन कर्मधारयस्तस्य, दशार्द्धवर्णस्य पञ्चवर्णस्य कुसुमनिकरस्य - पुष्पराशेः तत्र - चक्ररत्नपरिकरभूमी चित्रं - आश्चर्य- कारिणं जानूत्सेधप्रमाणेन - जानुं यावदुच्यत्वप्रमाणं प्रमाणोपेतपुरुषस्य चतुरङ्गुलचरणचतुर्विंश-त्यङ्गुलजङ्गोच्चत्वमीलनेनाथविंशत्यडुलरूपं तेन समाना मात्रा यस्य स तथा तं ।
अवधिना-मर्यादया निकरं विस्तारं कृत्वा चन्द्रप्रभाः - चन्द्रकान्ता वज्राणि - हीरका वैडूर्याणि - वालवायजानि तन्मयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नानां भक्तयो विच्छित्तयो रचनास्ताभिश्चित्रं, कृष्णागुरु प्रतीतः कुन्दुरुक्क :- चीडा तुरुष्कः - सिल्हकस्तेषां यो धूपो गन्धोत्तमः - सौरभ्योत्कृष्टः, अत्र विशेषणपरनिपातः, प्राकृतत्वात् तेनानुविद्धा-मिश्रा व्याप्तेत्यर्थः तां चशब्दो विशेषणसमुच्चये स च व्यवहितसम्बन्धः तेन धूमवर्त्ति च-धूमश्रेणि विनिर्मुञ्चन्तं, वैडूर्यमयं - केवलवैडूर्यरत्नघटितं स्थालकस्थगनकाद्यवयवेषु दण्डवच्चन्द्रकान्तादिरलमयत्वे तु अङ्गार धूमसंसर्गजनिता विच्छायतां प्रादुर्भवेत्, 'कडुच्छुकं' धूपाधानकं 'प्रगृह्य' गृहीत्वा प्रयतः 'आद्रियमाणी धूपं दहति, धूपं दग्ध्वा च प्रमार्जनादिकारणविशेषेण सन्नि चीयमानमपि चक्ररलं अत्यासन्नतया मा आशातितं भूयादिति सप्ताष्टपदानि प्रत्यपसर्पतिपश्चादपसरति प्रत्यपसर्प्यच वामं जानुं अञ्चति यावत्करणाद्। 'दाहिणंजाणुंधरणि अलंसि निहट्टु करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु' इति संग्रहः, व्याख्या च पूर्ववत्, प्रनामं करोतिसमीहितार्थसम्पादकमिहेदमिति बुद्धया प्रीतः प्रणमति, प्रनामं कृत्वा च आयुधगृहशालातः प्रतिनिष्क्रामति - निर्गच्छतीति, 'पडिनिक्ख मित्ता' इत्यादि, प्रतिनिष्क्रम्य च यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषीदति - उपविशति, संनिषद्य च अष्टादश श्रेणीः- कुम्भकारादिप्रकृतीः प्रश्रेणीस्तदवान्तरभेदान् शब्दयति शब्दयित्वा चैवमवादीदिति, अष्टादश श्रेणयश्चेमाः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org