SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २/४३ सिद्धार्थवनविपुलराजमारगं कुर्वन्, तथा हयगजरथानां 'पहकरे' त्ति देशीशब्दोऽयं समूहवाची तेन हयादिसेनयेत्यर्थः, तथा पदातीनां चटकरेण वृन्देन च मन्दं २ - यथा भवति तथा, क्रियाविशेषणं, यथा हयादिसेना पाश्चात्या समेति तथा २ बहुतरबहुतमकमित्यर्थः, उद्धतरेणुकं-ऊर्ध्वगतरजस्कं कुर्वन्, यत्रैव सिद्धार्थवनमुद्यानं यत्रैवाशोकवरपादपस्तत्रैवोपागच्छतीति । -- उपागत्य यत्करोति तदाह-उपागत्याशोकवरपादपस्याधः शिबिकां स्थापयति, स्थापयित्वा च शिबिकायाः प्रत्यवरोहति, अवतरतीत्यर्थः, प्रत्यवरुह्य च स्वयमेवाभरणालङ्कारान्, तत्राभरणानि - मुकुटानीति अलङ्कारान् - वस्त्रदीन्, सूत्रे एकवचन् प्राकृतत्वात्, आभरणानि च अलङ्काराश्चेति समाहारद्वन्द्वकरणाद्वा, अवमुञ्चति-त्यजति, कुलमहत्तरिकाया हंसलक्षणपटे अवमुच्य च स्वयमेव चतसृभिः 'अट्ठाहिं' ति मुष्टिभिः करणभूताभिर्लुञ्चनीयकेशानां पञ्चमभागलुञ्चिकाभिरित्यर्थः, लोचं करोति, अपराङ्गालङ्कारादिमोचनपूर्वकमेव शिरोऽलङ्कारादिमोचनं विधिक्रमायेति पर्यन्ते मस्तकालङ्कारकेशमोचनं, तीर्थकृतां पञ्चमुष्टिलोचसम्भवेऽपि अस्य भगवतश्चतुर्मुष्टिकलोचगोचरः श्रीहेमाचार्यकृतऋषभचरित्राद्यभिप्रायोऽयं १४४ 'प्रथममेकया मुष्ट्या स्मश्रुकूर्द्धयोर्लोचे तिसृभिश्च शिरोलोचे कृते एकां मुष्टिमवशिष्यमाणां पवनान्दोलितां कनकावदातयोः प्रभुस्कन्धयोरुपरि लुठन्तीं मरकतोपमानमाविभ्रती परमरमणीयां वीक्ष्य प्रमोदमानेन शक्रेण भगवन् ! मय्यनुग्रहं विधाय ध्रियतामियमित्थमेवेति विज्ञप्ते भगवतापि सा तथैव रक्षितेति, 'न ह्येकान्तभक्तानां याचनामनुग्रहीतारः खण्डयन्ती' ति, अत एवेदानीमपि श्री ऋषभमूर्ती स्कन्धोपरि वल्लरिका क्रियन्ते इति, लुञ्चिताश्च केशाः शक्रेण हंसलक्षणपटे क्षीरोदधौ क्षिप्ता इति षष्ठेन भक्तेन उपवासद्वयरूपेण अपानकेनचतुर्विधाहारेण । 'आषाढाभि' रित्यत्र 'ते लुग्वे' त्यनेन उत्तरपदलोपे उत्तराषाढाभिर्वचनवैषम्यमार्षत्वात्, नक्षत्रेण योगमुपागतेनार्थाच्चन्द्रेणेति गम्यं, उग्राणां-अनेनैव प्रभुणा आरक्षकत्वेन नियुक्तानां भोगानांगुरुत्वेन व्यवहतानां राजन्यानां वयस्यतया व्यवस्थापितानां क्षत्रियाणां शेषप्रकृतितया विकल्पितानां चतुर्भि पुरुषसहस्रैः सार्द्धं, एते च बन्धुभिः सुहृद्भिर्भरतेन च निषिद्धा अपि कृतज्ञत्वेन स्वाम्युपकारं स्मरन्तः स्वामिविरहभीरवो वान्तान्न इव राज्यसुखे विमुखा यत्स्वामिनाऽनुष्ठेयं तदस्माभिरपीति कृतनिश्चयाः स्वामिनमनुगच्छन्ति स्म, एकं देवदूष्यं शक्रेण वामस्कन्धे जीतमित्यर्पितं उपादाय, न तु रजोहरणादिकं लिड्गं कल्पातीतत्वाज्जिनेन्द्राणां मुण्डो द्रव्यतः शिरः कूर्चलोचनेन भावतः कोपाद्यपासनेन भूत्वा अगाराद्-गृहवासान्निष्क्रम्येति गम्यं, अनगारितां - अगारी-गृही असंयतस्तत्प्रतिषेधादनगारी- संयतस्तद्भावस्तत्ता तां साधुतामित्यर्थः प्रव्रजितः प्रगतः प्राप्त इतियावत्, अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया प्रव्रजितः प्रव्रज्यां प्रतिपन्नः । अथ प्रभोश्चीवरधारित्वकालमाह मू (४४) उसमे णं अरहा कोसलिए संवच्छरं साहिअं चीवरधारी होत्या, तेण परं अचेलए। जप्पभिदं च णं उसमे अरहा कोसलिए मुंडे भवित्ता अगाराओ अनगारियं पव्वइए तप्पभिइंच णं उसमे अरहा कोसलिए निच्चं वोसट्टकाए चिअत्तदेहे जे केइ उवसग्गा उप्पज्जंति तं० दिव्वा वा जाव पडिलोमा वा अनुलोमा वा, तत्थ पडिलोमा वेत्तेण वा जाव कसेण वा काए आउट्टे जा अनुलोमा वं देज्ज वा जाव पज्जुवासेज वा ते सव्वे सम्मं सहइ जाव अहिआसेइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy