________________
१४०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४३ कुर्वत नेतरे ततः किमसौ निरवधैकरुचिर्भगवान् सावद्या० कलाधुपदर्शन प्रववृत्ते?
उच्यते, समानुभावतोवृत्तिहीनेषुदीनेषुमनुजेषुदुःस्थतां विभाव्य सजातकरुणैकरसत्वात्, समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवति, वीर इव द्विजस्य चीवरदाने, अथैवं तर्हि कथमधिकलिप्सोस्तस्य सति सकलेऽशुके शकलदानं?, सत्यं, भगवतश्चतुर्ज्ञानधरवत्वेन तस्य तावन्मात्रस्यैव लाभस्यावधारणेनाधिकयोगस्य क्षेमानिर्वाहकत्वदर्शनात्, कथमन्यथा भगवदंसस्थलम्रस्ततच्छकलग्रहणेऽपितदुत्थरिक्थार्द्धविभाजकस्तुन्नवायः समजायत?, किञ्चकलाधुपायेन प्राप्तसुखवृत्तिकस्यचौर्यादिव्यसनासक्तिरपिनस्यात्, ननुभवतुनामोक्तहेतोर्जगदभर्तु कलाघुपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितं ?, उच्यते, शिष्टानुग्रहाय तुष्टनिग्रहाय धर्मस्थितिसंग्रहायच, ते राज्यस्थितिश्रिया सम्यक्प्रवर्तमानाः क्रमेण परेषां महापुरुषमार्गोपदशकतया चौर्यादिव्यसननिवर्त्तनतो नारकातिथेयीनिवारकतया एहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति, महापुरुषप्रवृत्तिरपि सर्वत्र परार्थत्वव्याप्ता बहुगुणाल्पदोषकार्यकारणविचारणापूर्विकैवेति, युगादौ जगद्वयवस्था प्रथमेनैव पार्थिवेन विधेयेति जीतमपीति, स्थानाड्गपञ्चपञ्चमाध्ययनेऽपि
___ “धर्मणं चरमाणस्स पंच निस्साठाणा प० छक्काया १ गणो २ राया ३ गाहावई ४ सरीर ५' मित्याद्यालापकवृत्तौ राज्ञो निश्रामाश्रित्य राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणादित्युक्तमस्तीतिपरमकरुणापरीतचेतसः परमधर्मप्रवर्तकस्य ज्ञानत्रययुतस्य भगवतो राजधर्मप्रवर्तकत्वे न काप्यनौचिती चेतसि चिन्तनीया, युक्तयुपपन्नत्वात्, तद्विस्तरस्तु जिनभवनपंचाशकसूत्रवृत्योर्यतनाद्वारे व्यक्त्यादर्शितोऽस्तीतिततएवावसेयो, इति, एतेन ‘राज्यं हि नरकान्तं स्याद्, यदि राजा न धार्मिकः' इत्युक्तिरपि टेढबद्धमूला न कम्पत इति, किञ्च
अत्र तृतीयारकप्रान्ते राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः पञ्चमारकप्रान्ते च । ॥१॥ ‘सुअसूरिसंघधम्मो पुदण्हे छिज्जिही अगणि सायं।
निवविमलबाहणे सुहुममंतिनयधम्म मज्झण्हे ॥ इति वचनात् धर्मस्थितिविच्छेदे राज्यस्थितिविच्छेद इत्यपि राज्यस्थितेधर्मस्थितिहेतुत्वाभिव्यञ्जकत्वमेवेतिसर्वंसुस्थमित्यलं विस्तरेणेति। तदनुभगवान् किंचक्रेइत्याह-'उवदिसित्ता पुत्तसय'मित्यादि, उपदिश्यकलादिकंपुत्रशतं-भरतबाहुबलिप्रमुखं कोसलातक्षशिलादिराज्यशते अभिषिञ्चति-स्थापयति, अत्र शङ्कवादिप्रभञ्जनावसानानि भरताष्टनवतिभ्रातृनामानि अन्तर्वाच्यादिषु सुप्रसिद्धानीति न लिखितानि, देशनामानि तु बहून्यप्रतीतानीति।
__ अथभगवतो दीक्षा कल्याणकमाह-'अभिसंचिता' इत्यादि, अभिषिच्य त्र्यशीतंपूर्वलक्षाणि महान् रागो-लौल्यं यत्र स चासौ वासश्च महारागवासो-गृहवासस्तन्मध्ये वसति गृहिपर्याये तिष्ठतीत्यर्थः, यद्यपि प्रागुक्तव्याधिप्रतीकारन्यायेनैव तीर्थकृतांगृहवासे प्रवर्तनं तथापिसामान्यतः स यथोक्त एवेति न दोषः, यद्वा महान् अरागः-अलौल्यं यत्रस चासौ वासश्चेति योजनीयं, यतो भगवदपेक्षया स एवंविध एवेति, एतेन 'तेवष्टिं पुब्बसयसहस्साई महारायवासमझे वसइ'त्ति पूर्वग्रन्थविरोधो नेति, उषित्वा, 'जे से'त्ति यः सः 'गिम्हाणं'ति आर्षे ग्रीष्मशब्दः स्त्रलिड्गो बहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः, प्रथमो मासः, यथा ग्रीष्माणां-अवयवे समुदायोपचाराद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org