________________
वक्षस्कारः - २
१३९
६६, एतत्कलाद्वयं लोकतः प्रत्येतव्यं, 'नालिआखेडुं 'ति नालिकाखेलं द्यूतविशेषं मा भूदिष्टदायविपरीतपाशकनिपातनमिति नालिकया यत्र पाशकः पात्यते, द्यूतग्रहणे सत्यपि अभिनिवेशनिबन्धनत्वेन नातिकाखेलं, अप्राधान्यज्ञापनार्थं भेदेन ग्रहः ६७, पत्रच्छेद्यं अष्टोत्तरशतपत्राणां मध्ये विवक्षितसङ्ख्याकपत्रच्छेदने हस्तलाघवं ६८, कटच्छेद्यं कटवत् क्रमच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा इदं च व्यूतपटोद्वेष्टनादी भोजनक्रियादौ चोपयोगि ६९, 'सज्जीवं' ति सज्जीवकरणं मृतधात्वादीनां सहजस्वरूपापादनं ७०, 'निज्जीवं' ति निर्जीवकरणं हेमादिधातुमारणं, रसेन्द्रस्य मूर्च्छाप्रापणं वा ७१, शकुनरुतं, अत्र शकुनपदं रुतपदं चोपलक्षणं, तेन वसन्तराजाद्युक्तसर्वशकुनसंगरहः गतिचेष्टादिग्बलादिपरिग्रहश्च ७२, इति द्वासप्तति पुरुषकलाः ।
चतुःषष्टिः स्त्रीकलाश्चेमाः- नृत्या १ औचित्य २ चित्र ३ वादित्र ४ मन्त्र ५ तन्त्र ६ ज्ञान ७ विज्ञान ८ दम्भ ९ जलस्तम्भ १० गीतमान ११ तालमान १२ मेघवृष्टि ११ कलाकृष्टि १४ आरामरोपण १५ आकारगोपन १६ धर्मविचार १७ शकुनसार १८ क्रियाकल्प १९ संस्कृतजल्प २० प्रासादनीति २१ धर्मरीति २२ वर्णिकावृद्धि २३ स्वर्णसिद्धि २४ सुरभितैलकरण २५ लीलासंचरण २६ हयगजपरीक्षण २७ पुरुषस्त्रलक्षण २८ हेमरत्नभेद २९ अष्टादशलिपिपरिच्छेद ३० तत्कालबुद्धि ३१ वास्तुसिद्धि ३२ कामविक्रिया ३३ वैद्यकक्रिया ३४ कुम्मभ्रम ३५ सारिश्रम ३६ अञ्जनयोग ३७ चूर्णयोग ३८ हस्तलाघव ३९ वचनपाटव ४० भोज्यविधि ४१ वाणिज्यविधि ४१ मुखमण्डन ४२ शालिखण्डन ४४ कथाकथन ४५ पुष्पग्रन्थन ४६ वक्रोक्ति ४७ काव्यशक्ति ४८ स्फारविधिवेष ४९ सर्वभाषाविशेष ५० अभिदानज्ञान ५१ भूषणपरिधान ५२ भृत्योपचार ५३ गृहाचार ५४ व्याकरण ५५ परनिकारण ५६ रन्धन ५७ केशबन्धन ५८ वीणानाद ५९ वितण्डावाद ६० अङ्कविचार ६१ लोकव्यवहार ६२ अन्त्याक्षरिता ६३ प्रश्नप्रहेलिका ६४ इति ।
अत्रोपलणादुक्तातिरिक्ताः स्त्रीपुरुषकला ग्रन्थान्तरे लोके च प्रसिद्धा ज्ञेयाः, अत्र च यत्पुरुषकलासु स्त्रीकलानां स्त्रीकलासु च पुरुषकलानां साङ्कर्यं तदुभयोपयोगितत्वात्, ननु तर्हि 'चोसट्ठि महिलागुणे इति ग्रन्थविरोधः, उच्यते, न ह्ययं ग्रन्थः स्त्रीमात्रगुणख्यापनपरः, किन्तु स्त्रीस्वरूपप्रतिपादकः तेन केचित्पुरुषगुणत्वेऽपि न विरोधः, कलाद्वयोस्योक्तसङ्ख्याकत्वं तु प्रायो बहूपयोगित्वात्, इत्यलं विस्तरेण । शिल्पशतं चेदम् - कुम्भकृल्लोहकृत्रिकृत्तन्त...वायनापितलक्षणानि पञ्च मूलशिल्पानि तानि च प्रत्येकं विंशतिभेदानीति, तथा चार्षम्
|| 9 ||
"पंचेव य सिप्पाई घड लोह चित्तनंतकासवए । इक्किक्क रस य इत्तो वीसं २ भवे भेआ ||" इति ॥
तन्वत्रैतेषा पञ्चमूलशिल्पानां उत्पत्ती किं निमित्तमिति ?, उच्यते, युग्मिनामामौपध्याहारे मन्दाग्नितयाऽपच्यमाने हुतभुजि प्रक्षिप्यमाने तु समकालमेव दह्यमाने युगलिनरैर्विज्ञप्तेन हस्तिस्कन्धारूढेन भगवता प्रथमं घटशिल्पमुपदर्शितं, क्षत्रियाः शस्त्रपाणय एव दुष्टेभ्यः प्रजां रक्षेयुरिति लोहशिल्पं, चित्राङ्गेषु कल्पद्रुमेषु हीयमानेषु चित्रकृतशिल्पं, वस्त्रकल्पमेषु हीयमानेषु तन्तुवायशिल्पं, बहुले युग्मिधर्मे पूर्वमर्द्धिष्णु रोमनखं ( अथ वर्धिष्णु) मा मनुजांस्तुदत्विति नापितशिल्पमिति, ऋषभचरित्रे तु गृहादिनिमित्तवर्द्धक्ययस्कारयुग्मरूपं द्वितीयं शिल्पमुक्तं, शेषं तथैवेति, ननु भोग्यसत्कर्माण एवार्हन्त भगवन्तः समुत्पन्नव्याधिप्रतीकारकल्पं ख्यादिपरिग्रहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org