________________
१३०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३९ णासन्दिग्धग्रहणझटितिग्रहणबहुधारणादिमत्तया भाषाद्रव्यस्योदात्तत्वगम्भीरोपनीतरागत्वप्रतिनादविधायितादिरूपतया च तत्रादिसमये उत्कृष्टता, ततः परंक्रमेणानन्ताः पर्यवाहीयन्ते, अनन्तैरुत्थानादिपर्यवैः, तत्रोत्थान-ऊध्र्वभवनं कर्म-उत्क्षेपणावक्षेपणादिगमनादि वा बलं-शारीरः प्राणः वीर्य-जीवोत्साहः पुरुषाकारः-पौरुषाभिमानः पराक्रमश्च-सएव साधिताभिमतप्रयोजनः, अथवा पुरुषकारः-पुरुषक्रियासाचप्रायः स्त्रक्रियातःप्रकर्षवती भवतीतितस्वभावत्वादिति विशेषेणतदग्रहणं, पराक्रमस्तु-शत्रुवित्रासनं, तत एतेप्राक्तनसमयेउत्कृष्यस्ततः परंपरिपाट्यातथैव हीयन्ते, तथा। ॥१॥ “संघयणं संठाणं उच्चत्तं आउअंच मणुआणं ।
अणुसमयं परिहायइओसप्पिणीकालदोसेणं । ॥२॥ कोहमयमायलोभा ओसन्नं वड्ढए अ मणुआणं ।
कूडतुलकुडमाणा तेणऽणुमाणेण सव्वंपि। ॥३॥ विसमा अज्ज ! तुलाओ विसमाणि अजनवएसुमाणाणि।
विसमा रायकुत्लाइंतेण उ विसमाई वासाइं॥ ॥४॥ विसमेसुअवासेसुं हुंति असाराइंओसहिबलाई।
ओसहिदुब्बल्लेण य आउं परिहायइ नराणं ॥ - इति तण्डुलवैचारिके अवसर्पिणीकालदोषेण हानिरुक्ता सा बाहुल्येन दुःषमामाश्रित्य शेषनारकेषु तु यथाम्भवं ज्ञेयेति, ननु नित्यद्रव्यस्यापि कालस्य कथं हानिरिति परकृतासम्भवाशङ्कानिवारणार्थं वर्णादिपर्यवाणांहानिरुक्ता, ते चपुद्गलधर्मास्तर्हि अन्यधीयमानैर्विवक्षितः कालः कथं हीयते इति महदसड्गतं, तथा सति वृद्धाया वयोहानी युवत्या अपिवयोहानिप्रसङ्ग इतिचेत् न,कालस्यकार्यवस्तुमात्रेकारणत्वाङ्गीकारात्कार्यगताधर्माकारणेउपचर्यतेकारणत्वसम्बन्धादिति।
अथ प्रस्तुतारकस्य स्वरूपप्रश्नायाह-'जंबुद्दीवे णं भंते!' इत्यादि प्रायः सूत्रं गतार्थमेव, नवरं केवलं नानात्वं-भेदः, स चार्य-चतुर्धनुःसहसोच्छ्रिताः क्रोशद्वयोच्चास्ते मनुजा इति योगः, मकारोऽलाक्षणिकः, अष्टाविंशत्यधिकंपृष्ठकरण्डकशतंप्रथमारोक्तपृष्ठकरण्डुकानामर्धमितियावत् तेषां मनुजानामिति योगः, षष्ठभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते इति योगः, सूत्रे सप्तम्यर्थे षष्ठी सूत्रत्वात्, चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्षन्ति, अपत्यानि ते मनुजा इति योगः, तत्र सप्तावस्थाक्रमः पूर्वोक्त एव, नवरं एकैकस्या अवस्थायाः कालमानं नव दिनानि अष्टौ घटयश्चतुस्त्रशत् पलानि सप्तदश चाक्षराणि किञ्चिदधिकानीति, चतुःषष्टेः सप्तभिर्भागे एतावत एव लाभात्, यच्च पूर्वेभ्योऽधिकोऽपत्यसंरक्षणकालस्तत्कालस्य हीयमानत्वेनोत्थानादीनां हीयमानत्वाद् भूयसाऽनेहसा व्यक्तताभवनादिति, एवमग्रेऽपि ज्ञेयं, द्वे पल्योपमे आयुस्तेषां मनुजानामिति योगः, एवमन्यत्रापि यथासम्भवमध्याहारेण सूत्राक्षरयोजना कार्या, अन्यत् सर्वं सुषमसुषमोक्तानेवेति, अत्रापि यथोक्तमायुःशरीरोच्छ्रयादिकं सुषमायामादौ ज्ञेयं, ततः परंक्रमेण हीयमानमिति । अथात्र भगवान् स्वयमेवापृष्टा नपि मनुष्यभेदानाह
"तीसेण' मित्यादि,अत्रान्वययोजना प्राग्वत्, एकाः १ प्रचुरजकाः२ कुसुमाः३सुशमनाः ४ एतेऽपि प्राग्वजातिशब्दा ज्ञेयाः, अन्वर्थता चैवं-एकाः-श्रेष्ठाः, संज्ञाशब्दत्वान सर्वादित्वं, प्रचुरजङ्घाः-पुष्टजङ्घाः नतु काकजङ्घा इति भावः, कुसुमसद्दशत्वात् सौकुमार्यादिगुयोगेन कुसुमाः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org