SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३८ मू (३९) तीसे णं समाए चउहिं सागरोवमकोडाकोडीहिं काले वीइक्कते अनंतेहिं वण्णपञ्जवेहिं अनंतेहिं गंधपञ्जवेहिं अनंतेहिं रसपञ्जवेहिं अनंतेहिं फासपञ्जवेहिं अनंतेहिं संघयणपञ्जवेहि अनंतेहिं संठाणपज्जवेहि अणंतेहिं उच्चत्तपज्जवेहि अनंतेहिं आइपजवेहिं अनंतेहिं गुरुलहुपजवेहिं अनंतेहिं अगुरुलहुपञ्जतेहिं अनंतेहं उट्ठाणकम्मबलवीरिअपुरिसक्कारपरक्कमपञ्जवेहिं अनंतगुणपरिहाणीए परिहायमाणे एत्य णंसुमुसमा नामसमाकाले पडिवजिंसुसमणाउसो! जंबूद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमाए समाए उत्तमकट्टपत्तए भरहस्स वासस्स केरिसए आयारभावपडोयारे होत्था ?, गोअमा! बहुसमरमणिजे भूमिभागे होत्था, से जहानामए आलिंगपुक्खोइ वा तंचेवजं सुसमसुसमाए पुवण्णिअं, नवरं नाणत्तं चउधनुसहस्समूसिआ एगे अट्ठावीसे पिट्ठकरंडुकसए छट्ठभत्तस्स आहारट्टे, चउसद्धिं राइंदिआइंसारक्खंति, दो पलिओवमाई आऊ सेसं तं चेव। तीसे णं समाए चउबिहा मणुस्सा अणुसज्जित्था, तंजहा-एका १ पउरजंघा २ कुसुमा ३ सुसमणा ४। पृ-तस्यां सुषमसुषमानाम्यां चतसृषु सागरोपमकोटाकोटीषु काले व्यतिक्रान्ते सति, सूत्रे च तृतीयानिर्देश आर्षत्वात्, अथवा चतसृभिः सागरोपमकोटाकोटीभि काले मिते गणिते वाइति मितादिशब्दाध्याहारेण योजना कार्या, अत्रच पक्षे करणे तृतीयाज्ञेया, अत्रान्तरे सुषमा नाम्ना समा-कालः प्रतिपन्नवान्-लगति स्मेति वाक्यान्तरसूत्रयोजना, सुषमा चोत्सर्पिण्यामपि भवेदित्याह- अनंतगुणपरिहाण्या परिहीयमाणा हानिमुपगच्छन् २' सूत्रे च द्विवचनमनुसमयं हानिरिति हानेः पौनःपुन्यज्ञापनार्थं, अथ कालस्य नित्यद्रव्यत्वेन नहानिरुपपद्यते, अन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्तात्मकमेव तत् न स्यादित्यत आह-'अनन्तैर्वर्णपर्यवै रित्यादि, वर्णाश्वेतपीतरक्तनीलकृष्णभेदात् पञ्च, कपिशादयस्तु तत्संयोगजास्ततः श्वेतादेरन्यतरस्य वर्णस्य पर्यवा-बुद्धिकृतानिर्विभागाभागाः एकगुणश्वेतत्वादयः सकलजीवराशेरनन्तगुणाधिकास्तैरऽनन्ता ये गुणा-अनन्तरोक्तस्वरूपा भागास्तेषां परिहाणि-अपचयस्तयाप्रकारभूतया इत्यर्थः, हीयमानः २ सुषमाकालविशेष इति योज्यं, एवमग्रेऽपियोजना कार्या, अथ यथैषामनन्तत्वमनुसमयमनन्तगुणहानिश्च तथा दर्शाते 'तीसे गं०' इति प्रागुक्तबलात् प्रथमसमये कल्पद्रुमपुष्पफलादिगतो यः श्वेतो वर्ण स उत्कृष्टः, तस्य केवलिप्रज्ञया छिद्यमाना यदि निर्विभागा भागाः क्रियन्ते तर्हि अनन्ता भवन्ति, तेषांमध्यादनन्तभागात्मक एको राशिप्रथमारकद्वितीयसमये त्रुट्यति, एवं तृतीयादिसमयेष्वपि वाच्यं यावत्प्रथमारकान्त्यसमयः, एषाव रीतिरवसर्पिणीचरमसमयं यावज्झेया, अत एव अनन्तगुणपरिहाण्येत्यत्र अनन्तगुणानांपरिहाणिरिति षष्ठीतत्पुरुष एव विधेयो न तुअनन्तगुणा चासौ परिहाणिश्चेति कर्मधारयः, गुणशब्दश्च भागपर्यायवचनोऽनुयोगद्वारवृत्तिकृता एकगुणकालकपर्यवविचारे सुस्पष्टमाख्यातोऽस्ति, एवं सतिश्वेतवर्णस्यासन्न एव सर्वथोच्छेदः, तथा च सति श्वेतवस्तुनोऽश्वेतत्वप्रसङ्गः, एतच्च जातिपुष्पादिषु प्रत्यक्षविरुद्धं ?, उच्यते, आगमेऽनन्तकस्यानन्तभेदत्वात् हीयमानभागानामतनन्तकमल्पं ततो मौलराशेर्भागानन्तकं बृहत्तरमवगन्तव्यं, यदि नाम सिध्यत्स्वपि भव्येषु लोकेषु न तेषामनन्तकालेनापि निर्लेपना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy