________________
वक्षस्कारः - २
स्थेयोभिश्च ततः कलागणभृतस्तारुण्यभोगोद्गताः सप्ताहेन ततो भवन्ति सुध्गादननेऽपि योग्यास्ततः अत्र व्याख्या -आर्या सप्त दिवसान् जन्मदिवसादिकान् यावत् उत्तानशयाः सन्तः स्वाङ्गुष्ठं लिहन्ति, ततो द्वितीयसप्तके पृथिव्यां रिङ्खन्ति, ततस्तृतीयसप्तके कलगिरी व्यक्तवाचो भवन्ति, ततश्चर्थसप्तके स्खलद्भिः पदैर्यान्ति, ततः पञ्चमसप्तके स्थेयोभिः - स्थिरैः पदैर्यान्ति, ततः षष्ठसप्तके कलागणभृतो भवन्ति, ततः सप्तमसप्तके तारुण्यभोगोद्गताः भवन्ति केचिच्च सुगादानेऽपि सम्यकत्वग्रहणेऽपि योग्या भवन्तीति क्रमः, इदं चावस्थाकालमानं सुषमासुषमायामादी ज्ञेयं, ततः परं किञ्चिदधिकमपि सम्भाव्यते इति, अत्र प्रस्तावाद् कश्चिदाह- अथ तदाऽग्निसंस्कारादेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिरिति ?, उच्यते, भारण्डप्रभृतिपक्षिणस्तानि तथाजगतस्वाभाव्यात् नीडकाष्ठमिवोत्पाटय मध्येसमुद्रं क्षिपन्ति, यदुक्तंपुराहि मृतमिथुन शरीराणि महाखगाः कामिवोत्पाट्य, सद्यश्चिक्षिपुरंबुधी
॥१॥
-
१२७
"किञ्चात्र श्लोके अम्बुधावित्युपलक्षणं तेन यथायोगं गङ्गाप्रभृतिनदीष्वपि ते तानि क्षिपन्तीति ज्ञेयं, ननु चोत्कृष्टतोऽपि धनुः पृथक्त्वमानशरीरैस्तैरुत्कृष्टप्रमाणानि तानि कथं सुवहानीत्यत्रापि समाधीयते युग्मिशरीराणामस्बुधिक्षेपस्य महाखगकृतत्वेन बहुषु स्थानेषु प्रतिपादनादवसीयते यत् 'पक्खी धणुह पुहत्तमित्यत्र सूत्रे जात्यपेक्षया एकवचननिर्देशस्तेन क्वचिद् बहुवचनं व्याख्येयं, तथा च सति पक्षिशरीरमानस्य यथासम्भवमरकापेक्षया बहुबहुतरबहुतमधनुःपृथकत्वरूपस्यापि सम्भवात् तत्कालवर्त्तियुग्मिनरहस्त्यादिशरीरापेक्षया बहुधनुः पृथक्त्वपरिमाणशरीरैस्तैर्न किञ्चिदपि तानि दुर्वहानीति न काप्यनुपपत्तिरिति सम्भाव्यते, तत्वं बहुश्रुतगम्यं, एवं च सूत्रे एखवचननिर्देशेऽपि बहुवचनेन व्याख्यानं श्रीमलयगिरिपादैरपि श्रीबृहत्संग्रहणिवृत्ती देवानामाहारोच्छ्वासान्तरकालमानाधिकारे
119 11
"दस वाससहस्साइं समयाई जाव सागरं ऊणं ।
दिवसमुहुत्तपुहुत्ता आहारुस्सास सेसाणं ।।
इत्यस्या गाथाया अर्थकथनावसरे कृतमस्तीति सर्वं सुस्थमिति । अथ तदा मनुजानाम'कत्वमुत नानात्वमिति प्रश्नयन्नाह - 'तीसेण' मित्यादि, तस्यां समायां भगवन्! भरते वर्षे कतिविधाःजातिभेदेन कतिप्रकारा कतिप्रकारा मनुष्या अनुषक्तवन्तः कालात्कालान्तरमनुवृत्तवन्तः, सन्ततिभावेन भवन्ति स्मेत्यर्थ, भगवानाह - गौतम ! षड्विधाः, तद्यथा
पद्मगन्धाः १ मृगगन्धाः २ अममा ३ स्तेजस्तलिनः ४ सहाः ५ शनैश्चारिणः ६, इमे जातिवाचकाः शब्दाः संज्ञाशब्दत्वेन रूढाः, यथा पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारकप्रान्ते श्री ऋषभदेवेन उग्रभोगराजन्यक्षत्रियभेदैश्चतुर्द्धा कृता तथाऽत्राप्येवं षड्विधा सा स्वभावत एवास्तीति यद्यपि श्री अभयदेवसूरिपादैः पञ्चमाङ्गषष्ठशतकसप्तमोद्देशके पदमसमगन्धयः मृगमदगन्धयः ममीकाररहितास्तेजश्च तलं च रूपं येषामस्तीति तेजस्तलिनः सहिष्णवः - समर्था शनैः मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीला इत्यन्वर्धता व्याख्यातास्ति, तथापि तथाविधसम्प्रदायाभावात् साधारणव्यञ्जकाभावेन तेनैषां जातिप्रकाराणां दुर्बोधत्वाजीवाभिगमवृत्तौ सामान्यतो जातिवाचकतया व्याख्यानदर्शनाच्च न विशेषतो व्यक्ति कृतेति । गतः प्रथमारकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org