________________
999
वक्षस्कारः - २
त्सरु-खडगादिमुष्टिस्तैः सदृशं तेषामिवेत्यर्थः, तथा वरवज्रस्येव सौधर्मेन्द्रायुधस्येव क्षामो वलितोवलयः संजाता अस्येति वलितो वलित्रयोपेतो मध्यो- मध्यभागो येषां ते तथा, झषस्येव अनन्तरोक्तस्येवोदरं येषां ते तथा, शुचीनि पवित्राणि निरुलेपानीति भावः, करणानि - चक्षुरादीनीन्द्रियाणि येषां ते तथा । अत्र च 'पम्हवि अडणाभा' इति पदं क्वचिद्वाचनान्तरे प्रसिद्धमपि न व्याख्यातं, गङ्गाया आवर्त्तकः पयसां भ्रमः स इव प्रदक्षिणावर्त्ता न तु वामावर्त्ता तरङ्गा इव तरङ्गाः तिस्रः वलयस्ताभिर्भङ्गुराः भुग्ना रविकिरणैः तरुणैः- अभिनवैर्बोधितं - उन्निद्रीकृतं सत् आकोशायमानंविकचीभवदित्यर्थ पद्मं तद्वद् गम्भीरा विकटा- विशाला नाभिर्येषां ते तथा, विशेषणस्य परनिपातः प्राग्वत्, अस्माच्च निर्देशादनाम्यपि समासान्तः, ऋजुका- अवक्रा समान कापि दन्तुरा संहिता-सन्ततिरूपेण स्थिता न त्वपान्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा, अत एव जात्या - प्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा स्निग्धा-चिक्कणा आदेयादर्शनपथमुपगता सती पुनः पुनराकांक्षणीया ।
—
· उक्तमेव विशेषणद्वारेण समर्थयते - लडहा- सलवणिमा अत आदेया सुकुमारमद्वीअतिकोमला रमणीया - रम्या रोमराजिर्येषां ते तथा, सम्यक् अधोऽधः क्रमेण नते पार्श्वे येषां ते तथा, सड्गते- देहप्रमाणोचिते पार्श्वे येषां ते तथा, अत एव सुन्दरपार्वाः सुजातपारश्व इति पदद्वयं व्यक्तं, तथा मिते- परिमिते मात्रिके - मात्रोपेते एकार्थपदद्वययोगादतीव मात्रान्विते नोचितप्रमाणान्यूनाधिके पीने उपचिते रतिदे पार्श्वे येषां ते तथा, अविद्यमानं -मांसलत्वेनानुपलक्ष्यमाणं करण्डकं - पृष्ठवंशास्थिकं यस्य देहस्य सोऽकरण्डुकः, अत्राल्पत्वेनाभावविवक्षणादेवं निर्देशः, अनुदरा कन्येत्यादिवत्, अथवा अकरण्डुकमिवेति व्याख्येयं, कनकस्येव रुचको रुचिर्यस्य स निर्मलः - स्वाभाविकागन्तुकमलरहितः सुजातो- बीजाधानादारभ्य जन्मदोषरहितः निरुपद्रवोज्वरादिदंशाद्युपद्रवरहितः एवंविधो यो देहस्तं धारयन्तीत्येवंशीलाः ।
- तथा कनकशिलातलवदुज्वलं प्रशस्तं समतलं अविषमं उपचितं मासलं विस्तीर्णर्ध्वाधोऽ- पेक्षया पृथुलं दक्षिणोत्तरतो वक्षः - उरोयेषा ते तथा, श्रीवच्छो- लाञ्छनविशेषस्तेनाङ्कितं वक्षो येषां ते तथा, युगसन्निभौ-वृत्तत्वेनायतत्वेन च यूपतुल्यौ पीनी- मांसली रतिदी पश्यतां सुभगौ पीवरप्रकोष्ठकी - अकृशकलाचिकी, तथा संस्थिताः - संस्थानविशेषवन्तः सुश्लिष्टाः सुघनाः विशिष्टा:प्रधानाः घना-निबिडाः स्थिरा - नातिश्लथाः सुबद्धाः स्नायुभि सुष्ठु बद्धाः सन्धयः-अस्थिसन्धानानि ययोस्तौ तथा, पुरवरपरिघवत्-महानगरार्गलावद्वर्त्तितौ-वत्तौ भुजौ येषां ते तथा, ततः पदद्वयद्वयमीलनेन कर्मधारयः, पुनर्बाहुमवायामतो विशिनष्टि-भुजगेश्वरो-भुजगराजस्तस्य विपुलो यो भोगः-शरीरं तथा आदीयतेद्वारस्थगनार्थं गृह्यत इत्यादनः स चासौ परिघः अर्गला ।
'उच्छूढ' त्ति स्वस्थानादवक्षिप्तो निष्काशितो द्वारपृष्ठभागे दत्त इत्यर्थः, विशेषणव्यस्तता चार्षत्वात्, ततः पूर्वपदेन कर्मधारयः, तद्वद्दीर्घौ बाहू येषा ते तथा, न चात्रानन्तरोक्तविशेषणेन पौनरुक्त्यमाशङ्कनीयं, अत्रायामतादर्शनाय प्रस्तुतविशेषणस्य विशिष्य दर्शनात्, रक्ततलीअरुणावधोभागी उपचितौ-उन्नती औपयिकौ वा उचितौ अवपतितौ वा क्रमेण हीयमानोपचय मृदुकौ मांसलौ सुजाताविति पदत्रयं प्राग्वत्, प्रशस्तलक्षणौ अच्छिद्रजालौ-अविरलाङ्गुलिसमुदायौ पाणी - हस्तौ येषां ते तषा पीवरकोमलवरंगुलीआ इति व्यक्तं, आताम्रा-ईषद्रक्तास्तलीनाः - प्रतलाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org