________________
११०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३४ निव्वणसमलट्ठमट्टचंदद्धसमणिलाडा उडुवइपडिपुण्णसोमवयणा धननिचिअसुबद्धलक्खणुण्णयकूडागारणिभपिंडिअग्गसिराछत्तागारुत्तमंगदेसादाडिमपुष्पपगासतवनिजसरिसनिम्मलसुजायकेसंतभूमी सामलिबोंडघननिचिअच्छोडिअमिउविसयपसत्थसुहुमलक्खणसुगंधसुंदरभुअमोअगभिंगणीलकज्जलपहठ्ठभमरगणणिद्धणिकुरंबनिचिअपयाहिणावत्तमुद्धसिरया' इति, अत्र
व्याख्या
___रक्तंलोहितमुत्पलपत्रवन्मृदुकं माईवगुणोपेतमकर्कशमित्यर्थः तच्चासुकुमारमपिसम्भवति यथा घृष्टमृष्टपाषाणप्रतिमा ततआह-सुकुमालेभ्योऽपि-शिरीषकुसुमादिभ्योऽपि कोमलं-सुकुमालं तलं-पादतलं येषां ते तथा, नगो-गिरि नगरमकरसागरचक्राणि स्पष्टानि अङ्कधरः-चन्द्रः अङ्क:तस्यैव लाञ्छनं यल्लोके मृगादिव्यपदेश लभते, एवंरूपैर्लक्षणैरुक्तवस्त्वाकारपरिणताभी रेखाभिरङ्किताश्चलना येषां ते तथा, पूर्वस्या अनु लघव इति गम्यते अनुपूर्वा, किमुक्तं भवति?. पूर्वस्याः पूर्वस्याः उत्तरोत्तरा नखं नखेन हीनाः 'नहंनहेणहीणाओ' इति सामुद्रिकशास्त्रवचनात्, अथवाआनुपूव्येण-परिपाट्या वर्द्धमानाहीयमानावा इतिगम्यते, सुसंहता-अविरलाअगुल्यःपादाग्रावयवा येषां ते तथा, अत्रानुपूर्वेणेति विशेषणग्रहणात् पदाङ्गुलीग्रहणं, तासामेव नखं नखेन हीनत्वात्, उन्नता-मध्ये तुड्गास्तनवः-प्रतलास्ताम्रा-रक्ताः स्निग्धाः-स्निग्धकान्तिमन्तो नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकारात्येषांते तथा, नक्खेत्यत्र द्वित्वं सेवादित्वात्, संस्थितौ-सम्यक् स्वप्रमाणतया स्थिती सुश्लिष्टी-सुघनौ सुस्थिरावित्यर्थ गूढी-गुप्ती मांसलत्वादनुपलक्ष्यौ गुल्फौ-घुटिको येषां तेतथा, एणी-हरिणीतस्याइह जसा ग्राह्या, कुरुविन्दः-तृणविशेषः वर्तचसूत्रवलनकं एतानीव वृत्ते-वर्तुले आनुपूव्येर्ण-क्रमेण ऊर्ध्व स्थूले स्थूलतरे इति शेषः जो येषां ते तथा।
औपपातिकवृत्तौ तु अन्ये त्वाहुः एण्यः स्नायवः कुरुविन्दः कुटिलकाभिधानो रोगविशेषस्ताभिसत्यक्ते इत्यपि व्याख्यातमस्ति, वृत्तेत्यादि तथैव, समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निमग्ने गूढे-मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, क्वचित्समुग्ग णिमग्ग गूढजाणू इति पाठस्तत्र समुद्गकस्येव-पक्षिविशेषस्येव निसर्गतो गूढेस्वभावतोमांसलत्वादनुन्नतेनतुशोफादिविकारतःशेषतथैव, गजस्य-हस्तिनःश्वसन:-शुण्डादण्डः सुजातः-सुनिष्पन्नस्तस्य सन्निभा ऊरुर्येषां ते तथा, सुजातशब्दस्य विशेषणस्य परनिपातः प्राकृतत्वात्, मत्तोवरः प्रधानो भद्रजातीयत्वाद्वारणो-हस्ती तस्य विक्रमः-चंक्रमणंतद्वद्विलासिताविलासः सातोऽस्या इतितारकादित्वादितप्रत्ययःविलासवती गति-गमनं येषांते तथा, अत्रापि मत्तशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्, प्रमुदितो रोगाद्यभावेनातिपुष्टो यौवनप्राप्त इति गम्यते एवंविधो यो वरतुरगः सिंहवरश्वतद्वद्वर्तिता-वृत्ता कटीर्येषांते तथा, वरतुरगस्येव सुजातः सुगुप्तत्वेन सुनिष्पनो गुह्यदेशो येषां ते तथा। ___-आकीर्णहय इव-जात्याश्व इव निरुपलेपाः-निरुपलेपशरीराः, जात्याश्वो हि मूत्राद्यनुपलिप्तगात्रो भवतीति, संहतसौनन्दं नाम ऊर्चीकृतमुलूखलाकृतिकाष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोवृहत् अथवा संहतं-सक्षिप्तमध्यं सौनन्दं-रामायुधं मुसलविशेष एव मुसलं सामान्यतः दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते तथा निगरितं-सारीकृतं वरकनकं तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org