________________
वक्षस्कारः - २
१०३
किरणजञ्चहिं गुलयणिगररूवाइरेगरूवा तहेव ते जोइसिआवि दुमगणा अनेगबहुविविहवीससा - परिणयाए उज्जअविहीए उववेया सुहलेसा मंदलेसा मंदायवलेसा कूडा इव ठाणट्टिआ अननसमोगादाहिं लेसाहिं साए पहाए ते पएसे सव्वओ समंता ओहासेंति उज्जोअंति पभासंति कुसुम जाव चिह्नंतीति, अत्र व्याख्या- तस्यां समायां 'तत्थे' त्यादि पूर्ववत्, ज्योतिषिका नाम द्रुमगणाः प्रज्ञप्तइत्यन्वययोजना, नामान्वर्थस्त्वयं - ज्योतीषि - ज्योतिष्का देवास्त एव ज्योतिषिकाः, अत्र मतान्तरेण स्वार्थे इकप्रत्ययः, 'उणादयोऽव्युत्पन्नानि नामानी' त्यव्युत्पत्तिपक्षाश्रयणादिसुप्रत्ययान्तत्वाभावादिकारलोपाभावश्च सम्भाव्यते, जीवाभिगमवृत्तौ ज्योतिषिका इति संस्कारदर्शनात्, तत्रापि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं, तेन अत्र ज्योतिषिकशब्देन सूर्यो गृह्यते, तत्सध्शंप्रकाशकारित्वेन वृक्षा अपि ज्योतिषिकाः, 'ज्योतिर्वह्निदिनेशयोः' इति वचनाद्वा ज्योतिशब्दः सूर्वाचको वह्निवाचको वा, शेषं स्वार्थिकप्रत्ययादिकं तथैव, तेच किंविशिष्टा इत्याहयथा ते 'अचिरे' त्यादिना 'हुतवह' इत्यन्तेन सम्बन्धः, अचिरोद्गतं शरतसूर्यमण्डलं, यथा वा पतदुल्कासहं प्रसिद्धं यथा वा दीप्यमाना विद्युत् यथा वा उद्गता ज्वाला यस्य स उजज्वालः, तथा निर्द्धमो-धूमरहितो ज्वलितो - दीप्तो हुतहो- दहनः, सूत्रे पदोपन्यासव्यत्ययः प्राकृतत्वात्, ततः सर्वेषामेषां द्वन्द्वः, एते च कथंभूता इत्याह-निर्ध्यातं-नितरामग्निसंयोगेन (शोधितमलं) यद्धौतंशोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां विकसितानां पुञ्ज ये च मणिरत्नकिरणाः यश्च जात्यहिङ्गुलकनिकरस्तद्रूपेभ्योऽतिरेकेण अतिशयेन यथायोगं वर्णतः प्रभया च रूपं स्वरूपं येथां ते तथा, ततः पूर्वपदेन विशेषणसमासः, तथैव त ज्योतिषिका अपि द्रुमगणा अनेकबहुविविधविप्रसापरिणते-नोद्दयोतविधिनोपपेता यावत्तिष्ठन्तीति सण्टङ्कः, ननु यदि सूर्यमण्डलादिवत्ते प्रकाशकास्तर्हि तद्वत्ते दुर्निरीक्ष्यत्वतीव्रत्वजङ्गमत्वादिधर्मोपेता अपि भवन्तीत्याह- सुखा-सुखकारिणी लेश्या-तेजो येषां ते तथा अत एव मन्दलेश्यास्तथा मन्दातपस्य लेश्या -जनितप्रकाशस्य लेश्या येषां ते तथा, सूर्यानलाद्यातपस्य तेजोयथा दुस्सहंन तथा तेषामित्यर्थः, तथा कूटानीव पर्वतादिश्रङ्गाणीव स्थानस्थिताः स्थिराइति, समयक्षेत्रबहिर्वर्तिज्योतिष्काइव तेऽवभासयन्तीति भावः, तथाऽन्योऽन्यं परस्परं समवगाढाभिर्लेश्याभि सहिता इति शेषः, किमुक्तं भवति ? -
यत्र विवक्षिता ज्योतिषिकाख्यतरुलेश्या अवगाढा तत्रान्यस्य लेश्याऽवगाढा यत्रान्यतरुलेश्या अवगाढा तत्र विवक्षिततरुलेश्या अवगाढा इति, 'साए पभाए' इत्यादि, 'पभान्ती' त्यन्तं सूत्रं विजयद्वारतोरणसम्बन्धिरत्नकरण्डकवर्णन व्याख्यातमिति, 'कुशविकुशेत्यादि पूर्ववत्, एषां च बहुव्यापी दीपशिखावृक्षप्रकाशापेक्षया तीव्रश्च प्रकाशो भवतीति पूर्वेभ्यो विशेषः ।
अथ षष्ठकल्पवृक्षस्वरूपमाह- 'तीसे णं समाए तत्थ २ बहवे चित्तंगा नामं दुमगणा पत्रत्ता समणाउसो !, जहा से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुज्जले भासतमुक्कपुष्पपुंजोवयारकलिए विरल्लिअविचित्तमल्लसिरसमुदयप्पगमे गंठिमवेढिमपूरिमसंघाइमेण मल्लेणं छेअसिप्पिविभागरइएणं सव्वओ चैव समनुबद्धे पविरललंवंतविप्पइट्ठपंचवण्मेहिं कुसुमदामेहिं सोभमाणे वणमालकयग्गए चैव दिप्पमाणे, तहेव ते चित्तंगावि दुमगणा अनेगबहुविविहवीससापरिणयाए मल्लविहीए उबवेआ कुसविकुसजाव चिट्ठन्ती' ति, तस्यां समायामित्यादि प्राग्वत्, नवरं 'चित्तंगा' इति चित्रस्य अनेकप्रकारस्य विवक्षाप्राधान्यान्माल्यस्य अंगं कारणं तत्सम्पादकत्वादृक्षा अपि चित्राङ्गाः, यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org