SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३३ यथोक्तवादनक्रियया शुद्धा-अवदाता न पुरस्थानव्यापारणरूपदोषलेशेनापि कलङ्किताः ते त्रुटिताङ्गा अपिद्रुमगणास्तथैव-तथाप्रकारेण न त्वन्याशेन तत-वीणादिकं विततं-पटहादिकं वनं-कांस्यतालादिकं शुषिरं-वंशादिकं एतद्रूपेण सामान्यतश्चतुर्विधेन आतोद्यविधिनोपेपताः, शेषं प्राग्वत्। ___ अथ चतुर्थकल्पवृक्षस्वरूपमाह-'तीसेणं समाए तत्थ तत्थ देसे तहिं २ बहवेदीवसिहानाम दुमगणा पत्रत्ता समणाउसो !, जहा से संझाविरागसमए नवनिहिवइणो दीविआचक्कवालविंदे पभूयवट्टिपलित्तणेहे धणिउञ्जलिए तिमिरमद्दए कमगनिगरकुसुमिअपालिआतगवणप्पगासे कंचनमणिरयणविमलमहरिहतवणिजुजलविचित्तदंडाहिं दीविआहिं सहसा पञ्जालिउस्सप्पिअनिद्धतेअदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउज्जोअचिल्लिआहिं जालुजलयहसिआभिरामाहिं सोभमाणा तहेव ते दीवसिहावि दुमगणा अनेगबहुविविहवीससापरिणयाए उजोअविहीए उववेआ फलेहिं पुण्णा कुसविकुस जाव चिटुंती ति, तस्यां समायां दीपशिखा इव दीपशिखास्तत्कार्यकारित्वात्, अन्यथा व्याघातकालत्वेन तत्राग्नेरभावाद्दीपशिखानामप्यसम्भवात्, योदना प्राग्वत्, यथातत्सन्ध्यारूपोउपरमसमयवर्त्तित्वेन मन्दो रागस्तत्समये-तदवसरे नवनिधिपतेश्चक्रवर्तिन इवहस्वा दीवा दीपिकास्तासां चक्रवालं-सर्वतः परिमण्डलरूपं वृन्दं कीधगित्याह-प्रभूता-भूयस्यः स्थूरा वा वर्त्तयो-दशा यस्य ततथा पर्याप्तःपरिपूर्ण स्नेहः-तैलादिरूपो यस्य तत् तथा धनं-अत्यथमुज्वलितं अत एव तिमिरमईक, पुनः किंविशिष्टमित्याह-कनकनिकरः-सुवर्णराशि कुसुमितं च तत्पारिजातकवनं च-पुष्पितसरतरुविशेषवनं ततो द्वन्द्वस्तद्वत्प्रकाश:-प्रभा आकारो यस्य तत्तथा एतावता समुदायविशेषणमुक्तमिदानी समुदायसमुदायिनोः कथंचित् भेद इति ख्यापयन् समुदायविशेषणमेव विवक्षु समुदायिविशेषणान्याह-लोकेऽपिवक्तारोभवन्ति यदियंजन्ययात्रामहर्द्धिकजनैराकीर्णेति 'कंचने त्यादि, दीपिकाभि शोभमानमिति सम्बन्धः, कथंभूताभिर्दीपिकाभिरत आह ___ काञ्चनमणिरत्नमयाः विमलाः-स्वाभाविकागन्तुकमलरहितामहार्हा-महोत्सवातिपनीयंसुवर्णविशेषस्तेनोचला-दीप्ताः विचित्रा-विचित्रवर्णा दण्डाः यासांतास्तथा ताभिः सहसा-एककालं प्रज्चालिताश्च ता उत्सर्पिताश्च वर्त्यसपणेन तथा स्निग्धं-मनोहरंतेजोयासांतास्तथा, दीप्यमानो रजन्यां भास्वान् विमलोऽत्र धूल्याद्यपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां तास्तथा ताभि, ततः पदद्वय २ मीलनेन कर्मधारयः, तथा वितिमिराः कराः यस्यासौ वितिमिरकरोनिरन्धकारकिरणः स चासौ सूरश्च तस्येव यः प्रसृत उद्योतः-प्रभासमूहस्तेन चिल्लिआहितिदेशीपदमेतत् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्ज्वलं प्रहसितं-हासस्तेनाभिरामारमणीयास्ताभिः, अत एव शोभमानं, तथैव ते दीपशिका अपि द्रुमगणा अनेकबहुविविधविनसापरिणतेनोद्योतविधिनोपपेताः, यथा दीपशिखा रात्रौ गृहान्तरुदद्योतन्ते दिवा वा गृहादौ तद्वदेते द्रुमा इत्याशयः, एवं च वक्ष्यमाणज्योतिषिकाख्यद्रुमेभ्यो विशेषः कृतो भवतीति, शेषं प्राग्वत् । अथ पञ्चमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ २ बहवे जोइसिआ नामं दुमगणा पन्नत्ता समणाउसो! जहा से अइरुग्गयसरयसूरमण्डलपडतउक्कासहस्सदिप्पंतविजुजलहुअवहणिझूमजलिअणिद्धंतधोअतत्ततवनिञ्जकिंसुआसोअजा सुअणकुसुमविमउलिअपुंजमणिरयण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy