SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-/३९ प्रथमानां परतीथिकानां मूलभूतं स्वशिष्यं प्रत्यामन्त्रणवाक्यं, अत्रैवोपसंहारमाह __ “एगे एवमाहंसु' १, एके पुनरेवमाहुः-यदा जम्बूद्वीपे द्वीपे दक्षिणेऽस्मिन्नद्धेऽष्टादशमुहूर्तानन्तरः-अष्टादशभ्यो मुहूर्तेभ्योऽनन्तरो मनाक् हीनो हीनतरो वा यावत्सप्तदशभ्यो मुहूर्तेभ्यः किञ्चित्समधिकप्रमाणो दिवसो भवति तदा उत्तरार्द्धऽप्यष्टादशमुहूर्त्तानन्तरो दिवसो भवति, यदाचोत्तराद्धेऽष्टादशमुहूर्तानन्तरोदिवसो भवति तदा दक्षिणाद्धेऽपितथा यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्ध सप्तदशमुहूर्तानन्तरो दिवसो भवति तदाउत्तराद्धेऽपिसप्तदशमुहूर्तानन्तरोदिवसः, यदा उत्तरार्द्धसप्तदशमुहूर्तानन्तरोदिवसस्तदा दक्षिणाऽपि एवमित्यादि, एवमुक्तेनप्रकारेण एकैकमुहूर्तहान्यापरिहातव्यं, परिहानिप्रकारमेवाह--'सोलसें त्यादि, प्रथमतः षोडशमुहूर्तानन्तरो दिवसोवक्तव्यः, ततः पञ्चदशमुहूर्तानन्तरस्तदनन्तरंचतुर्दशमुहूर्तानन्तरः, ततः त्रयोदशमुहूर्तानन्तरः, एतेषां हि मतेन न कदाचनापि परिपूर्णमुहूर्तप्रमाणो दिवसो भवति, ततः सर्वत्रानन्तरशब्दप्रयोगः, द्वादशमुहूर्तानन्त-रसूत्रंतु साक्षाद्दर्शयति 'ताजयाण'मित्यादि, तत्र यदा जम्बूद्वीपेद्वीपे दक्षिणार्द्ध द्वादशमुहूर्तानन्तरो दिवसस्तदा उत्तरार्द्धऽपि द्वादशमुहूर्तानन्तरो दिवसः, यदा चोत्तरार्द्ध द्वादशमुहूर्तानन्तरो दिवसस्तदा दक्षिणा.ऽपितदा चाष्टादशमुहूर्तानन्तादिदिवसकाले जम्बूद्वीपे मन्दरस्यपर्वतस्य पूर्वस्यामपरस्यां च दिशिनो-नैव सदा-सर्वकालं पञ्चदशमुहूर्तो दिवसो भवति नापिसदा पञ्चदश मुहूर्ता रात्रि, कुत इत्याह-'अनवट्ठियाण मित्यादि, अनवस्थितानि-अनियतप्रमाणानि, खलु तत्र-मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यांच दिशि रात्रिंदिवानि प्रज्ञप्तानि, हे श्रमण हे आयुष्मन्!, अत्रोपसंहारमाह 'एगे एवमाहंसु'२,एके पुनरेवमाहु:-'ता' इति पूर्ववत्, जम्बूद्वीपे द्वीपे यदा दक्षिणा. - टादशमुहूर्तो दिवसो भवति तदा उत्तरार्द्ध द्वादशमुहूर्ता रात्रि, यदा चोत्तराट्टेऽष्टादशमुहूर्तों दिवसो भवति तदा दक्षिणार्द्ध द्वादशमुहूर्त्ता रात्रि; तथा यदा दक्षिणाट्टै अट्ठारसमुहुत्ताणंतरे'त्ति अष्टादशभ्यो मुहूर्तेभ्योऽनन्तरो-मनाक् हीनो हीनतरो यावत्सप्तदशभ्यो मुहूर्तेभ्यः किञ्चिदधिक एवंप्रमाणो दिवसो भवति तदा उत्तरार्द्ध द्वादशमुहूर्त्ता रात्रि, यदा च उत्तरार्द्ध अष्टादश मुहूर्ता रात्रि तदा दक्षिणार्द्धद्वादशमुहूर्तो दिवसः यदाचोत्तराद्देऽष्टादशमुहूर्तानन्तरो दिवसः तदा दक्षिणार्द्ध द्वादशमुहूर्त्ता रात्रि, 'एवम्'एवम्--उक्तेन प्रकारेण तावद्वक्तव्यं यावत्रयो दशमुहूर्तानन्तरोदिवसवक्तव्यता एकैकस्मिंश्च सप्तदशादिके सङ्क्रयाविशेषे सकलैर्मुहूर्तेरनन्तरैश्च किञ्चिदूनैर्की द्वावालापको वक्तव्यौ, सर्वत्र च द्वादशमुहूर्त्ता रात्रि, तद्यथा_ 'जयाणं जंबुद्दीवेदीवेदाहिणड्ढे सत्तरसमुहुत्ते दिवसे भवइ तयाणं उत्तरड्ढे दुवालसमुहुत्ता राई भवति, जया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवइ तया णं दाहिणड्ढे दुवालसमुहुत्ता राई भवति, जयाणंजंबुद्दीवे दीवेदाहिणड्ढे सत्तरसमुहुत्ताणंतरे दिवसेहवइतयाणंउत्तरड्डेदुवालसमुहुत्ता राई भवति, जया णं उत्तरड्ढे सत्तर समुहुत्ताणंतरे दिवसे हवइ तया णं दाहिणड्ढे दुवालसमुहुत्ता राई भवइ' एवं षोडशमुहूर्तषोड शमुहूर्तानन्तरपञचदशमुहूर्तपञ्चदशमुहूर्तानन्तरचतुर्दशमुहूर्तचतुर्दशमुहूर्तानन्तरत्रयोदशमुहूर्त त्रयोदशमुहूर्तानन्तरद्वादशमुहूर्तगता अपिनवआलापका वक्तव्याः, द्वादशमुहूर्तानन्तरगतं आलापकं साक्षादाह-'जया णमित्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणा॰ द्वादशमुहूर्तानन्तरो दिवसोभवतितदाउत्तरार्द्ध द्वादशमुहूर्ता रात्रिर्भवति, यदाचोत्तरार्द्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy