________________
सूर्यप्रज्ञप्तिउपासूत्रम् ७/-/३८
(प्रामृत-७) वृ. तदेवमुक्तं षष्ठं प्राभृतं, सम्प्रति सप्तमं आरभ्यते, तस्य चायमर्थाधिकारः “कस्तव मतेन भगवन् ! सूर्यं वरयती ति, तत एतद्विषयं प्रश्नसूत्रमाह
मू. (३८)ताकेते सूरियं वरंतिआहिताति वदेजा?,तत्थ खलुइमाओवीसंपडिवत्तीओ पन्नत्ताओ। तत्थेगे एवमाहंसु-तामंदरेणं पवते सूरियंवरयति आहितेति वदेजा, एगे एवमाहंसु १, एगे पुण एवमासु ता मेरू णं पचते सूरियं वरति आहितेति वदेजा।
एवंएएणंअभिलावेणं नेतव्वंजावपव्वतराये णंपव्वते सूरियं वरयति आहितेति वदेजा, तंएगे एवमाहंसु । वयंपुण एवं वदामो-ता मंदरेवि पवुचति तहेव जाव पव्वतराएवु पवुच्चति, ताजेणं पोग्गला सूरियस्स लेसं फुसति ते पोग्गला सूरियं वरयंति, अदिहावि णं पोग्गला सूरियं वरयंति, चरमलेसंतरगताविणं पोग्गला सूरियं वरयति॥
वृ. 'ता के ते'इत्यादि, ता इति पूर्ववत्, कस्तव मतेन भगवन् ! सूर्यं वरयति ?, वरयन् 'वर ईप्सायां' आप्तुमिच्छन् स्वप्रकाशकत्वेन स्वीकुर्वन्, आख्यात इति वदेत्, एवमुक्ते भगवान् एतद्विषया यावत्यः परतीथिकानां प्रतिपत्तयः तावतीः कथयति- 'तत्थे' त्यादि, तत्र सूर्यं प्रति वरणविषये खल्विमा विंशति प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां विंशतेः परतीर्धिकानां मध्ये एके प्रथमा एवमाहुः-मन्दरः पर्वतः सूर्यं वरयति, मन्दरः पर्वतो हि सूर्येण मण्डलपरिभ्रम्या सर्वतः प्रकाश्यते, ततः सूर्य प्रकाशकत्वेन वरयतीत्युच्यते, अत्रोपसंहारः-'एगे०' १, एके पुनरेवमाहुः, मेरुपर्वतः सूर्यं वरयन्नाख्यात इति वदेत, अत्राप्युपसंहारः ‘एगे०२।।
‘एव'मित्यादि, एवं-उक्तेन प्रकारेण लेश्याप्रतिहतिविषयविप्रतिपत्तिवत् तावन्नेतव्यं यावत्पर्वतराजः पर्वतः सूर्यंवरयन् आख्यात इति वदेत्, एके एवमाहुरिति, किमुक्तंभति?-यथा प्राक् लेश्याप्रतिहतिविषये विंशति प्रतिपत्तयो येन क्रमेणोक्तास्तेन क्रमेणात्रापि वक्तव्याः, सूत्रपाठोऽपिप्रथमप्रतिपत्तिगतपाठानुसारेणान्यूनातिरिक्तः स्वयंपरिभावनीयो, ग्रन्थगौरवभयात्तु न लिख्यते, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः, संप्रति भगवान् स्वमतमुपदर्शयति
'वयं पुण'इत्यादि, वयंपुनरेवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता मंदरेऽवी' त्यादि, ताइतिपूर्ववत्, योऽसौ पर्वतः सूर्यवरयन् आख्यातः समन्दरोऽप्युच्यते मेरुरप्युच्यते यावत्पर्वतराजोऽप्युच्यते, एतच्च प्रागेव भावितं, ततो भिन्नभिन्नविषयतया प्रवृत्ताः प्राक्तन्यः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः, अपिच-न केवलो मेरुरेव सूर्यं वरयति, किं त्वन्येऽपि पुद्गलाः, तथा चाह- 'ता जे ण', ता इति पूर्ववत् पुद्गला मेरुगता अमेरुगता वा सूर्यलेश्यांस्पृशन्तिते पुद्गलाः स्वप्रकाशकत्वेन सूर्यंवरयन्ति, ईप्सितं हि सूर्येण प्रकाश्यते, ततो लेश्यापुद्गलैः सह सम्बन्धात्परंपरया ते–सूर्यं स्वं कुर्वन्तीत्युच्यते, ये च प्रकाश्यमानपुद्गलस्कन्धान्तर्गता मेरुगताअमेरुगताचा सूर्येण प्रकाशिता अपि सूक्ष्मत्वान्न चक्षुस्पर्शमुपगच्छन्ति तेऽपिप्रागुक्तयुक्त्या सूर्यंवरयन्ति, येऽपिच चरमलेश्यान्तरगताः-स्वचरमलेश्याविशेषस्पर्शिनः पुद्गलास्ते ऽपि सूर्यं वरयन्ति, तेषामपि सूर्येण प्रकाश्यमानत्वात् ।।
प्राभृतं-७ समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org