SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ७२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ३/-३४ सहस्रप्रकाशयति, द्वितीयोऽप्यष्टानवत्यधिकं सहस, उभयमीलने एकविंशति शतानि षन्नवत्यधिकानि प्रकाश्यमानानिलभ्यन्ते, तदा चद्वौपञ्चचक्रवालभागौरात्रि, तद्यथा-एकतोऽपि पञ्चमो भागो द्वात्रिंशदधिकसप्तशतभागसङ्ख्यो रात्रिरपरतोऽपिएकः पञ्चमभागोद्वात्रिंशदधिकसप्तशतभागसङ्घयोरात्रि, उभयमीलने चतुर्दश शतानिचतुःषष्ट्यधिकानि षष्ट्यधिकषट्विंशच्छतभागानां रात्रि, सर्वभागमीलने षट्त्रिंशच्छतानि षष्ट्रयधिकानि भवन्ति, सम्प्रति तत्र दिवसरात्रिप्रामाणमाह ___ 'तया णमित्यादि, तदा-अभ्यन्तरमण्डलचारकाले उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि, ततो द्वितीयेऽहोरात्रे द्वितीये मण्डले वर्तमान एकोऽपिसूर्यो जम्बूद्वीपस्य द्वीपस्यैकंपञ्चमंचक्रवालभागसार्द्ध षष्टयधिकषटत्रिंशच्छ तभागसत्कभागद्वयहीनं प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं सार्द्ध षष्ट्यधिकषट्त्रिंशच्छतभागद्वयहीनंप्रकाशयति, तृतीयेऽहोरात्रेतृतीये मण्डले वर्तमान एकोऽपि सूर्य एकंपञ्चमंचक्रवालभागंसाद्धषटयधिकषट्त्रिंशच्छतभागसत्कभागचतुथ्यन्यनंप्रकाशयति, अपरोऽप्येकं पञ्चमं चक्रवालभागं सार्द्ध षष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागचतुष्टयन्यूनं प्रकाशयति, एवं प्रत्यहोरात्रमेकैकः सूर्यषष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागद्वयमोचनेन प्रकाशयन तावदवसेवःयावत्सर्वबाह्यं मण्डलं सर्वाभ्यन्तरान्मण्डलात्परतःत्र्यशीत्यधिकशततमं, ततःप्रतिमण्डलं भागद्वयमोचनेन यदा सर्वबाह्ये मण्डले चरतितदा त्रीणि शतानिषटषष्टयधिकानि भागानां त्रुटयन्ति, त्र्यशीत्यधिकस्य शतस्य द्वाभ्यां गुणने एतावत्याः सङ्ख्याया भावात्, त्रीणिच शतानि षट्षष्ट्यधिकानि पञ्चमचक्रवालभागस्य द्वात्रिंशदधिकसप्तशतभागप्रमाणस्यार्द्ध, ततः पञ्चमचक्रवालभागस्या परिपूर्णंतत्रमण्डले त्रुटयतीति एक एव परिपूर्णपञ्चमचक्रवालभागस्तत्र प्रकाश्यः, तथा चाह- 'ता जया णं तत्र यदा णमिति पूर्ववत् एतौ प्रवचनप्रसिद्धौ द्वावपिसूर्यो सर्वबाह्य-मण्डलमुपसंकायचारंचरतः तदातौ समुदितौ जम्बूद्वीपस्य २ द्वौ चक्रवालपञ्चमभागौ अवभासयत उद्योतयतस्तापयतः प्रकाशयतः, -एकोऽपिसूर्य एकंपञ्चमंचक्रवालभागंप्रकाशयतीत्येकोऽपिअपरोऽपि द्वितीयोऽपीत्यर्थः एकं पञ्चमं चक्रवालभागं प्रकाशयति, 'तया णं० तदा सर्ववाह्यमण्डलचारकाले उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्जघ- न्यतो द्वादशमुहूर्तप्रमाणो दिवसः, इह यथानिष्क्रमतोः सूर्ययोर्जम्बूद्वीपविषयः प्रकाशविधि क्रमेण हीयमान उक्तः तथा सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतोः क्रमेण वर्द्धमानो वेदितव्यः । तद्यथा-द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रेसर्ववाह्यान्मण्डलादस्तिनेऽनन्तरे द्वितीये मण्डले वर्तमान एकोऽपि सूर्य एकं जम्बूद्वीपस्य द्वीपस्य पञ्चमचक्रवालभागं षष्ट्यधिकषट्त्रिंशच्छतसङ्ख्यभागसत्कभागद्वयाधिकं प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषट्त्रिंशच्छतसङ्घयभागसत्कभागद्वयाधिकंप्रकाशयति, द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलाद्वाक्तने तृतीये मण्डले वर्तमान एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषत्रिंशच्छतसंख्यभागसत्कभागचतुष्टयाधिकं प्रकाशयति, अपरोऽपि सूर्य परत एकं पञ्चमं चक्रवालभागं यथोक्तभागचतुष्टयाधिकं प्रकाशयति, एवंप्रतिमण्डलमेकैकः सूर्यषष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागद्वयवर्द्धनेन प्रकाशयन्ताबदवसेयः यावत्सर्वाभ्यन्तरं मण्डले एकंपञ्चमं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy